अथ कालभेद इत्यनेनोपस्थितं कालं प्रथमं निरूपयिषुस्तावत् कालम् विभजते—
लोकानामन्तकृत् काल: कालोऽन्य: कलनात्मक:।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते।।10।।
कालो द्विधा तत्रैक: कालोऽखण्डदण्डायमान: शास्त्रान्तरप्रमाणसिद्ध:। लोकानां जीवानामुपलक्षणादचेतनानामपि अन्तकृद्विनाशक:। यद्यपि कालस्तेषामुत्पत्तिस्थिति-कारकस्तथापि विनाशस्यानन्तत्वात् कालत्वप्रतिपादनाय चान्तकृदित्युक्तम्। अन्तकृदित्यनेनैवोत्पत्तिस्थि-तिकृदित्युक्तमन्यथा नाशासम्भावात्। अतएव। काल: सृजति भूतानि काल: संहरति प्रजा:। इत्याद्युक्तं ग्रन्थातन्तरे। अन्यो द्वितीय: काल: खण्डकाल:। कलनात्मको ज्ञानविषयस्वरूप:। ज्ञातुं शक्य इत्यर्थ: स द्वितीय: कलनात्मक: कालोऽपि द्विधा। भेदद्वयात्मक:। तदाह। स्थूलसूक्ष्मत्वादिति। महत्वाणुत्वाभ्याम्। मूर्त:। इयत्तावच्छिन्नपरिमाण: अमूर्तस्तद्भिन्न: कालतत्वविदिभ: कथ्यते। चकारो हेतुक्रमेण मूर्तामूर्तक्रमार्थक:। तेन महान् मूर्त: कालोऽणुरमूर्त: काल इत्यर्थ:।।10।।