अथ प्रसंगान्मध्यलग्नानयनं लग्नानयनविशेषसूचनार्थमाह—
प्राक्पश्चान्नतनाडीभिस्तस्माल्लङकोदयासुभि:।
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत्।।48।।
दिनार्द्धान्तर्गतदिनगतशेषहीनं दिनार्द्धं क्रमेण प्राक् पश्चिमं नतं रात्र्यर्द्धान्तर्गतरात्रिशेषगतयुतं दिनार्द्धं प्राक् पश्चिमं नतं जातकपद्धतौ प्रसिद्धम्। नतघटिकाभिस्तस्मात् तात्कालिकसूर्यात्। निरक्षदेशराश्युदयासुभि: पूर्वोक्तप्रकारेण सिद्धराशिभागादिकं प्राक्पश्चिमनतक्रमेण सूर्ये क्षयधने हीनयुते कृत्वा तदाभीष्टकाले मध्यलग्नं दशमलग्नं स्यात्। अयमभिप्राय:। प्राङ्नते नतघट्यसुभ्य: सूर्याक्रान्तराशेर्निरक्षोदयासुभिर्भुक्तासून्विशोध्य तत्पूर्वराशीनां निरक्षोदयासूश्चं विशोध्य शेषं त्रिशंद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितगृहसंख्यातुल्यराशिभिश्च सूर्यो हीनो मध्यलग्नम्। एवं पश्चिमनते नतघट्यसुभ्य: सूर्याक्रान्तराशेर्निरक्षोदयासुभिर्भोग्यासून् विशोध्य तदग्रिमराशीनां निरक्षोदयासूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितग्रहसंख्यातुल्यराशिभिश्च सूर्यो युतो मध्यलग्नम्। एवं भुक्तभोग्यासुभ्यो ऽल्पकालेपीष्टासवस्त्रिंशद्गुणिता: सूर्याक्रान्तराश्युदयभक्ता: फलेन भागादिना हीनयुतोऽर्को मध्यलग्नं स्यात्। अनेन प्रकारेण लग्नमपि साध्यम्। अत्रोपपत्ति:। उर्ध्वयाम्योत्तरवृत्ते य: क्रान्तिवृत्तप्रदेशो लग्नस्त न्मध्यलग्नम्। तत्साधनार्थमभीष्टकाले याम्योत्तरवृत्ताद्द्युरात्रवृत्ते सूर्यो यावता घटीविभागादिना नत: स नतकाल:। प्राक्पश्चिमकपालयो: प्राकपश्चिमसंज्ञ:। अर्द्धरात्रिमारभ्य दिनार्द्धपर्यन्तं प्राक्कपालम्। दिनार्द्धमारभ्यार्द्धरात्रपर्यन्तं पश्चिमकपालम्। तत्र प्राङ्नते सूर्यस्य याम्योत्तरवृत्तात् पूर्वस्थत्वेन सूर्यात् पूर्वराशिभाग एव याम्योत्तरवृत्तलग्न इति सूर्यादूनमृणलग्नरीत्या नतघटीभि: साध्यम्। पश्चिमनते तु सूर्यस्य याम्योत्तरवृत्तात्पश्चिमस्थत्वेन सूर्याग्रिमराशेर्मध्यलग्नत्वात् सूर्यादधिकक्रमलग्नरीत्या नतघटीभि: साध्यम्। तत्रोद्वृत्ता याम्योत्तरवृत्तस्य पञ्चदशघट्यन्तरेण नियतं सत्वान्निरक्षोदयासुभि: साध्यमिति। शेषक्रियोपपत्तिस्त्व तिस्पष्टतरेति संक्षेप:।।48।।
अथ कालसाधनमाह—
भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च।
सम्पिण्ड्यान्तरलग्नासूनेवं स्यात् कालसाधनम्।।49।।
अथ अनन्तरं लग्नार्कयोर्मध्ये योऽत्यन्तमूनस्तस्य भोग्यासूनधिकस्य भुक्तासून् सम्पिण्डय एकीकृत्यान्तरलग्नासून् सूर्यलग्नमध्ये ये लग्नराशयस्तेषामुदयासून्। च: समुच्चये। एकीकृत्यैवमुक्तप्रकारेण कालस्य सिद्धिर्भवति। अत्रोपपत्ति:। ऊनादधिकमग्र एव भवतीर्यूनतुल्यलग्नस्य भोग्यकालोऽन्तरस्थराश्युदययुतोऽधिकतुल्यलग्नस्य भुक्तकालेन युतस्तिल्लग्नयोरन्तरवर्ती काल: सिद्ध: स्यात्।।49।।
अथैवं लग्नार्काभ्यां साधितकालस्य दिनरात्र्यन्तर्गतत्वज्ञानमाह—
सूर्यादूने निषाशेषे लग्नेऽर्कादधिके दिवा।
भचक्रर्धयुताद्भानोरधिकेऽस्तमयात् परम्।।50।।
सूर्यात् त्रिराश्यन्तर्गतत्वेन न्यूने लग्ने सति रात्रिशेषे भवति। सूर्यात् षड्भान्तवर्गतत्त्वेनाधिके लग्ने पूर्वप्रकारसिद्ध: कालो दिने स्यात्। षड्भयुतात्सूर्यादधिके लग्ने लग्नषड्भसूर्याभ्यामानीत: पूर्वरीत्या कालोऽस्तमयात् सूर्यास्तकालात् परमनन्तरं रात्रावित्यर्थ:। एतेन रात्रीष्टकाले गते सषड्भसूर्याल्लग्नं साध्यामिति सूचितम्। अत्रोपपत्ति:। सूर्योदये सूर्यतुल्यलग्नत्वात् सूर्यादूनाधिके लग्ने क्रमेण रात्रिशेषे दिने च काल: स्यात्। एवमस्तकाले सषड्भसूर्यस्य लग्नत्वात् तदधिके लग्ने रात्रावेव काल: सिद्ध्येदित्यादि सुगमतरम्।।50।।