सूर्यसिद्धान्त:
मध्यमाधिकार:-1


कालभेद:। मूर्त्तकाल:। अमूर्त्तकाल:
Kalah vedah|Murtakalah | Amurtakalah

अथोक्तं भेदद्वयं स्वरूपेण प्रदर्शयन् प्रथमभेदं प्रतिपादयिषुस्तदवान्तरभेदेषु भेदद्वयमाह—

प्राणादि: कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञक:।
षडभि:प्राणौर्विनाडी स्यात्तत्षष्टया नाडिका स्मृता।।11।।

प्राण: स्वस्थसुखासीनस्य श्वासोच्छ्वासान्तर्वर्ती कालो दशगुर्वक्षरोच्चार्यमाण आदिर्यस्य एतादृश: प्राणान्तर्गतो मूर्त्त काल उक्त:। त्रुटिराद्या यस्य एतादृश: काल एकप्राणान्तर्गतस्त्रुटितत्परादिकोऽमूर्त्तसंज्ञ:। अथामूर्त्तस्य मूर्त्तादिभूतस्य व्यवहारायोग्यत्वेनाप्रधान- तयानन्तरोद्दिष्टस्य भेदप्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधानतया प्रथमोदिद्ष्टभेदान् विवक्षु: प्रथमं पलघट्यावाह। षड्भिरिति। षट्प्रमाणैरसुभि: पानीयपलं भवति पलानां षष्ट्या घटिकोक्ता कालतत्त्वज्ञै:।।11।।