उक्तो हि यवनवृद्धैरष्टकवर्गो निवेदयति पुंसाम्।
हेतुं शुभाशुभं वा प्रतिदिवसं संभवन्तमिह।।1।।
स्वात्केन्द्रायनवाष्टवित्तगृहगो भौमार्कसून्वोरवि –
र्जीवादायनवात्मजारिषु सितात् षड्द्वादशास्तस्थित:।
चन्द्राद्वृद्धिषु बोधनात्सनवधीरि: फेषु लग्नाच्छुभ:
साम्बुद्धादशगोऽष्टवर्गविधिना संशोधितो भास्कर:।।2।।
लग्नाद्भ्रातृदशायशत्रुषु शशी सास्तादिषु स्वाच्छुभ:
भौमात्सार्थनवात्मजेषु रवित: साष्टाङ्गनास्थो गुरो:।
केन्द्रायाष्टधनेषु धर्मसुखधीत्र्यायास्तखस्थ: सितात्।
केन्द्रायत्रिसुताष्टग: शशिसुताद्धीत्र्यायषट्स्वर्कजात्।।3।।
भौमो वृद्धिषु सात्मजासु रवित: साद्यासु लग्नाच्छुभ:
चन्द्रात्कर्मविना च केन्द्रविवरस्या(प्राप्ति)प्तिस्थित: स्वाद्गृहात्।
धर्मायाष्टमकण्टकेषु रविजाज्ज्ञात्र्यायधीशत्रुषु
शुक्रादन्त्यभवारिमृत्युषु गुरो: षड्लाभकर्मान्त्यग:।।4।।
ज्ञोऽष्टायादिशुभार्थबन्धुषु सुताभ्रातृस्थितो भार्गवात्
भौमार्क्यो: सदृशास्तगो रिपुभवच्छिद्रान्त्यसंस्थो गुरो:।
प्राप्त्यन्त्यारितप:सुतेषु तपनात्स्वात्स(त्सायकर्मत्रिग:)त्रिकर्मादिषु
स्वाज्ञायारिजलाष्टमेषु शशिनो लग्नात्सपूर्वाच्छुभ:।।5।।
केन्द्रायास्तधनेषु भूमितनयात्स्वात्सत्रिषु ब्राह्मणो
भानो: सत्रिनवेषु धर्मदशधीस्वा(लाभा)यारिगो भार्गवात्।
धर्मायास्तधनात्मजेषु शशिन: कोणात्त्रिषड्धीव्यये
स्वाज्ञा याम्बुन(नवरि:फपुत्र)वारिपुत्रतनुषु ज्ञात्सास्तगस्तूदयात्।।6।।
लग्नादातनयायरन्ध्रनवगश्चन्द्रात्सित: सव्यय:
स्वात्साज्ञेषु शुभो यमान्नवदशात्र्यायाष्टपञ्चाम्बुषु।
त्र्यन्त्यायारिसुहृन्नवेषु रुधिराद्रि:फायरन्ध्रेष्विनात्
ज्ञात्र्यायारिनवात्मजेष्वथ गुरोर्धीखाष्टधर्मायग:।।7।।
(स्वात्र्यायात्मज)स्वादायात्मजषट्त्रिकेषु रविज: सान्त्याम्बरस्थ: कुजात्
भानो: केन्द्रधनायमृत्युषु तनोस्त्र्यायारिखाद्याम्बुग:।
आज्ञायाष्टनवान्त्यशत्रुषु बुधादिन्दोर्भवारित्रिषु
शुक्रादन्त्यभवारिषु द्विजवरात्प्रा(स्वाध्याय)प्त्यान्त्यधीशत्रुग:।।8।।
इत्युक्तं शुभमन्यदेवमशुभं चारक्रमेण ग्रहा:
शस्ताशस्तविशेषितं विदधति प्रोत्कृष्टमेतत्फलम्।
स्वर्क्षस्वोच्चसुहृद्गृहेषु सुतरां शस्तं त्वनिष्टं समं
(स्वोच्चस्वामिगता) स्वस्वस्वामिगतं दशापतिबलाद्धन्त्यष्टवर्गोद्भवम्।।9।।
रविरुधिरौ भवनं प्रविशन्तौ गुरुभृगुजौ गृहमध्यसमेतौ।
शनिशशिनौ खलु निर्गमकाले शशितनय: फलदस्तु सदैव।।10।।
इति कल्याणवर्मविरचितायां अष्टकवर्गाध्यायी नाम द्विपञ्चाशोऽध्याय:।।