दाता हर्ता दीप्तः क्षयोदयी सङ्गरप्रचण्डः स्यात्।
प्रियविग्रहस्त्रिभागे मेषाग्रे बन्धुषूग्रदण्डश्च।।1।।
स्त्रीचञ्जलो विहीरी रतिमान्गीतप्रियो मनस्वी स्यात्।
मित्रार्थभाक्सुरूपः स्त्रीवित्तरुचिर्द्वितीये च।।2।।
गुणवान्परदोषकरश्चलसत्त्वयुतो नरेन्द्रसेवी स्यात्।
स्वजनप्रियोऽतिधर्मतृतीयभागे प्रियादरोऽज्ञश्च।।3।।
प्रियपानभोज्यनारीवियोगतप्तो वृषस्य पूर्वांशे।
वस्त्रावङ्कारयुतो युवतिप्रकृतानुसारी स्यात्।।4।।
सौम्यवपुस्त्रीसुभगो महाधरो रूपधनयुक्तः।
बलवान्स्थिरो मनस्वी लुब्धस्त्रीणां स्याद्धनान्युपादाय।
सन्तप्यते तु पश्चाद्वृषस्य भागे तृतीये च।।6।।
मिथुनादिमे दृगाणे पृथूत्तमाङ्गो धनान्वितः प्रांशुः।
कितवो गुणी विलासी नृपाप्तमानो वचस्वी स्यात्।।7।।
ह्रस्वाननस्वरूपः सौम्यवपुः सूक्ष्ममूर्धजतनुः स्यात्।
धन्यो मृदुमहाधीर्द्वितीयभागे प्रतापवान्सुयशाः।।8।।
स्त्रीद्वेषणो वपुष्पान्महाशिराः शत्रुसंयुतः प्रांशुः।
रूक्षनखाङ्घ्रिकरतलश्चलार्थविभृतो दृढस्तृतीये स्यात्।।9।।
कर्कटादिमभागे देवब्राह्मणरतश्चलो गौरः।
कृत्यकरश्च परेषां सुधीः सुमूर्तिः शुभांगनः सुभगः।।10।।
लुब्धः स्वाद्वदनपरः स्वप्नरतः स्त्रीजितोऽभिमानी स्यात्।
सहजान्वितो विलासी चपलो बहुरुग्द्वितीये च।।11।।
स्त्रीचञ्चलोऽर्थभागी विदेशनिरतः प्रियासवः साधुः।
काननतोयानुरतो दुर्दृष्टिर्माल्यवांस्तृतीये स्यात्।।12।।
सिंहादिद्रेष्काणे दाता भर्तारिनिर्जिगोषुः स्यात्।
बहुधनयोषित्सुसुहृद्वहुजननृपसेवकः सुसत्त्वश्च।।13।।
सुरुचिरकारी दाता स्थिरो वपुष्मान्रणेप्सुः स्यात्।
सुखभाक् श्रुतिधर्मरुचिर्विस्तीर्णमतिर्द्वितीये च।।14।।
लुब्धः परस्वहरणे कल्यः स्तब्धो महामतिः कितवः।
नायततनुमूर्तिः स्यान्नैकापत्यः प्रगल्भोऽन्त्ये।।15।।
श्यामः सुवाग्निनीतः प्रांशुः सुकुमारमूर्तिरबलाद्ये।
स्त्रीभ्योर्थंभागनिष्ठो दीर्घशिरा मधुसमाक्षश्च।।16।।
धीरो विदेशभागी शिल्पकथापण्डितः समरशौण्डः।
वाचाटः श्रुतवाक्यो वनौकसां संमतो द्वितीये स्यात्।।17।।
गीतापरार्धभागी सङ्गीतरतिर्नरेन्द्रदयितः स्यात्।
ह्रस्वस्वरूपवेषश्चान्ते पृथुदृक्शिरस्कश्च।।18।।
कन्दर्परूपनिपुणस्तुलादिभागेऽध्वसेवज्ञः।
श्यामकला पण्यरतो नियोगधीरः सुमेधावी।।19।।
पङ्कजविशालनेत्रः सुरूपवाक्साहसः (किलापी)विलापी स्यात्।
ख्यातः स्ववंशवर्धितवृद्धानुचरो द्वितीये च।।20।।
चपलः शठः कृतघ्नो विरूपजिह्मोपचितमूर्तिः।
नष्टसुहृद्द्रविणयशयाः स्वल्पमतिर्भागके तृतीये स्यात्।।21।।
गौरः स्थिरः प्रचण्डो रणोत्कटः स्यान्नरो विशालाक्षः।
स्थूलविशालशरीरः कलिप्रियो वृश्चिकाद्यांशे।।22।।
मृष्टान्नपानचतुरश्चलेक्षणो हेमगौरमूर्तिः स्यात्।
कान्तः परवित्तयुतः शीलकलावाग्द्वितीयेंऽशे।।23।।
नि:श्मश्रुरोमहिंस्र: पिङ्गाक्षमहोदर: प्रहर्ता च।
सहजच्युतस्तृतीये पीवरबाहु: सुधीरहृदयश्च।।24।।
परिमण्डलाक्षवक्त्रो गणेषु मुख्यो धनुर्दृगाणाद्ये।
स्वोपचितस्वाचारस्तथा मुदुर्भवति संजातः।।25।।
शास्त्रार्थवित्प्रवक्ता क्रतुशतहर्ता द्वितीये च।
मन्त्रभृतां श्रेष्ठतमस्त्वनेकतीर्थायतनचारी।।26।।
बन्धुप्रधानचतुरः सतां गतिर्धर्मभाक् तृतीयेऽपि।
(मानी)कामी पराङ्गनाभावरूपयशोभाजनो विजिष्णुश्च।।27।।
व्यालम्बभुजः श्यामः प्रथितयशोरूपकान्तिशठः।
स्मितभाषी मकराद्ये स्त्रीषु जितो वल्गुचेष्टधनयुक्तः।।28।।
अल्पवदनश्च मध्ये चलः परस्त्रीधनापहर्ता स्यात्।
चतुरः सतां गतिज्ञः प्रदानशीलो दुरन्तपादः स्यात्।।29।।
(वाचाटः)वाचालः कलुषकृशो दीर्घाङ्गः पितृवियुक्तश्च।
लभते विदेशगमनाद्व्यसनान्यपि मृगमुखस्यान्ते।।30।।
स्त्रीमानयशोभुतिः स्फीतप्रभवो घटस्याद्ये।
प्रांशुः कर्मसु निष्ठो धनवान्नृपसेवको जातः।।31।।
लुब्धः समर्थमधुरो गौरः पिङ्गोद्धताक्षहास्यधनः।
उद्घृष्टवचा मतिमान्बहुमित्रः स्याद्द्वितीये तु।।32।।
दीर्घः शठः प्रतापो कृशोऽपबाहुः सुतार्थभाक्स्तब्धः।
बह्वनृतोऽन्तर्विषमो विदारिताक्षो रतिविदन्त्ये।।33।।
मधुपिङ्गाक्षो गौरो मेधावी सत्क्रियारतिज्ञश्च।
सुखभागी मीनाद्ये (चारयुतो)जलचरयुगले विनीतश्च।।34।।
नार्युपचारप्रवरो मृष्ठान्नरतिः(रुचिः) परार्थभुक् (कारी)कामी।
स्त्रीसज्जनातिदयितो वदतां श्रष्ठो द्वितीये तु।।35।।
श्यामः कलासु निपुणः (दान)पृथुपादसुहृत्प्रदानश्च।
मृष्टान्नपानहास्यो मीनयुगान्त्ये भवेत्पुरुषः।।36।।
इतीरितोऽयं स्वगुणस्भावो द्रेक्काणजानां (गुणचिन्हकल्पैः)गुणविद्विकल्पैः।
द्रेक्काणभे(णगे) वीर्यवति स्वदृष्टे द्रेक्काणकल्पं तु फलं विदध्यात्।।37।।
इति कल्याणवर्मविरचितां सारावल्यां नष्टजातकाध्याये द्रेक्काणाध्यायो नामैकोनपञ्चशोऽध्यायः।।