।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

सप्तमोऽध्याय:
(कारकाध्याय:)

रविचन्दभौमबुधजीवशुक्रसौरा दिनादिपतयश्च(दिनाब्दपतयस्तु)।

मासे चाश्वयुजादौ दिनेश्वरोऽब्दे दिनपतेश्च।।1।।

अब्दाधिपाश्चतुर्था: क्रमेण षष्ठास्तु कालहोरेशा:।

द्विर्द्वादशहोरा: स्युर्दिवसास्त्वर्कादि कास्त्रिंशत्।।2।।

मासात्रिंशद्गुणिता गतैर्दिनै: सप्तभाजिता दिवसा:।

अब्धाधिपा: प्रगण्या गतैर्दिनाद्यै: प्रयत्नतस्यु स्यु:।।3।।

एकस्त्रिंशद्भागैर्युक्तश्चैत्रादीनां ग्रहादीनाम्।

क्रमशो विज्ञातव्या शुक्लप्रतिपत्प्रसंख्यायाम्।।4।।

यस्य ग्रहस्य भावो यस्तस्य गृहे प्रशस्यते कर्म।

तस्मिंश्चोपचयस्थे तस्मिंल्लग्ने गृहे चास्य।।5।।

यत्कर्मग्रहदिवसे तदेव होराब्दमासकालेषु।

पादविवृद्ध्या वा स्यत्तेषां कालस्य संपाक:।।6।।

व्यालोर्णकशै(व्यालोत्कर्णकशैल)लसुवर्णशस्त्रविषदहनभेषजनृपाश्च।

म्लेच्छाब्धितारकान्तारकाष्ठमन्त्रप्रभु: सूर्य:।।7।।

कवि(अपिकुसुम)कुसुमभोज्यमणिरजतशंखलवणोदकेषु वस्त्राणाम्।

भूषणनारीघृततिलतैलकनिद्राप्रभुश्चन्द्र:।।8।।

रक्तोत्पलताम्रसुवर्णरुधिरपारदमन: शिलाद्यानाम्।

क्षितिनृपतिपतनमूर्च्छापैत्तिकचोरप्रभुर्भौम:।।9।।

श्रुतिलिखितशिल्पवैद्यकनैपुणमन्त्रित्वदूतहास्यानाम्।

खगयुग्मख्यातिवनस्पतिस्वर्णमप्रभु: सौम्य।।10।।

माङ्गल्यधर्मपौष्टिकमहत्त्वशिक्षानियोगपुरराष्ट्रम्।

यानासनशयनसुवर्णधान्वेश्मपुत्रयो जीव:।।11।।

वज्रमणिरत्नभूषणविवाहगन्धेष्टमाल्ययुवतीनाम्।

गोमयनिदानविद्यानिधुवनरजतप्रभु: शुक्र:।।12।।

त्रपुसीसकाललोहककुधान्यमृतबन्धुमन्दभृतकानाम्।

नीचस्त्रीपण्यकदासदीनदीक्षाप्रभु: सौरि:।।13।।

अर्क: कलिङ्गविषये यवनेषु च चन्द्रमा:।

शुक्र: समतटे जात: सैन्धवेषु बृहस्पति:।।14।।

मगधेषु बुधो जात: सौराष्ट्रेषु शनैश्चर:।

अङ्‌गारकस्तूज्जयिन्यां राहु: केतुश्च द्राविडे।।15।।

इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्याय: सप्तम:।।