(द्र. बृ. पा. 32।26, बृ. जा 22।1)स्वर्क्षत्रिकोणतुङ्गस्था यदि केन्द्रेषु संस्थिता:।
अन्योन्यं कारकास्ते स्यु: केन्द्रेष्वेव हरेर्मतम्।।1।।
रवितनयो जूकस्थ: कुलीरलग्ने बृहस्पतिहिमांशू।
मेषे कुजो रवियुत: (गवि सित:) परस्परं कारका एते।।2।।
तुङ्गसुहृत्स्वगृहांशे स्थिता ग्रहा: कारका: समाख्याता:।
मेषूरणे च रविरिति विशेषतो(वृ.जा. 22।1. बृ. पारा. 63।26) वक्ति चाणक्य:।।3।।
लग्नस्था: सुखसंस्था दशमस्थाश्चापि कारका: सर्वे।
एकादशेऽपि केचिद्वाञ्छन्ति न तन्मतं मुनीन्द्राणाम्।।4।।
(हो. र. 5 अ. 701 पृ.)नीचकुले संभूत: कारकविहगै: प्रधानतां याति।
क्षितिपतिवंशसमुत्थो भवति नरेन्द्रो न सन्देह:।।5।।
कारकभेदो बलवान्मूलं योगेषु कीर्तितो हरिणा।
तस्मात्फलनिर्देश: कारकवेधाविभिर्वाच्च:।।6।।
इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्याय: षष्ठ:।।