अथ अभीष्टकाले ऋणधनलग्नसाधनार्थं गतभोग्यासूनाह—
गतभोग्यासव: कार्या भास्करादिष्टकालिकात्।
स्वोदयासुहता भुक्तभोग्या भक्ता: खवह्निभि:।।45।।
इष्टकाले चालनेन सञ्जातात् सूर्योदयाद्गतभोग्यासव:। गतासवो भोग्यासवश्च साध्या:। कथं साध्या इत्यत आह। स्वोदयासुहता इति। भुक्तभोग्या: सूर्याक्रान्तराशेर्ये ये भुक्तभागा:। सूर्यस्य भागाद्यवयवात्मका एते त्रिंशत: शुद्धा भोग्यभागा:। सूर्याक्रान्तराशे: स्वदेशोदयासुभिर्गुणितास्त्रिंशता भक्ता गतासवो भोग्यासव: क्रमेण भवन्ति। अत्रोपपत्ति:। यस्मिन् काले लग्नं साध्यं तस्मिन् काले सूर्य: साध्योऽन्यथा तात्कालिक लग्नसिद्धिर्नस्यात्। अथैतदर्थं सूर्याक्रान्तराशेर्भुक्तासवो भोग्यासवश्च साध्या:। सूर्योदयात् तत्कालपर्यन्तं पूर्वाग्रिमकालयोस्तद्राशेर्लग्नत्वात्। अनन्तरं च राश्युदयासुगणनया लग्नज्ञानस्य सुशकत्वाच्च। अतस्त्रिंशद्भागैरूदयासवस्तदा भुक्तभोग्यभागै: क इति भुक्तभोग्यकालासव:। अत्र उदयकालासूनां सम्पातावधिराशिग्रहणेनोत्पन्नत्वात् सूर्योऽयनांशसंस्कृतो ग्राह्य:। अन्यथा सूर्याक्रान्तराशेरूक्तोदयसम्बन्धाभावादसंगततापत्ते:। अत एव युक्तायनांशादपम: प्रसाध्य: कालौ च खेटात् खलु भुक्तभोग्यौ। इति भास्कराचार्योक्तं संगच्छते। ननूक्तरीत्यौदयिकार्कादेव भुक्तभोग्यासव: साध्या: सूर्योदयात् तत्कालावधि तद्राशेर्लग्नत्वात्। न हीष्टकाले तद्राशिर्लग्नं येन तद्गतभोग्यासव: साध्या:। नापि तात्कालिकार्कात् सूर्योदयावधिकास्ते तात्कालिकार्कस्य सूर्योदयकालिकत्वाभावात्। तत् कथं भगवता सर्वज्ञेन भास्करादिष्टकालिकादित्युक्तमिति चेत्। उच्यते। उदयानां नाक्षत्रत्वान्नाक्षत्रघट्यो ग्राह्यास्तास्तु असिद्धा:। सर्वत्र साधितघटीनां सावनत्वात्। तासां नाक्षत्रीकरणमावश्यकमन्यथा तद्भगणनानुपपत्ते:। तदर्थं ग्रहोदयप्राणहता इत्याद्युक्त्या षष्टिसावनघटीषु गतिकलोत्पन्नासवोऽधिका: नाक्षत्रत्वार्थं तदेष्टसावनघटीषु कियदधिकमित्यनुपातेनागतफलयुक्ता: सावना: कार्या:। तत्रागतफलस्य क्षेत्रावयवोदयासुभि: अष्टादशशतकलास्तदागतासुभि: का इत्यनुपातसिद्धाष्टादशशतोदयास्वो। र्गुणहरयोस्तुल्यत्वेन नाशादवशिष्टचालानस्वरूप: सूर्ये योजित:। सावनास्तु अविकृता एव स्थिता:। तथा चेष्टकालिकोऽर्को यत्काले लग्नं तत्कालात् पूर्वगृहीतसावनघट्यो नाक्षत्रा एव भवन्तीति भगवता सम्यगुक्तम्। भास्करादिष्टकालिकादिति। अनेनैवाभिप्रायेण भास्कराचार्यैरपि उक्तम्। लग्नाकर्थमिष्टघटिका यदि सावनास्ता: तात्कालिकार्ककरणेन भवेयुरार्क्ष्य:। आर्क्ष्योदया हि सदृशीभ्य इहापनेया: तात्कालिकत्वमथ न क्रियते यदार्क्ष्य:।।इति।।45।।