अथेष्टकालिकाग्रया क्रान्तिज्याद्वारा सूर्यसाधनं सार्धश्लोकेनाह—
इष्टग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता।
क्रान्तिज्या सा त्रिजीवाघ्नी परमापक्रमोद्धृता।।
तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रवि:।।39।।
इष्टकालिककर्णाग्रया गुणिता लम्बज्या। तुकारादग्रज्याया निरास:। तात्कालिकच्छायाया: कर्णांगुलसंख्याभिर्भक्ता फलं क्रान्तिज्या। सा क्रान्तिज्या त्रिज्यया गुणिता परमक्रान्तिज्यया भक्ता फलस्य धनू राश्यादिकं क्षेत्रं स्थानं भुज इति यावत्। पदैश्च्तुर्भिश्चिह्नज्ञातैस्तत्र पदे भव उत्पन्न:। यथोक्तरीत्या कर्कादौ प्रोज्झ्य चक्रार्द्धेत्याद्युक्त्या सूर्य: स्यात्। अत्रोपपत्ति:। कर्णाग्रे कर्णाग्रा लभ्यते तदा त्रिज्याग्रे केत्यग्रा। त्रिज्याकर्णे लम्बज्या कोटिस्तदाग्राकर्णे का कोटिरित्यनुपातेन त्रिज्ययातुल्ययोर्गुणहरयो र्नाशादिष्टकर्णाग्रागुणितलम्बज्याकर्णभक्ता क्रान्तिज्या। अस्या: सूर्यानयनं प्रागेवोक्तमिति पुनरुक्तत्वात् सुगमतरम्।।39।।