अथ चन्द्रग्रहणाधिकारो व्याख्यायते। तत्र प्रथमं सूर्यचन्द्रयोर्विम्बयोजनानि तत्स्फुटीकरणं च सार्द्धश्लोकेन आह—
सार्धानि षट् सहस्राणि योजनानि विवस्वत:।
विष्कम्भो मण्डलस्येन्दो: सहाशीत्या चतुश्शतम्।।
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ।।1।।
षट्सहस्राणि सार्द्धानि सहस्रयार्द्धं पञ्चशतं तत्सहवर्त्तमानानि पञ्चषष्टिशतं योजनानि सूर्यस्य मण्डलस्य गोलरूपबिम्बस्य विष्कम्भो व्यास:। चन्द्रस्य गोलाकारबिम्बस्याशीत्या सहाशीत्यधिकं चतु:शतं योजनानि। तौ व्यासौ स्पष्टया निजगत्या गुणितौ निजमध्यगत्या भक्तौ स्फुटौ स्त:। अत्र गणिते व्यासस्यैवबिम्बव्यवहारोऽभियुक्तानाम्। अत्रोपपत्ति:। त्रिज्यामितकर्णे मध्यमकक्षायां भ्रमणात् तत्र यद्बिम्बं व्यासात्मकं तन्मध्यमम्। तत्र स्वल्पान्तरेण मध्यगत्यङ्गीकारान्मध्यगत्येदं तदा स्फुटगत्या किमिति स्पष्टं बिम्बं नीचे पृथूच्चेऽणुतरम्। गत्यो: परमाधिकन्यूनत्वात्।।1।।