अथ भाभ्रमणमाह—
इष्टेऽह्नि मध्ये प्राक् पश्चाद्धृते बाहुत्रयान्तरे।
मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रम:।।40।।
अभिमते दिवसे पूर्वविभागे बाहुत्रयान्तरे पूर्वापरसूत्राद् भुजत्रयान्तरे स्थाने धृते। अयमर्थ:। पूर्वापरसूत्रस्य मध्यस्थानाद् भुजांगुलान्तरेण चिह्नमेकं द्वितीयं पूर्वविभागे पूर्वापरसूत्रात् कालान्तरीयभुजांगुलान्तरेण चिह्नं तृतीयं पश्चिमविभागे पूर्वापरसूत्रा दितरकालान्तरीयभुजांगुलान्तरेण चिह्नम्। एवमेकस्मिन् दिवसे कालत्रये स्वभुजान्तरेण पूर्वापरसूत्राच्चिह्नत्रये कृते सतीति। मत्स्यद्वयान्तरयुतेरव्यवहितचिह्नाभ्यां प्रत्येकं मत्स्यमुत्पाद्येति मत्स्यद्वयस्य प्रत्येकमुखपुच्छगतरूपमध्यसूत्रयो: स्वमार्गानुसारेण प्रसारितयोर्योगो यस्मिन् स्थाने तस्मादित्यर्थ:। त्रिस्पृक्सूत्रेण। चिह्नत्रयलग्नतुल्यसूत्रमितेन व्यासार्द्धेन भाभ्रमछायामार्गमण्डलं भवति। प्रथमान्तिमकालान्तर्गतकालिकच्छायाग्रं तद्वृत्तपरिधौ भवतीत्यर्थ:।
अत्रोपपत्ति:। प्राच्यापरसूत्राद् भुजान्तरे छायाग्रमिति छायाग्रत्रयं ज्ञात्वा तत्स्पृष्टपरिधि वृत्तस्य मध्यज्ञानार्थमव्यवहितचिह्नद्वयमत्स्याभ्यामव्यवहितचिह्नमध्यस्य दक्षिणोत्तरसूत्रे भवत:। तत्र वृत्तपरिधिप्रदेशेभ्य: केन्द्रस्य तुल्यान्तरत्वेन अव्यवहितचिह्नमध्यस्थानस्य अवश्यं परिधिसक्तत्वात् तत् सूत्रमपि केन्द्रे लग्नं भवति। एवं प्रत्येकाव्यवहितचिह्नमध्यसूत्रयो: योगस्तद्वृत्तकेन्द्रं सिद्धम्। मध्यरेखाज्ञानार्थं मत्स्यद्वयं तत्केन्द्राद्वृत्तं भागत्रयस्पृग्भवतीति इति किं चित्रम्। यद्यपि छायाग्रस्य सूर्यचलनानुरोधेन चलनात्तस्य तु वृत्ताकारासम्भवात् प्रतिक्षणं द्युरात्रवृत्तभेदात्। अन्यथा क्रान्तिभेदानुपपत्तेरित्येकवृत्तपरिधौ छायाग्रभ्रमणं न सम्भवति। अतएव भास्कराचार्यैर्भात्रितयाद् भाभ्रमणं न सदित्युक्तम्। तथापि साधितभाग्राणा अवश्यमेकवृत्तस्थत्वसम्भवात् तदन्तर्वर्तिनां छायाग्राणां तत्परिधिस्थत्वं स्वल्पान्तरत्वादंगीकृत्य भगवता कृपालुना छायाग्रदर्शनं विनापि छायाग्रस्थानज्ञानम् अन्यकालिकच्छायाग्रस्थानयोर्दर्शनेन अभीष्टसमये मेघादिनाच्छादिते रवौ राश्यादिसूर्यज्ञानोपजीव्याग्राभुजादिज्ञानार्थमुक्तम्। बहुकालान्तरितभाग्रग्रहणे स्थूलम्। अल्पान्तरिते किञ्चित् सूक्ष्ममिति ध्येयम्।।40।।