(द्र. वृ. जा. 16।1)प्रश्नकाले विलग्नस्य पूर्वार्धेऽप्युत्तरायणे।
अपरे दक्षिणे ब्रूयाज्जन्मसम्पृच्छतो बुध:।।1।।
ऋतुर्वाच्यो दृगाणांशे लग्नसंस्थेऽपि वा (गृहे)ग्रहै:।
अयनस्य विलोमे तु परिवर्त: परस्परम्।।2।।
शशिज्ञगुरुभि: सार्धं (पूर्वः)सितलोहितसूर्यजै:।
द्रेक्काणेऽर्धे भवेत्पूर्वे मास: पूर्वे(पूर्व:) परे पर:।।3।।
अनुपातात्तिथि: कल्प्या केचिदाहुरिनांशजाम्।
लग्नभागैर्द्विरभ्यस्तै: पञ्चभिर्लभ्यते गुरु:।।4।।
वयोनुमानाद्वर्षाणि द्वादश द्वादश क्षिपेत्।
द्युरात्रिनामधेयेषु विलोमाज्जन्मसम्भव:।।5।।
लग्नभागै: क्रमेणैव वेला मृग्याऽनुपातत:।
लग्नत्रिभागराशीनां यो बली जन्मकृद्भवेत्।।6।।
शीर्षादि संस्पृशन् प्रष्टा पृच्छेत्तद्राशिमादिशेत्।
यावद्गत: शशी लग्नाच्चन्द्रात्तावति जन्मभ:।।7।।
मीनोदये वदेन्मीनं लग्नांशसदृशोदयम्।
लग्नाद्भानुदृगाणे च यावत्यर्काच्च तावति।।8।।
विलग्नं कथयेत्प्राज्ञ इति शास्त्रस्य निश्चय:।
लग्नगे वीर्यगे वाऽपि च्छायांगुलहते हृते।।9।।
रविभिर्जन्मशिष्टं हि कथयेदविशङ्कित:।
तिष्ठत: शयनस्थस्य निविष्टस्योत्थितस्य च।।10।।
लग्नादिकेन्द्रवेश्मानि वदेज्जन्मविधौ क्रमात्।
भावं विचार्य सकलं यद्यत्तुल्यं तु तत्तथा।।11।।
(द्र. वृ. जा. 26।15)संस्कारनाममात्रा द्विगुणा च्छायांगुलै: समायुक्ता:।
त्रिघनविभक्ताच्छेषं नक्षत्रं तद्धनिष्ठादि।।12।।
(द्र.वृ. जा. 26।9)वृषसिंहौ दशगुणितौ वसुभिर्मिथुनालिकौ वणिङ्मेषौ।
मुनिभि: कन्यामकरौ बाणै: शेषा: स्वसंमितैरेव।।13।।
गुरुणा कुजेन भृगुणा बुधेन्दुभान्वार्किभि: क्रमश:।
वर्षर्तुमासतिथयो द्युनिशाभनवांशवेलाश्च।।14।।
एवं क्रमेण हृत्वा स्वविकल्पविभाजिताच्छेषम्।
एवं भवन्ति सर्वे नवदानविशोधने च पुन:।।15।।
यवनेन्द्रदर्शनाद्यै: कथितं तदिहात्र सर्वमेव मया।
किन्तु स्फुटं न सर्वं स्पष्टं सारस्वतं चिन्त्यम्।।16।।
पादत्रितयं विदलं दिनरजनीमानयो: क्रमात्क्रमश:।
पृच्छकराशिसमानैर्दिवसनिशासंज्ञितं पिण्डम्।।17।।
वारघ्नभवि(निभृताग्रं)हृताग्रं प्रोद्गच्छति तावदेव नक्षत्रम्।
अश्विमघामूलाद्यं वि(नवकं नवकं)नवं सनवं क्रमादृक्षम्।।18।।
तल्लिप्तासप्तहृताच्छेषाद्वारो भवेच्च ऋ(पृच्छादि)क्षादि।
शेषं प्राग्वत्कार्यं पृच्छकसूर्यादिभिर्दायम्।।19।।
उद्गतदशा व्यतीत गम्याथ विलोमतो भवेन्नित्यम्।
तावत्संख्या योज्या नष्टविधौ कालपरिमाणे।।20।।
इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्यायो नामैकपञ्चाशोऽध्यायः।।