प्राक्कथनम्
श्री गणेशाय नम:

अथेदं जगत्प्रसिद्धं वर्तते यत् खगोलविज्ञानस्य विकासे प्राक्काले भारतवर्षस्य महत्त्वपूर्णमवदानं बभूव। भारतीया: सम्पूर्णमपि विश्वं सिद्धान्तज्योतिषं पेठुरित्यत्र नास्ति सन्देहस्यावसर:।ज्योतिषशास्त्रमिदं सम्पूर्णं विज्ञानमिति दृष्ट्या अस्य स्थानं वेदाङ्गेषु ददु:। यद्यपि वेदाङ्गज्योतिषनाम्ना लगधप्रणीतो यो ग्रन्थोऽद्यत्वे प्राप्यते तस्मिन् वर्णिता विषया न तथा महत्त्वपूर्णा यथा तस्य स्थानं वर्तते। तत्र केचन एव सिद्धान्ता: कथयांचक्रिरे। इतोऽधिका विषयास्तु वेदादिषु अन्यस्मिन् प्रसङ्गे वर्णिता दृश्यन्ते। तथापि षडङ्गो वेदोऽध्येय इति श्रद्धया वेदपाठिनो वेदाङ्गज्योतिषस्यैव पाठं कुर्वन्ति। सन्दर्भेऽस्मिन् विदुषामभिमतं यत् पाठं कर्त्तुं सौविध्यमभिलक्ष्यास्य ग्रन्थस्य समासेन रचना चक्रे। अस्यापि ग्रन्थस्य समावेश आचार्यपरम्पराया ग्रन्थेषु विद्यते। अस्यां परम्परायां आर्यभट- (आर्यभटीयस्य रचयिता), लाटदेव-(रोमकपौलिशसिद्धान्तयो: रचयिता), वराहमिहिर-ब्रह्मगुप्त-लल्ल-मुञ्जाल-श्रीपति-भास्करद्वितीयप्रभृतीनामाचार्याणां ग्रन्थास्समायान्ति।

आर्षपरम्परायां तु सूर्य: पितामहो व्यासो वशिष्ठोऽत्रि: पराशर:। कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिरा:।। लोमश: पौलिशश्चैव च्यवनो यवनो भृगु:। शौनकोऽष्टादशाश्चैते ज्योति: शास्त्रप्रवर्त्तका:।। इत्येते शास्त्रप्रवर्त्तकाचार्यास्सन्ति। तत्र सर्वप्रथम: सूर्य:। वस्तुतो वास्तविक इतिहासस्तु सूर्यसिद्धान्तादेव प्रारब्धत:। सूर्यसिद्धान्त: सर्वाधिक: प्रामाणिको लोकप्रियश्च वर्तते। प्राय: सर्वेषु महाविद्यालयेषु विश्वविद्यालयेषु चायं ग्रन्थ: ज्योतिषविषयस्य पाठ्यक्रमेऽद्यापि पाठ्यते।

प्राचीनकाले भारतीया: संस्कृतज्ञा विद्वांसो ज्योतिषस्य (ग्रहगणितस्य) अध्ययनाध्यापनानुसन्धाने यथा सर्वतोऽग्रे वभूव न तथा सम्प्रति। प्राचीन- भारतीयसंस्कृतविदुष: खगोलविज्ञानसन्दर्भे यद् गौरवास्पदं स्थानमासीत् तस्य परिकल्पनमपि न कर्तुं शक्यतेऽद्य। वस्तुतो भारतीयं खगोलविज्ञानमद्यापि प्रासङ्गिकं विद्यते। तत्र वर्णिता: सिद्धान्ता: अद्यापि प्रयोगसिद्धास्सन्ति। कालान्तरत्वात् संशोधनमपेक्षत इति श्रूयते। सूर्यसिद्धान्तद्वारा गणितसाधनस्य परम्परा लुप्तैव प्रतिभाति। अद्यतनपरिप्रेक्ष्ये सूर्यसिद्धान्तस्य गणितं दृक्सिद्धं भवति न वेति केवलं श्रूयते। न कश्चिदपि ज्योतिर्विद् गणितं कृत्वा प्रदर्शयति। सर्वत्र सूत्रस्योपपत्ति: पाठ्यते। गणितस्याध्यापनं न क्रियते। गणितं विनोपपत्तिर्वाग्विलास एवास्तीति प्रतिभाति। यद्यपि सिद्धान्तस्य ह्रासोजातस्तथाप्युपपत्तिज्ञानन्त्वद्यापि बहूनां विदुषां वर्तते। किन्तु ये विद्वांस उपपत्तिं जानन्ति तेष्वपि कथञ्चित् केषाञ्चिदेव प्रायोगिकस्य गणितस्य ज्ञानं विद्यते। इत्यत्र हेतु: क:? अद्यत्वे ये संस्कृतं जानन्ति तेषां गणिते तथा प्रवेशो नास्ति। येषां गणिते प्रवेशस्ते संस्कृतं न जानन्ति। यद्यप्यस्य ग्रन्थस्याङ्ग्लभाषायामनुवाद: प्राप्यते किन्त्वनुवादोऽपि वस्तुतोऽनुवाद एव। तथाप्याधुनिके युगे आङ्ग्लभाषामाध्यमेनैतादृशस्य कठिनसिद्धान्तस्य प्रचारं प्रसारं च कर्तुं धन्यवादमर्हन्ति सर विलियम जोन्स, कोलब्रूक, बेल्ली, प्लेफेयर बेन्टली, वर्नाड, थिबोट, वर्जेस, विटने, वेबर महाशया: प्रभृतय:। अस्य ग्रन्थस्य ई संस्करणं कर्तुं नैकेषां विदुषां सम्पादनमदर्शम्। तत्र गूठार्थप्रकाशिका, सौरवासना, सुधावर्षिणी, तत्त्वामृतटीका, विज्ञानभाष्यम्, ई. वर्जेश महोदयस्य आङ्ग्लानुवाद: वापूदेवशास्त्रिथिबोटमहोदययोश्चाङ्ग्लानुवाद: प्रामुख्यं भजते। एतदतिरिक्तं वराहमिहिरस्य पञ्चसिद्धान्तिकास्थं सूर्यसिद्धान्तमप्यदर्शम्। डा. सुधीकान्त भारद्वाज महोदयस्य Astro Linguistic Study नामकं संस्करणमपि दृष्टवान्। उपरिलिखितं सर्वमपि संस्करणं प्रपश्य मनसि संकल्पो जातो यदस्य सिद्धान्तस्य गूढार्थप्रकाशिकया टीकया सह गणितप्रयोगस्यापि ई बुक रूपे प्रकाशनं भवतु। इदानीं प्रथमचरणे गूढार्थप्रकाशिकया टीकया सह मूलस्य प्रकाशनं क्रियते। अवसरं प्राप्य पश्चादुदाहरणस्यापि प्रकाशनं करिष्यते।

अस्या: परियोजनाया मुख्यनिदेशका: राष्ट्रियसंस्कृतसंस्थानस्य विद्वांस: कुलपतयो माननीया: प्रो. राधावल्लभत्रिपाठिमहाशया न केवलं पदेन मुख्यनिदेशका: अपितु कर्मणा परियोजनाया मुख्यनिदेशकेन सह प्रधानसम्पादकस्यापि दायित्त्वं निर्वहन्ति। श्रीमन्त: त्रिपाठिमहाशया: सम्बद्धकार्यशालायामाध्यक्ष्यं निर्वहन्त: किं वा प्रसंगवशाच्चवर्चाया: क्रमे न केवलमुत्साहमवर्धिषतापितु अपेक्षितं मार्गदर्शनमप्यकार्षु:। अतस्ते सम्मानं, श्रद्धां धन्यवादञ्चार्हन्तीति सश्रद्धं सविनयं प्रणामं विहाय किमन्यत्समर्पयितुं क्षम:। परियोजनाया: सञ्चालने श्रद्धेया डा. शुक्ला मुखर्जी महाशया सर्वदैव साहाय्यमाचरितवतीति नूनमेव सा धन्यवादार्हा। निदेशकत्वेन स्थानीयपरिसरस्य प्राचार्या: श्रीमन्त: एन्. आर. कण्णन् महाशया: सर्वविधसौविध्येनास्माकं साहाय्यमाचरितवन्त इति तान् सादरं प्रणमामि। अन्ये च गुरुकल्पा: विद्वांस: येषां ग्रन्थानधीत्य कार्यमिदं पूर्णतां याति तेभ्यत: सर्वेभ्योऽसकृत् प्रणामा:। संस्थानस्यान्येषामधिकारिणां पुरत: येषां प्रत्यक्षं परोक्षं वा साहाय्यं परियोजनायां वर्तते सादरं सविनयं कार्त्तग्ज्ञं निर्वहामि।

विनयावनत:
सर्वनारायण झा