।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

चतु:पञ्चाशोऽध्याय:
(अष्टकवर्गफलाध्याय:)

तिर्यग्विश्वोर्ध्वमन्दं गिरिगिरिशपदं न्यस्य चक्रं तदूर्ध्वं

मेषाद्या: राशय: स्युर्ग्रहगणसहिता शिष्टमिष्टस्य सद्म।

तस्याध: सोऽपि मुख्यं ग्रहगणमुदयं चाप्यध: क्ष्माक्रमेण

न्यस्याद्य: स्वीयचक्रे स्वपदसहितभाक् खाष्टके बिन्दुरेखा।।1।।

पूर्णैर्बिन्दुभिरष्टभि: पदगतैर्हीनोऽपि भूपो भवेत्

एकैकोनतया क्रमात् फलविधि: सर्वेप्सिताप्तिर्यश:।

वित्ताप्तिश्च सुखै: सह प्रियसुहृत् प्राप्तिर्विपच्छून्यता

वित्तानामपि हानिराधिकृशता शून्यक्रमे संक्षय:।।2।।

सूर्यस्याष्टसु बिन्दुषु क्षितिपतेराप्ता विभूतिर्धनं

सप्तस्वद्भुतकान्तिसौख्यविभव: षट्सु प्रतापोन्नति:।

पञ्चस्वर्थसमागम: सदसतो: साम्यं चतुष्के त्रिके

त्वध्वश्रान्तिरथो द्विके गदभयं रूपेऽथ शून्ये मृति:।।3।।

इन्दोर्भगविभूतयोऽथ विभवा: वस्तारन्नगन्धोद्गमा:

सन्मैत्री द्विजसंगमाद्धृतिमती दु:खाढ्यसौख्यस्थिति:।

द्वेषो बन्धुजनै: प्रियार्धविरहोऽकस्माद् विपद्दुस्तरा

शोकोद्वेगजकष्टमत्र नियतं प्रोक्तं फलानामिदम्।।4।।

आरस्यार्थमहीसपत्नविजया: सौभाग्यकान्तिप्रदा:

राज्ञां वल्लभता प्रसिद्धगुणता साम्यं विपत्संपदो:।

भ्रातृस्त्रीविरहो विपत्परिभवो राजाग्निपित्तज्वरै:

स्फोटैर्दूषितगात्रता जठररुङ्मूर्च्छाक्षिरुङ्मृत्यव:।।5।।

ज्ञस्य क्ष्मापतिमान्यता द्रविणतो विज्ञानसौख्याप्तय:।

सर्वोद्योगफलोदयो नवसुहृत्प्राप्तिर्निरुद्योगता।

चित्तव्याकुलताऽर्थहानिवशत: स्त्रीपुत्रमित्रादिभि-

र्वैराद् धैर्यमतिक्षयोऽथ सततं सर्वस्वहानिर्मृति:।।6।।

जीवस्याच्छयश: सुखार्थनिचय: सौभाग्यसौख्याप्तयो

वासो वाहनहेमलब्धिरहितध्वंसक्रियासिद्धय:।

लाभच्छेदविहीनता श्रवणदृक्-पुंस्त्वप्रणाशादयो

भूभृत्कोपभयं गदैर्विकलता बन्ध्वर्थपुत्रक्षय:।।7।।

शुक्रस्याखिलभोगवस्त्रवनितापुष्पान्नपानाप्तयो

भूषामौक्तिकतुष्टय: प्रियवधूलाभ: सुहृत्सङ्गम:।

मध्यत्वं शुभपापयोर्जनपदग्रामोच्चविद्वेषिता

स्थानभ्रंशरुज: कफश्च विषमे सर्वपदां सङ्गम:।।8।।

सौरेर्ग्रामपुरप्रजाद्यधिपता दासीखरोष्ट्राप्तय:

पूजाचोरनिषादसैन्यपतिभिर्धान्यार्थसौख्यागम:।

अन्योपाश्रितसौख्यता सुतवधूभृत्यार्थविध्वंसनं

लब्धोद्वेगरुज: महाऽधनतया भार्यादिसर्वक्षय:।।9।।

इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव।

पूर्वाचार्यैर्निर्मितवलोक्य मुदं प्रयातु दैवज्ञ:।।10।।

पौलिस-वसिष्ठ-रोमश-यवन-बादरायणास्तथा शक्ति:।

अत्रिश्च भरद्वाजो विश्वामित्रो गुडाग्निकेशौ च।।11।।

गर्ग-पराशर-जीवा एतैरन्यैश्च विस्तरं रचितम्।

कथयति शास्त्रेषूक्तं जातकमिति चित्रगुप्तक्तम्।।12।।

इति कल्याणवर्मविरचितायां सारावल्यां चतु:पञ्चाशोऽध्याय:।।