सूर्यसिद्धान्त
चन्द्रग्रहणाधिकार:-4


सूर्यस्य कलात्मकं विम्बमानम्। चन्द्रस्य कलात्मकं विम्बमानम्।
Suryasya kalatmakam bimwamanam |
Chandrasya kalatmakam bimwamanam

अथ सूर्यविम्बं चन्द्रकक्षायां साधयंस्तभयो: कलात्मकबिम्बानयनं सार्द्धश्लोकेन आह——

रवे: स्वभगणाभ्यस्त: शशाङकभगणोद्धृत:।।2।।
शशाङ्कक्षागुणितो भाजितो वाऽर्ककक्षया।
विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिका:।।3।।

सूर्यस्य विष्कम्भ: प्रागुक्तंस्पष्टो व्यास: स्वभगणै: सूर्यभगणैरूक्तैर्गुणित: चन्द्रभगणै: भक्तो वाथवा चन्द्रकक्षया वक्ष्यमाणया गुणित: सूर्यकक्षया वक्ष्यमाणया भक्तचन्द्रकक्षायां चन्द्राधिष्ठिताकाशगोले सूर्यव्यास: स्पष्टो भवति। ततो व्यासयोजनसंख्या पञ्चदशभक्ता सूर्यचन्द्रयोर्विम्बव्यासप्रमाणकला भवन्ति। अत्रोपपत्ति:। चक्रकलाभिश्‍चन्द्रकक्षायोजनानि तेदेककलया कानीति चन्द्रकक्षास्थितैककलायां पञ्चदशयोजनानि। अतश्‍चन्द्रस्य स्वकक्षायां स्थित्वात् स्पष्टचन्द्रविम्बव्यासयोजनानि पञ्चदशभक्तानि चन्द्रविम्बव्यासकला भवन्ति। एवं सूर्यकक्षायामेका कला सार्द्धशतद्वययोजनैरिति स्पष्टसूर्यव्यासस्तैर्भक्तो व्यासकला भवन्ति। तत्र सूर्यस्य लोकैर्दूरान्तराच्‍चन्द्राकाश इव दर्शनात् प्रत्यक्षतो विविक्तान्तरेण दर्शनाभावाच्च चन्द्रकक्षाप्रमाणेन सूर्यविम्बव्यास: सूर्यकक्षया अयं तदा चन्द्रकक्षया क इत्यनुपातेन गणितार्थमवस्तुभूत: साधित:। न तु वस्तुतश्‍चन्द्रकक्षायां सूर्यमण्डलावस्थानं सूर्यग्रहणे चन्द्रस्य छादकत्वानुक्तिप्रसङ्गात्। अथ सूर्यस्पष्टव्यासश्‍चन्द्रभगणभक्तखकक्षारूपचन्द्रकक्षया गुणितसूर्यभगणभक्तखकक्षारूपसूर्यकक्षया भक्त इति खकक्षारूपगुणहरयोर्नाशात् सूर्यभगणगुणितश्‍चन्द्रभगणभक्त इति पूर्वं कक्षयोरनुक्तेरयं प्रकारो मुख्यत्वात् प्रथममुक्त: ततश्चन्द्रकक्षासिद्धसूर्यविम्बव्यास: पञ्चदशभक्त: सूर्यविम्बव्यासकला: सिद्धा इत्युपपन्नमुक्तम्।।2-3।।