अथैभ्य: स्वदेशोदयासून् श्लोकार्धेनाह-
स्वदेशचरखण्डोना भवन्तीष्टोदयासव:।।43।।
एते सिद्धा:। स्वकीयै: देशसम्बन्धेन यानि उत्पन्नानि चरखण्डायनि चरानयनप्रकारेण एकादिराशीनां चराण्यानीयोक्तरीत्या स्वाधोऽध: शोधितानि मेषादिमिथुनान्तानां राशीनां चरखण्डानि भवन्ति तैरूणा: सन्त इष्टोदयासव: चरखण्डसम्बन्धिदेशे मेषादित्रयाणाम् उदयासवो भवन्तीत्यर्थ:। अत्रोपपत्ति:। मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते। लगति कुजे तदध:स्थे प्रथमं ताभिश्चरोनाभि:।। इति भास्करोक्त्या प्रत्येकोदयासुज्ञानं प्रत्येकचणेति। प्रत्येकचरं तु चरखण्डमित्युपपन्नम्।।43।।
अथ अवशिष्टराशीनामुदयानाह—
व्यस्ता व्यस्तैर्युता: स्वै: स्वै: कर्कटाद्यास्ततस्त्रय:।
उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादय:।।44।।
ततोऽनन्तरम् एते मेषादिलङ्कोदयासवो व्यस्ता मिथुनवृषमेषक्रमेण स्थापिता: स्वै: स्वै: मेषाचिरखण्डकैस्त्रिाभिर्व्यस्तैरूदयक्रमेण स्थापितै र्युता: कर्कादयस्त्रय: कन्यान्ता: क्रमेण ज्ञातोदयासुमाना भवन्ति। एवं षण्णामुक्त्वावशिष्टानामुदयासुज्ञानमाह। उत्क्रमेणेति। एते उक्ता मेषादय: कन्यान्ता: षटसंख्यका उत्क्रमेण कन्यासिंहकर्काद्युत्क्रमेण। एवकारो मेषवृषादिक्रमनिरासार्थक:। तुलादय: षड्राशय इष्टा ज्ञातस्वदेशोदयासुमाना भवन्ति। तथा न कन्योदयस्तुलाया: सिंहोदयो वृश्चिकस्य। कर्कोदयो धनुष:। मिथुनोदयो मकरस्य। वृषोदय: कुम्भस्य। मेषोदयो मीनस्येति सिद्धम्। अत्रोपपत्ति: कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये। लगति कुजे चोर्ध्वस्थे पश्चात् ताभिश्चराढ्याभि:।। तद्रहितै: खहुताशै: कन्यान्तो वा झषान्तो वा। चरखण्डैरूनाढ्यास्तेन निरक्षोदया: स्वदेशे स्यु:।। इति भास्करोक्त्या सुगमा।।44।।