अथ अभीष्टघटिकाभ्य ऋणधनलग्नसाधनं श्लोकाभ्यामाह—
अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत्।
तद्वत् तदेष्यलग्नासूनेवं यातान् तथोत्क्रमात् ।।46।।
शेषं चेत् त्रिंशताभ्यस्तमशुद्धेन विभाजितम्।
भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा।।47।।
अभीष्टकाले या: सूर्योदयघटिकास्तासामसुभ्यो भोग्यासून् शोधयेत्। तदनन्तरं तदेष्यलग्नासून्। सूर्याक्रान्तराशेरग्रिमराशय एष्यलग्नानि। तेषामुदयासूनपि तद्वत् क्रमेण शोधयेत्। एवमुक्तरीत्या शेषघटिकासुभ्यो यातान् भुक्तासून् भुक्तराश्युदयासूंश्च व्यस्तक्रमात्तथा शोधयेत्। यो राश्युदयो न शुद्ध्यति सोऽशुद्धस्तेन त्रिंशता गुणितं शेषं भक्तम्। चेदित्यनेन शेषाभावे क्रिया न कार्या शून्यफलसिद्धेरिति सूचितम्। फलेन भागादिना भुक्तसम्बद्धेन हीनं चकारादशुद्धराशिसंख्यामानं भोग्यसम्बद्धभागादिफलेन युक्तं चकारादन्तिमशुद्धराशिसंख्यामानं तदागतराश्यादिमानसम्बन्धिसम्पातावधिकक्रान्तिवृतैकप्रदेशरूपं तदाभीष्टकाले क्षितिजे क्षितिजवृत्तपूर्वविभागे लग्नं समसूत्रसम्बन्धेन लग्नस्वरूपोक्त्या भीष्टकाले तल्लग्नं स्यादित्यर्थ:। फलादेशार्थं ग्रहाणां रेवतीयोगतारासन्नावधितो ग्रहात् तत्पङ्क्तिस्थलग्नस्यापि फलादेशार्थं तत् एव समुचितं ग्रहणमित्यागतलग्नं सम्पातौ अधिकमयानांशैर्व्यस्तं संस्कुर्यादिति स्वत: सिद्धमिति न उक्तम्। न च पूर्वमेव सूर्यस्य अयनाशं संस्कारानुक्त्या लग्नमपि यथास्थितमिति अयानांशव्यस्तसंस्कारोऽनुक्त: संगत इति वाच्यम्। स्थूलत्वात् लग्नार्थं सूर्येऽयनांशसंस्कारस्तस्य तत्संस्कृताद्ग्रहात् क्रान्तिच्छायाचरदलादिकमित्यत्रादिपदसंगृहीतत्वाच्च। अथ भगवतायनांशव्यस्तसंस्कार: कण्ठेन नोक्त इति लग्नं सम्पातावधिकमेव फलादेशार्थं गृहीतम्। सूर्यस्य तु लग्नार्थमयनांशसंस्कारस्यावश्यकत्वात्। उदयानां सम्पातावधिकत्वादिति चेन्मैवम्।
भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा। इत्यर्द्धस्य आवृत्याग्रिमश्लोकादिस्थप्राक्प-श्चादित्यस्यावृत्या च प्राक्पश्चाच्चक्रचलने भागैरयनांशै: क्रमेण हीनं युक्तं लग्नं स्यादित्यर्थेन भगवत: कण्ठोक्ते: सिद्धत्वाच्च। अत्रोपपत्ति:। अभीष्टघटिकासुभ्यो भोग्यगतासुशोधने सूर्याक्रान्तराशिरर्लग्नं नेति ज्ञातम्। ततोऽग्रिमपश्चाद्राश्युदयशोधने शुद्धो राशि: लग्नं नेति ज्ञातम्। ततो यो राश्युदयो न शुद्ध्यति स एव राशिभीष्टकाले क्षितिजे लग्न इति। तस्य को भागो लग्न इति ज्ञानार्थमशुद्धराश्युदयासुभित्रिंशद्भागास्तदा शेषासुभि: क इत्यनुपातेन भुक्तभोग्यक्रमेण लग्नराशेर्भोग्यभुक्तभागादिकं सिद्धम्। तत्र भोग्यभागास्त्रिंशत: शुद्धा गता भागा लग्नराशेर्भवन्तीत्यशुद्धराशिसंख्यातो भोग्यभागा शुद्धा लग्नं भवति। भुक्तभागाश्च भुक्तराशिसंख्यायां युक्ता लग्नं भवति। अयनांशव्यस्तसंस्कारो ग्रहपङ्क्तिस्थत्वार्थम्। अन्यथा फलादेशार्थं ग्रहा अयनांशसंस्कृता ग्राह्या इति सर्वं निरवद्यम्।।46-47।।