सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3


नतकालानयम्। Natakalanayan

अथ श्लोकत्रयेण छायाकर्णाभ्यां नतकालानयनमाह—

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता।
दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम्।।36।।
शङ्कु: सत्रिभजीवाघ्न: स्वलम्बज्याविभाजित:।
छेद: सत्रिज्ययाभ्यस्त: स्वाहोरात्रार्द्धभाजित:।।37।।
उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्।
उत्क्रमज्याभिरेवं स्यु: प्राक्पश्चार्द्धनतासव:।।38।।

अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छायायाश्‍छायाकर्णेन भक्ता फलं दृग्ज्या। दृग्ज्याया वर्गेण हीनात् त्रिज्या वर्गात् यत्संख्यामितं मूलम्। चकारो यत्तदोर्नित्यसम्बन्धात् तच्छब्दपर:। अभीष्टशङ्कु:, स इष्टशङ्कुस्त्रिज्यया गुणित: स्वदेशीयलम्बज्यया भक्त: फलं छेद:। स छेदस्त्रिज्यया गुणितो द्युज्यया भक्त उन्नतकालस्य ज्या विलक्षणा। यद् धनुरुन्नतकालो न भवति। तयानीतयोन्नतज्यया हीना स्वान्त्या स्वद्युज्या सम्बद्धचरज्ययावगतान्त्या। अवशेषस्योत्क्रमज्याभिर्मुनयोरन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्धनु:। अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं तस्य क्रमज्यापिण्डैर्धनुश्‍चतु:पञ्चाशद्युक्तमुत्क्रमधनुर्भवति। एवं प्रकारेण सिद्धाङ्का दिनस्य पूर्वार्द्धापरार्द्धयोर्नतकालासवो भवन्ति। अत्रोपपत्ति: पूर्वोक्तव्यत्यासात् सुगमा। तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या ज्यात्वासंभव:। अवध्युदयास्तसूत्रस्य अहोरात्रवृत्तव्याससूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्शनादुन्नतज्येत्युक्तम् अतएव भास्कराचार्यै: इष्टान्त्यकामुन्नतकालमौर्वीतुल्यां प्रकल्प्येत्याद्युक्तम्। तद्धनुरसूनामुन्नतकालत्वापत्या तया हीनेत्यादिभागस्य व्यर्थत्वापत्तेरिति दिक्।।36-38।।