।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

अष्टमोऽध्याय:
(आधानाध्याय:)

(हो.र. अ. 154 पृ.)राश्यादिफलविभाग: कस्य विधेयो विना समुत्पत्ते:(समुत्पत्तिम्)।

आधानमथो(मतो) वक्ष्ये कारणभूतं समस्तजन्तूनाम्।।1।।

अनुपचयराशिसंस्थे कुमुदाकरबान्धवे रुधिरदृष्टे।

प्रतिमासं युवतीनां भवतीह रजो ब्रुवन्त्येके।।2।।

इन्दुर्जलं कुजोऽग्निर्जलमसृगथवाग्निरेव पित्तं स्यात्।

एवं रक्ते(क्षुभिते) हीने पित्तेन रज: प्रवर्तते स्त्रीषु।।3।।

एवं यद्भवति रजो गर्भस्य निमित्तमेव कथितं(विहितं) तत्।

उपचयसंस्थे विफलं(विपुलं) प्रतिमासं दर्शनं तस्य।।4।।

उपचयभवने शशभृद् दृष्टो गुरुणा सुहृद्भिरथवासौ।

पुंसां करोति योगं विशेषत: शुक्रसंदृष्ट:।।5।।

चन्द्रे कुजेन दृष्टे पुष्पवती सह विटेन संयोगम्।

राजपुरुषेण रविणा रविजेनाप्नोति भृत्येन।।6।।

एकैकेन फलं स्याद्दृष्टे नान्यै: कुजादिभि: पापै:।

सर्वै: स्वगृहं त्यक्त्वा गच्छति वेश्यापदं युवति:।।7।।

द्विपदादयो विलग्नात्सुरतं कुर्वन्ति सप्तमे यद्वत्।

तद्वत्स्त्रीपुरुषाणां गर्भाधाने समादेश्यम्।।8।।

अस्तेऽशुभयुतदृष्टे(दृष्टियुते) सरोषकलहं भवेद्ग्राम्यम्।

सौम्यं सौम्यै: सुरतं वात्स्यानसंप्रयोगिकाख्यातम्।।9।।

तत्र शुभाशुभमिश्रै: कर्मभिरधिवासिता विषयवृत्ति:।

गर्भावासे निपतति संयोगे शुक्रशोणितयो:।।10।।

उपचयगौ रविशुक्रौ बलिनौ पुंस: (समांशसंप्राप्तौ)स्वमंशकं प्राप्तौ।

युवतेर्वा कुजचन्द्रौ यदा तदा गर्भसंभवो भवति(द्र. लघु जा 5।7)।।11।।

(हो.र.1अ. 119 पृ.)शुक्रार्कभौमशशिभि: स्वांशोपचयस्थितै: सुरेड्ये वा।

(धर्मेथवात्मजे वा)धर्मोदयात्मजस्थे बलवति गर्भस्य संभवो भवति।।12।

मिथुनस्य मनोभावो यादृङ्मदलालसं भवति।

श्लेष्मादिभि: स्वदोषैस्तत्तुल्यगुणो निषिक्त: स्यात्।।13।।

(द्र. लघुजा. 5।11 तथा बृ. जा.4।11)विषमे विषमांशगता होराशशिजीवभास्करा बलिन:।

कुर्वन्ति जन्म पुंसां समे(समा) समांशे तु(युवती नरजन्म) युवतीनाम्।।14।।

ओजर्क्षे गुरुसूर्यौ बलिनौ पुंस: समे सितेन्दुकुजा:।

कन्यानां जन्मकरा गर्भाधाने स्थिता बलिनः।।15।।

(द्र. बृ. जा. 4।11)मिथुने चापेऽर्कगुरू बुधदृषटौ दारकद्वयं कुरुतः।

स्त्रीयुग्मं कन्यायां सितशशिभौमा झषे च बुधदृष्टाः।।16।।

लग्नं मुक्त्वा विषमे शनैश्चरः (पुत्र)पुरुषजन्मदो भवति।

योगे विहगस्य बलं संवीक्ष्य वदेन्नरं स्त्रियं वाऽपि।।17।।

(हो.र. अ. 132 पृ.)अन्योन्यं रविचन्द्रौ विषमर्क्षगतौ निरीक्षेते।

इन्दुजरविपुत्रौ वा दृष्टौ बलिनौ नपुंसकं कुरुतः।।18।।

पश्यति वक्रः समभे सूर्यं चन्द्रदयौ(दये) च विषमर्क्षे।

यद्येवं गर्भस्थः क्लीबो मुनिभिः समादिष्टः(स्तदा दृष्टः)।।19।।

ओजसमराशिसंस्थौ ज्ञेन्दू षण्ढं कुजेक्षितौ कुरुतः।

नरभे विषमनवांशे होरेन्दुबुधाः सितार्किदृष्टा वा।।20।।

लग्ने समराशिगते चन्द्रे च निरीक्षते बलयुतेन(हो.र. 1 अ. 113 पृ.)।

गगनसदा वक्तव्यं मिथुनं गर्भस्थितं नित्यम्(नूनम्)।।21।।

समराशौ शशिसितयोर्विषमे गुरुवक्रसौम्यलग्नेषु।

द्विशरीरे वा बलिषु प्रवदेत् स्त्रीपुरुषमत्रैव।।22।।

द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं(नियतं) च पश्यतीन्दुसुते।

मिथुनांशे कन्यैका द्वौ पुरुषौ त्रितयमेवं स्यात्।।23।।

(श्लोकार्ध पुनरुक्त है)द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुतेः।

कन्यांशे द्वे कन्ये पुरुषश्च निषिच्यते (गर्भेः)गर्भे।।24।।

(नृभिथुनधनु)मिथुनेधनुरंशगतान् ग्रहान् विलग्नं च पश्यतीन्दुसुतः।

मिथुनांशस्थश्च यदा पुरुषत्रितयं तदा गर्भे।।25।।

कन्यामीनां(गतान्)शस्थान् विहगानुदयं च युवतिभागवतः।

पश्यति शिशिरगुतनयः कन्यात्रितयं तदा गर्भे(गर्भः)।।26।।

(द्र.बृ. जा. 4।25)दिवसे मातापितरौ शुक्ररवी शशिशनी निशायां च।

मातृभगिनीपितृव्यौ विपर्ययात् कीर्तितौ यवनैः(हो. र. 1 अ. 112 पृ.)।।27।।

लग्नाद्विषमर्क्षगतः पितुः पितृव्यस्य खेचरः शस्तः।

(जननीभगिन्योः)मातृभगिनीजनन्योः समगृहगोऽन्ये तथा भेषु।।28।।

मासेष्वाधानादिषु गर्भस्य यथा क्रमेण जायन्ते।

सप्तसु कलिलाण्डकशाखास्थित्वग्रोमचेतनताः।।29।।

मासेऽष्टमे च तृष्णा क्षुधा च नवमे तथोद्वेगः।

दशमे त्वथ(तथातिपूर्णः) सम्पूर्णः पक्वमिव फलं पतति गर्भः।।30।।

शुक्रारजीवरविशशिसौरिबुधविलग्नपोडुपादित्याः।

मासपतयः स्युरेतैर्गर्भस्य शुभाशुभं चिन्त्यम्।।31।।

(द्र.बृ. जा. 5।9)उत्पातक्रूरहते तस्मात् स्वस्याधिपे पतति गर्भः।

लग्नगृहं वा हेतुर्योगोऽसौ(योगेशो) गर्भपतनस्य।।32।।

अथवा निषेककाले विलग्नसंस्थौ यदा रुधिरमन्दौ।

तद् गृहगतेऽथवेन्दौ तदीक्षिते वा पतति गर्भः।।33।।

होरेन्दुयुतैः सौम्यैस्त्रिकोणजायार्थखाम्बुसंर्स्थवौ।

पापैस्त्रिलाभयातैः सुखी च गर्भो निरीक्षिते रविणा।।34।।

क्रूरान्तःस्थः सूर्यश्चन्द्रो वा युगपदेव मरणाय।

सौम्यैरदृष्टमूर्तियुवतीनां गर्भसहितानाम्।।35।।

(द्र. बृ. जा. 4।6)उदयास्तगतैः पापैः सौम्यैरनवेक्षितैश्च मरणं स्यात्।

उदयस्थितेऽर्कजे वा क्षीणेन्दौ भौमसंदृष्टे।।36।।

व्ययगेऽर्के (च शशिनि कृशे)शशिनि कृशे पाताले लोहिते सगर्भा स्त्री।

म्रियते तस्मिन्नथवा शुक्रे पापद्वयान्तःस्थे।।37।।

चन्द्रचतुर्थैः क्रूरैर्विलग्नतो वा विपद्यते गर्भः।

होराद्यूने क्षितिजे म्रियते गर्भः सह जनन्या।।38।।

हिबुकगते धरणिसुते रिःफगतेऽर्के क्षपाकरे क्षीणे।

(सहगर्भा स्त्री)गर्भेण सह म्रियते पापग्रहदर्शनं प्राप्ते।।39।।

(द्र.बृ.जा. 4।6-9)लग्ने रविसंयुक्ते क्षीणेन्दौ वा कुजेऽथवा म्रियते।

व्ययधनसंस्थैः पापैस्तथैव सौम्यग्रहादृष्टैः।।40।।

जामित्रे (जामित्रगेऽर्कदृष्टे)रवियुक्ते लग्नते वा कुजे निषिक्तस्य।

गर्भस्य भवति मरणं शस्त्रच्छेदैः सह जनन्या।।41।।

बलिभिर्बुधगुरुशुक्रैर्दृष्टेऽर्केण  विवर्धते गर्भः।

मासाधिपबलतुल्यैस्तैस्तैः संयुज्यते भावः।।42।।

मासि तृतीये स्त्रीणां दौहदकं(दौहृदको) जायते तथाऽवश्यम्।

मासाधिपस्वभावैर्विलग्नयोगादिभिश्चान्यत्।।43।।

निषेककाले जरराशिगेऽर्के गर्भप्रसूतिर्दशमे(दशमेऽथ) मासे।

एकादशे च स्थिरराशिसंस्थे स्याद्द्वादशे मात्युभयाश्रिते च।।44।।

गर्भाधाने चरे राशौ दशमासैः प्रसूयते।

स्थिरेणैकादशे मासे उभये द्वादशे (सवः)भवः।।45।।

गर्भप्रसवविधानं तात्कालिकलग्नवर्गतश्चिन्त्यम्(लग्नवच्चिन्त्यम्)

(आधानजन्मऋक्षं, आधाने जन्मर्क्षं)आधानाज्जन्मर्क्षं दशमं वाञ्छन्ति केचिदार्याः।।46।।

आधानोदयशशिनोः सप्तमभं बादरायणो ब्रूते।

तस्मान्नैकान्तोऽयं सर्वेषां संमतं वक्ष्ये।।47।।

(द्र.बृ. जा. 5।21 तथा इसी की टीका में गार्गि का वचन)यस्मिन् द्वादशभागे गर्भाधाने स्थितो निशानाथः।

तत्तुल्यर्क्षे प्रसवं गर्भस्य समादिशेत्प्राज्ञः।।48।।

लग्ने शनैश्चरांशे शनैश्चरे द्यूनगे यदि निषेकः।

वर्षत्रयेण सूतिर्द्वादशभिः स्याच्छशिनि चैवम्।।49।।

(बृ. जा. 4।32)तात्कालिकदिवसनिशासंज्ञः समुदेति राशिभागो यः।

यावानुदयस्तावान् वाच्यो दिवसस्य रात्रेर्वा।।50।।

मुनिभागे दिवसनिशोर्जन्मनि लग्नं वदेद्युक्त्या।

उदयगणात् प्रसवः स्याद्दिनपक्षमुहूर्तमाससंज्ञर्क्षात्।।51।।

इत्याधाने प्रथमं प्रसूतिकालं सुनिश्चितं कृत्वा।

जातकविहितं (च ततो)च विधिं विचिन्तयेत्तत्र गणितज्ञ:।।52।।

(हो.र. 1 अ. 138 पृ.)स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने।

दृष्टौ कुजसौरिभ्यां जात्यन्धः संभवति तत्र।।53।।

(हो. र. 1 अ. 141 पृ.)आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः।

नयनविनाशोऽपि यथा तथाधुना(बृ.जा. 6।20) संप्रवक्ष्यामि।।54।।

व्ययभवनगतश्चन्द्रो वामं क्षुर्विनाशयति हीनः।

सूर्यस्तथैव चान्य(सव्यं)च्छुभदृष्टौ याप्यतां नयतः।।55।।

क्रूरैर्गृहसन्धिगतै: शशिनि वृषे भौमसौरर(संदृष्टे)विदृष्टे।

(बृ.जा. 4।17)मूक: सौम्यैर्दृष्टे वाचं कालान्तरे वदति।।56।।

(बृ. जा. 4।18)क्रूरेषु राशिसन्धिषु शशी न सौम्यैर्निरीक्ष्यते च जड:।

बुधनवमभागसंस्थौ शनिभौमौ यदि सदन्त: स्यात्।।57।।

सौम्ये त्रिकोणसंस्थे लग्नाच्छेषग्रहैर्बलविहीनै:।

द्विगुणास्यपादहस्तो योगेऽस्मिन्नाहितो भवति गर्भ:।।58।।

वामनको मकरान्त्ये लग्ने रविचन्द्रसौरिभिर्दृष्टे।

शशिनि विलग्ने कर्किणि (कुजार्क)कुजार्क‍ि‍दृष्टेऽथवा(तथा) कुब्ज:।।59।।

मीनोदये च दृष्टे (कुजार्कशशिभि:)कुजार्किशशिभि: पुमान् भवति पङ्गु:।

याप्या भवन्ति योगा: सौम्यग्रहवीक्षिता: सर्वे।।60।।

भौमयुता द्रेष्काणास्त्रिकोणलग्नेषु संदृष्टा:।

विभुजाङ्घ्रिमस्तक: स्याच्छनिरविचन्द्रैर्वदेद्गर्भ:।।61।।

(इत्याधानविधानं)इत्याधानविधानं प्रसूति समयेऽपि योजयेद्योग्यम्।

आधाने यन्नोक्तं प्रसूतिविहितं तदपि चिन्त्यम्।।62।।

इति कल्याणवर्मविरचितायां सारावल्यां आधानेऽष्टमोऽध्याय:।।