सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3


लङ्कोदयासु: । Langkaudayasu

अथकालज्ञानमुक्त्वा तदुपजीवकफलादेशाद्युपयुक्तलग्नज्ञानं विवक्षु: तदुपयुक्तस्यो-दयज्ञानार्थं मेषादित्रयाणां लङ्कोदयासुसाधनपूर्वकतन्निबन्धनं श्लोकाभ्यामाह—

त्रिभद्युकर्णार्द्धगुणा: स्वाहोरात्रार्द्धभाजिता:।
क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक्।।41।।
स्वाधोध: परिशोध्याथ मेषाल्लङकोदयासव:।
खागाष्टयोडर्धगोडगैका: शरत्र्यङ्कहिमांशव:।।42।।

एकद्वित्रिभज्या:। एकराशिज्याद्विराशिज्यात्रिराशिज्या त्रिराशिद्युज्यया गुण्या: क्रमात् स्वक्रान्तिज्या सम्बन्धिद्युज्याभिर्भाज्या:। फलानां धनूषि भिन्नभिन्नस्थाने स्थाप्यानि। स्थानद्वये स्थाप्यानीत्यर्थ:। अनन्तरं स्वाधोऽध:। स्वादधोऽध एकराशिज्यासम्बन्धिफलं यथास्थितं तत: प्रथमफलं द्वितीयफलाद् द्वितीयफलं तृतीयफलान् न्यूनीकृत्य पृथगनुक्तौ प्रथमफलं द्वितीयफलान् न्यूनं कृतं सद्द्वयो: फलयोर्मार्जनात् तृतीये शोध्यासम्भव:। प्रथमस्य ज्ञानासम्भवश्चेति प्रथमद्वितीययो: पृथक्स्थापनमावश्यकम्। अतएव न त्रिधा पृथगित्युक्तम्। मेषात्। मेषमारभ्य राशित्रयाणां लङ्कोदयासवो भवन्ति। प्रथमफलं मेषस्य उदयासव:। द्वितीयोनतृतीयफलं मिथुनस्योदयासव इत्यर्थ:। नियतत्वात् तन्मानमाह। खागाष्टय इति। मेषमानं सप्ततियुतं षोडशशतं वृषमानं पञ्चोनमष्टादशशतं मिथुनमानं पञ्चत्रिंशदधिकमेकोनविंशतिशतमित्यर्थ:।

अत्रोपपत्ति: सिद्धान्तशिरोमणौ- मेषादिजीवा:श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजा: स्यु:। तत्कोटय: स्वद्युनिशाख्यवृत्ते व्यासार्द्धवृत्ते परिणामितानाम्।। चापेषु तासामसवस्ततो ये तेऽधो विशुद्धा उदया निरक्षे।।

इति। तत्स्वरूपोक्त्या त्रिज्याकर्णे त्रिराशिद्युज्या कोटिस्तदैकद्वित्रिराशिज्याकर्णेषु का इत्यनुपातेन कोट्यो द्युज्याप्रमाणेन अहोरात्रवृत्ते तदसुकरणार्थं त्रिज्याप्रमाणेन साध्या इति द्युज्याप्रमाणेनैता: तदा त्रिज्याप्रमाणेन का इत्यनुपातेन त्रिज्ययोर्गुणहरर्योस्‍तुल्यत्वेन नाशादेकादिराशिज्यास्‍त्रिराशिद्युज्यया गुण्या: स्वद्युज्यया भक्ता इत्युपपन्ना:। आसां धनुष्वेकादिराशीनामुदयासवस्तत्र प्रत्येकराश्युदयासुज्ञानार्थं स्वाधोऽध: शोधनमित्युपपन्नं त्रिभद्युकर्णार्द्धगुणा इत्यादि। अत्र लङ्कापदं निरक्षदेशपरं व्याख्येयम्। सर्वनिरक्षरदेशे क्षेत्रसंस्थानस्योक्तस्य तुल्यत्वेनोक्तरीत्यान्यनिरक्षदेशे तत्सिद्धौ बाधकाभावात्। अन्यथा स्वनिरक्षदेशे तत्साधनार्थं ग्रहवत् देशान्तरसंस्कारकरणापत्ते:। निजोदयकरणार्थं स्वनिरक्षदेशीयानां चरसंस्कारस्य समनन्तरमेव उक्तत्वादिति दिक्। खागाष्टय इत्यादावुक्तप्रकारगणितकर्मैवोपपत्ति:।।41-42।।