।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

पञ्चमोऽध्याय:
(मिश्रकाध्याय:)

राशिप्रभेदसंज्ञ: कथितो ग्रहयोनिभित्तिरध्याय:।

सर्वव्यापकमधुना कथयिष्ये मिश्रकं(तिपीडितो) नाम।।1।।

दीप्त: स्वस्थो मुदित: शान्त: शक्तो निपीडितो(तप्रऽपीडितः) भीत:।

विकल: खलश्च कथितो नवप्रकारो ग्रहो हरिणा।।2।।

(द्र. बृहत्पाराशर 45।8-9)स्वोच्चे भवति च दीप्त: स्वस्थ: स्वगृहे सुहृद्गृहे मुदित:।

शान्त: शुभवर्गस्थ: शक्त: स्फुटकिरणजालश्च।।3।।

विकलो रविलुप्तकरो ग्रहभिभूतो निपीडितश्चैवम्।

पापगणस्थश्च खलो नीचे भीतः समाख्यातः।।4।।

दीप्ते विचरति पुरुषः प्रतापविषमाग्निदग्धरिपुवर्गः(निचयः)।

लक्ष्म्यालिङ्गितदेहो गजमदसंसिक्तभूपृष्ठः।।5।।

स्वस्थः करोति जन्मनि रत्नानि सुखानि कनकपरिवारान्।

नृपतेर्दण्डपतित्वं गृहधान्यकुटुम्बपरिवृद्धिम्।।6।।

मुदिते विलसति मुदितो विलासिनीकनकरत्नपरिपूर्ण:‍

विजितसकलारिपक्ष: समस्तसुखभाङ् नरो(जनःख्यातः) भवति।।7।।

शान्ते प्रशान्तचित्त: सुखधनभागी महीपते: सचिव:।

वि द्वान्परोपकारी धर्मपरो जायते पुरुष:(सुभगाः)।।8।।

स्त्रीवस्त्रमाल्यगन्धैर्विलसति पुरुष: सदा विततकीर्ति:।

दयित: सर्वजनस्य  शक्ताख्ये भवति विख्यात:।।9।।

दु:खैर्व्याधिभिररिभि: प्रपीड्यते(पीडिते सदा पुरुष) पीडिताख्ये तु।

देशाद्देशं विचरति बन्धुवियोगाभिसंतप्त:।।10।।

बहुसाधनोऽपि राजा प्रध्वस्तबल: प्रपीडितो रिपुणा।

नाशमुपयाति विजितो भीते दैन्यं परं प्राप्त:।।11।।

स्वस्थानपरिभ्रष्ट: क्लिष्टो मलिन: प्रयाति परदेशम्।

विध्वस्तबलो(घनी) विकले रिपुबलसंचकितचित्तश्च।।12।।

स्त्रीभरण(हरण)दु:खतप्त: समस्तधननाशकलुषितमनस्क:।

न जहाति शोकभारं कथमपि खलसंज्ञिते पुरुष:।।13।।

उच्चराशौ विलोमे च फलं(बलं) नान्यैरिहेष्यते(हरिष्यते)।

कालस्यति बहुत्वाच्च तस्मात्स्वोच्चेऽतिवक्रिते।।14।।

स्वोच्चाश्रिता: श्रेष्ठबला भवन्ति मूलत्रिकोणे स्वगृहे च मध्या:।

इष्टेक्षिता मित्रगृहाश्रिता वा वीर्यं कनीय: समुपोद्वहन्ति।।15।।

शुक्लप्रतिपद्दशके मध्यबल: कीर्त्यते यवनवृद्धै:।

श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च।।16।।

आहितकलासमूहः प्रसन्ननिजमण्डलः सुपरिपूर्णः।

अप्रतिहतमिह कुरुते भूपतिबलमुडुगणाधिपतिः।।17।।

चन्द्राध्यासितराशेर्नाथो लग्नाधिपोऽपि(थवा) वा यस्य।

केन्द्रे सुरगुरुमंत्री(सुरमन्त्री वा) वयसो सुखं तस्य।।18।।

राशेस्तदीश्वरस्य च बलेन परिकल्प्यमृक्षभेदफलम्।

युगपत्फलोपलब्धेरवधृतिरेकस्य कर्तव्या।।19।।

होराग्रहबलसाम्ये निसर्गजं चिन्तनीयमाचार्यैः।

(धिपेन तु)लग्नाधिपतेस्तुल्यं बलमिह चूडामणिर्वदति।।20।।

उच्चबलं कन्याणां बुधस्य तुङ्गांशकैः सदा चिन्त्यम्।

परतस्त्रिकोणजातं पञ्चभिरंशैः स्वराशिजं परतः।।21।।

उच्चं भात्रितयं वृष इन्दोश्च त्रिकोणमपरेंऽशाः।

द्वादशभागा मेषे त्रिकोणमपरे स्वभं तु भौमस्य।।22।।

दशभागा ईज्यस्य च त्रिकोणमपरे स्वभं चापे।

शुक्रस्य तु त्रिकोणं पञ्चभिरपरे स्वभं जूके।।23।।

विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य।

(हो.र. 1 अ. प. 49)कुम्भे त्रिकणनिजभे रविजस्य तथा रवेः सिंहे।।24।।

(द्र. बृ. पा. 3।54-55 तथा जा. पा. 1।54)स्वोच्चस्थितः शुभफलं प्रकरोति पूर्णं

नीचर्क्षगस्तु विफलं रिपुमन्दिरेऽल्पम्।

पादं शुभस्य हितभे स्वगृहे तदर्धं

पादत्रयं गगनगः स्थितवांस्त्रिकोणे।।25।।

नीचर्क्षगः सकलमेव करोति पापं

न्यूनं च किंचिदरिभे विफलं स्वतुङ्गे।

पादत्रयं हितगृहे विहगोऽशुभस्य

स्वर्क्षे दलं च चरणं स्थितवांस्त्रिकोणे।।26।।

औत्पातिकाः सवितृलप्तकरा विरूक्षा

नीचं गता रिपुगृहं च नभश्चरेन्द्राः।

युद्धे जिताः शुभफलानि विनाशयन्ति

पापानि ज्ञानि सुतरां परिवर्धयन्ति।।27।।

(हो.र. 4 अ. 58 पृ.)उच्चबलेन समेतः परां विभूतिं ग्रहः प्रसाधयति।

पुंसामथ साचिव्यं त्रिकोणबलवान् बलपतित्वम्।।28।।

स्वर्क्षे बलेन सहितः प्रमुदितधनधान्यसंपदाक्रान्तम्।

मित्र बलेन च युक्तो जनयति कीर्त्यान्वितं पुरुषम्।।29।।

तेजस्विनमति सुभगं सुस्थिरविभवं नृपाच्च लब्धधनम्।

निजहोराबलयुक्तो जनयति विक्रान्तमिति चिन्त्यम्।।30।।

स्वद्रेष्काणबलेनाहीनो गुणभाजनं ग्रहः कुरुते।

स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च।।31।।

सप्तांशकबलसहितः साहसिकं वित्तकीर्त्याढ्यम्।

द्विरसांशबलसमेतः कर्मरतं परोपकारकं चैव।।32।।

त्रिशांशबलेन यथा विकसत्सौख्यं गुणान्वितं कुर्यात्।

शुभदर्शनफल(बल)सहितः पुरुषं कुर्याद्धनान्वितं ख्यातम्।

सुभगं प्रधानमखिलं(ममलं) सुरूपदेहं सुसौख्यं च।।33।।

पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम्।

पुरुषं प्रसन्नचित्तं कल्यं परलोकभीरुं च।।34।।

स्थानबलेन समेतः स्थिति सौख्यसुहृच्च भागाढ्यः।

धीरो निश्चलचित्तः स्वतन्त्रकर्मा भवेन्मनुजः।।35।।

आशाबलसमुपेतो नयति स्वदिशं नभश्चरः पुरुषम्।

नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते।।36।।

आयनबलसमुपेतो दद्याद्विविधार्थसङ्गमं स्वदिशि।।37।।

क्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः।

ददाति विहगश्चित्रं (स्पष्टवीर्यं)चेष्टावीर्यसमन्वितः।।38।।

वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रह्यः।

पापा व्यसनिनां(न्यसनदः) पुंसां कुर्वन्ति च (पदाटनं)वृथाटनम्।।39।।

स्वस्थशरीरसमागमसुकरोद्भवजयबलेन विदधाति।

शुभमखिलं विहगेन्द्रो राज्यं च विनिर्जिनारातिम्।।40।।

रात्रिदिवाबलपूर्णैर्भूगजलाभेन शौर्यपरिवृद्ध्या।

मलिनयति शत्रुपक्षं भजति च लक्ष्मीं नभश्चरैः पुरुषः।।41।।

(द्विगुणा)द्विगुणं द्विगुणं दद्युर्वर्षाधिपासदिवसहोरेशाः।

क्रमपरिवृद्ध्या सौख्यं स्वदशासु धनं च कीर्ति च।।42।।

पक्षबलाद्रिपुनाशं रत्नाम्बरहस्तिसंपदं दद्युः।

स्त्रीकनकभूमिलाभान्कीर्तिं च शशाङ्ककरधवलाम्।।43।।

सकलकर(बलभार)भारभारितनिर्मलकरजालभासुराः सततम्।

राज्यं ग्रहाः प्रदद्युः सौख्यं च मनोरथातीतम्(मनोरथादधिकं)।।44।।

(हो.र. 1 अ.पृ.96)आचारसत्यशुभशौचयुताः सुरूपा –

स्तेजस्विनः कृतिविदो द्विजदेवभक्ताः।

स्त्रग्वस्त्रगन्धजलभूषणसंप्रियाश्च

सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति।।45।।

लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाः

साधुद्विषः सकलहाश्च तमोऽभिभूताः।

क्रूराः सदा बधरता(वधकरा) मलिनाः कृतघ्नाः

पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः।।46।।

स्वमित्रश्रेत्रसंस्थानां ग्रहाणां बालसंज्ञिका।

स्वत्रिकोणगतानां च कुमारी नाम संज्ञिका।।47।।

ग्रहाणां स्वोच्चसंस्थानां युवराजभिधा भवेत्।

शत्रुश्रेत्रगतानां त वृद्धा नाम् तथेरिता।।48।।

नीचगानां ग्रहाणां  दशा मरणसंज्ञिता।

तत्तत्फलसमायुक्ता ग्रहाणां तु दशा भवेत्।।49।।

(बाले)बालैः सुखी सुशीलश्च(स्यात्) यौवनैरवनीश्वरः(ने रजनी)।

(वृद्धे)वृद्धैर्व्याधिर्ऋणे वृद्धिर्मरणे मरणं व्ययम्।।50।।

(पुंराशिषु ग्रहेन्द्रः) पुंराशिगै: शुभखगैर्धीरा: (संग्रामकाक्षिणो बलिभिः) सङ्ग्रामरक्षिणो बलिन:।

निश्चष्टै: सुकठोरा: क्रूरा मूर्खाश्च जायन्ते।।51।।

युवतिभवनस्थितेषु च मृदव: सङ्ग्रामभीरुका: पुरुषा:।

जलकुसुमवस्त्रनिरता: सौम्या: कल्या: स्वजनहृष्टा:।।52।।

इति कल्याणवर्मविरचितायां सारावल्यां मिश्रकाध्याय: पञ्चम: