।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

त्रिपञ्चाशोऽध्याय:
(वियोनिजन्माध्याय:)

दैवविदां (नीतिकारं)प्रीतिकरं विश्वसनीयं समस्तलोकस्य।

कनकाचार्यस्य मताद्वियोनिसंज्ञं प्रवक्ष्यामि।।1।।

लग्ने कर्कटके सशीतकिरणे वा सद्ग्रहै: सङ्गते

स्वर्क्षस्थैर्जगतोऽस्य सृष्टिमकरोद्विश्वेश्वर: शाश्वतीम्।

यस्यैवं भवति प्रसूतिसमये पुंस: स सम्पालयेत्।।2।।

समभिव्यनक्ति होरा सस्थावरजंगमं यथा लोके।

कालनिमित्ताकारैर्दैशेन च तत्प्रवक्ष्येऽहम्(तत्प्रपञ्चोयम्)।।3।।

क्रूरै: सुबलसमेतै: सौम्यैर्विबलैर्वियोनलग्ने वा।

सौम्यार्किभ्यां केन्द्रे (तद्वीक्षिते चोदये)तदीक्षिते वा वियोनि: स्यात्।।4।।

आधाने जन्मनि वा प्रश्ने वा द्वादशांशगे चन्द्र:।

यस्मिन्व्यवस्थित: स्याल्लग्ने वा तत्समं सत्त्वम्।।5।।

वर्णाकृतिप्रभेदाद्ग्रहयोगनिरीक्षणैर्मुनिभिरुक्ता:।

तानहमपि प्रवक्ष्ये विशेषत: सारमादाय।।6।।

मेषवृषौ मुखगलयोरंसकपादेषु मिथुनमीनौ स्त:।

पृष्ठोदयपार्श्वेषु च निवेशितौ कर्किकुम्भधरौ।।7।।

सिंहमृगौ जघनस्थौ पश्चिमचरणे स्थितौ युवतिचापौ।

गुह्यवृषणप्रदेशस्फिक्पुच्छौ जूककीटर्क्षौ।।8।।

मिथुनादयस्तुलान्ता: सव्ये भागे चतुष्पदानां च।

वामे झषघटरमृगकार्मुकभृद्वृश्चिकाश्चिन्त्या:।।9।।

मेषादिभिरुदयस्थैरंशैर्वा ग्रहयुतैश्च दृष्टैर्वा।

स्वं स्वं वर्णं ब्रूयाद्गात्रे चिह्नं व्रणं वाऽपि।।10।।

स्वगृहांशकसंयोगाद्विद्याद्वर्णान्परांशके रूक्षान्।

सप्तमसंस्था: कुर्यु: पृष्ठे रेखां स्ववर्णसमाम्।।11।।

वीक्षन्ते यावन्तो वियोनिवर्णाश्च तावन्त:।

बलदीप्तो गगनचर: करोति वर्णं वियोनीनाम्।।12।।

पीतं करोति जीव: शशी सितं भार्गवो विचित्रं च।

रक्तौ दिनकररुधिरौ रविज: कृष्णं बुध: शबलम्।।13।।

स्वे राशौ परभागे परराशौ स्वांशके तिष्ठन्।

पश्यन् ग्रहोऽपि लग्नं सुवर्णवर्णं तदा कुरुते।।14।।

परिघपरिवेषजलदै: शंकुकवेधैर्ध्वजैश्च वृक्षैश्च।

वृषमृगदण्डै: सर्पै: शक्रधनु:पांसुभिर्वापि।।15।।

यद्वर्णेन वृत: स्याद् ग्रहस्तमिह वर्णमादिशेन्मतिमान्।

स्वाभाविकैर्ग्रहाणां वर्णैर्वर्णा भवन्ति जातानाम्।।16।।

विहगोदितदृक्काणे ग्रहेण बलिना युते च चरभांशे।

बौर्धेऽशे वा विहगा: स्थलाम्बुजा:(शनिशशीक्षणाद्योगात्) शशिनिरीक्षिता: क्रमश:।।17।।

लग्ने जलजे बन्धौ(पक्षी) पंक्ति: स्याद्वीक्षितेऽपि वा जलजा:(जलज:)

स्थलजे वा तद्दृष्टे ग्रहवर्णसमस्थलप्रभव:।।18।।

(लग्ने)लग्नार्कजीवचन्द्रैरबलै: शेषैश्च मूलयोनि: स्यात्।

स्थलजलभवनविभागा वृक्षादीनां प्रभेदकरा:।।19।।

अन्त:सारान्वृक्षान्भानुर्दुर्गान्करोति तद्रूपान्।

क्षीरस्नेहसमेतान् शशी गुरु: फलसमेतांश्च।।20।।

कटुकण्टकिनो रुधिर: सुदुर्भगांस्तरणिजस्तथा शुक्र:।

कुसुमफलस्नेहयुतान्बुधश्च बलवर्जितं जनयेत्।।21।।

क्रूर: सौम्यगृहस्थो वृक्षमनिष्टं करोति शुभदेशे।

सौम्यश्च पापभवने कुत्सितदेशे शुभं चापि।।22।।

व्यामिश्रै: शुभभूमौ भवन्ति मिश्रा: सदा वृक्षा:।

स्थलजलपतयस्तेषां स्थलजलजानां तु संभवे दक्षा:।।23।।

स्थलजलखगौ विलग्नाद्यावति राशौ तु तेऽपि तावन्त:।

स्वांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्त:।।24।।

स्वांशे सौम्यैरबलैर्वियोनिलग्ने वियोनिजातं च।

तद्वद्बलिभि: पापै: स्वराशिसदृशांशसंयुक्तै:।।25।।

अबलग्रहराशिगता अस्तं याता: पराजिता भिन्ना:।

क्रूरयुता दृष्टा व सद्यो निघ्नन्ति ते नित्यम्।।26।।

उद्भिज्जरायुजानां तथैव सस्वेदजाण्डजानां च।

प्रसवं व्यस्तसमस्तं ग्रहयोगैर्लक्षणैर्वक्ष्ये।।27।।

दुर्बलगृहे ग्रहेन्द्रा मेषो राशिर्यदोदयं याति।

भानुश्चतुष्पदगृहे चतुष्प(सम्भवति तत्र)पदस्तत्र भवति सामान्ये।।28।।

सामान्येनाभिहितो वियोनिसंज्ञो मया समासेन।

अधुना कौतुकजननं विशेषत: संप्रवक्ष्यामि।।29।।

इह तु द्वादशभागो राशौ राशौ प्रचोदित: पूर्वम्।

जनयन्ति ते वियोनिं याता बलिभि: शशाङ्करविलग्ने।।30।।

मेषे (शशिनि)शशी तदंशे छागादिप्रसवमाहुराचार्या:।

गोमहिषाणं गोंऽशे नररूपाणां तृतीयेंऽशे।।31।।

तत्र चतुर्थे भागे कूर्मादीनां भवेदुदकजानाम्।

व्याघ्रादीनां परत: परतो ज्ञेयं नराणां च।।32।।

वणिगंशे पररूपा वृश्चिकभागे तथा भुजंगाद्या:।

खरतुरगाद्या नवमे मृग(मृगा: समीनास्तथा)शिखिनां स्यात्तथा दशमे।।33।।

ज्ञेयाश्च तत्र विविधा(वृक्षा गुल्मा) वृक्षास्तृणजातयश्चित्रा:।

एकादशे च पुरुषा जलजा नानाविधाश्चान्त्ये।।34।।

मेषे द्वादशभागे जायन्ते जातयो विविधरूपा:।

शेषेष्वपि चैवं स्याद्भवनेषु यथाक्रमं नियतम्।।35।।

यो यत्र भवेदाद्यस्तस्याकृतिमादिशेत्कृते तत्र।

ब्रूयात्क्रमेण मतिमान्द्वादशभागात्मके नवमे।।36।।

ज्ञेयादेवं पुंग्रहनवांशकैर्लग्नगैर्द्विमूर्तिभ्य:।

आद्यांशे योगैरपि जायन्ते बहुविधा: सत्त्वा:।।37।।

श्वप्रभृतीनां प्रसवे यावन्तो द्वादशांशका लग्ने।

तावन्ति वदेत्प्राज्ञ: पुंस्त्रीसंज्ञान्यपत्यानि।।38।।

लग्ने जीवोऽथवा सौरश्चन्द्र वाऽपि स्थितो भवेत्।

कूर्मादीनां तथा संख्या द्वादशांशेषु यावती।।39।।

शुक्रो भौमो बुधो वाऽपि चन्द्रो वापि शनैश्चर:।

कुर्वन्ति बलयुक्तानि भागेष्वंगानि पूर्ववत्।।40।।

स्वांशात्परस्य भागे यस्मिन्काले ग्रहा: समुपयान्ति।

तत्र विकारा ज्ञेया लोकविरुद्धा ध्रुवं प्राज्ञैः।।41।।

वृश्चिकलग्ने भवने तन्नवभागेऽथवा द्विपदसंज्ञे।

बिलवासिनां प्रसूतिर्घोराणां निर्दिशेत्तत्र।।42।।

गोधानां सर्पाणां लोमशानां च शल्यकानां च।

मूषकबिलेशयानां राशिमतां चापि कीटानाम्।।43।।

लूतानां नकुलानां वृश्चिकषड्बिन्दजातकानां च।

अविषाणां सर्पाणां श्वभ्राश्मनिवासिनां चैव।।44।।

हयनरविदेहलग्ने द्वादशभागे नवांशके वापि।

पश्यति नरेन्द्रसचिवस्तत्रोत्पत्तिर्भवेदेषाम्।।45।।

वाजिखराश्वतराणां गोमहिषाणां तथोष्ट्राणाम्।

गुरुवर्णतुल्यरूपान्प्रवदेन्मतिमान्बलेनैव।।46।।

मृगवदने लग्नस्थे तन्नवभागे तथापि सूर्यांशे।

आरण्यानां सूतिं सत्त्वानां निर्दिशेत्क्रमश:।।47।।

नागानां खड्गानां वृकशरभवराहवानराणां च।

ऋक्षोग्रसृगालानां व्याघ्रादीनां भवेत्सूति:।।48।।

मीने मीनांशे वा तज्जे सूक्ष्मांशकेऽपि वा लग्ने।

गुरुदृष्टे विज्ञेयो बहूदकोत्थ: सदा सत्त्व:।।49।।

मेषे मेषांशे वा भौमेन निरीक्षिते सदाचावी।

वृषभे तु वदेत्तद्वद्गोमहिषाद्यान्सदा भृगुणा।।50।।

स्वं स्वं पूर्वविलग्नं स्वै: स्वैर्दृष्टं यदेह पतिभिस्तु।

स्वभवनसदृशान्विद्वान्प्रवदेदविशङ्कितं तत्र।।51।।

ग्राम्यगृहेषु नवांशा: (पञ्चमदशमाष्टराशि)पञ्चमनवमांशसंयुक्ता:।

आरण्यानां सूतिं ग्रामेषु सुनिश्चितां कुर्यु:।।52।।

स्थलजलराशिविभागा नागरभवनेषु लग्नसंस्थेष

स्थलजलचरसत्त्वानां जनयन्ति भवं हि विटपानाम्।।53।।

उदयति वणिग्विलग्ने तद्द्रेक्काणे सितेन संदृष्टे।

शुकसारिकान्यपुष्टाश्चकोरभासाश्च जायन्ते।।54।।

सिंहोदये तथाद्ये सूक्ष्मांशे रविनिरीक्षिते सूति:।

कुक्कुटमयूरतित्तिरिपारावतवञ्जुलादीनाम्(?)।।55।।

स्थिरभोदये तदंशे सौरग्रहसंयुते च दृष्टे च।

प्रासादगृहादीनामुत्पत्ति:(भूताप्ति:) पूर्ववज्ज्ञेया।।56।।

इति कल्याणवर्मविरचितायां सारावल्यां वियोनिजन्माध्यायो नाम त्रिपञ्चाशोऽध्याय:

इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये नववर्गगुणचिन्ता नाम पञ्चाशोऽध्यायः।।