आत्मा रविः शीतकरस्तु चेतः सत्त्वं धराजः शशिजोऽथ वाणी।
ज्ञानं सुखं(ववेगुरुर्मदश्च शुक्रः) शुक्रगुरू मदश्च राहुः शनिः कालनरस्य दुःखम्।।1।।
आत्मादयो गगनगैर्वलिभिर्बलवत्तरा।
दुर्बलैर्दुर्बलास्ते तु विपरीतं शनेः फलम्(स्मृत्तम्)।।2।।
यथा यथा लग्नगृहाश्रयाणां समुद्गमोऽभूरित्त्रिविकल्पनानाम्(भूरिविकल्पनानाम्)।
तथा तथा शैलनगाष्टसंख्याः(शैलनवाष्ट) क्रमेण कालावयवाः प्रसूतौ(प्रसूताः)।।3।।
लग्नात्तत्क्षणमुदितं (बाममङ्गम्)बामाङ्गमथाबलम्।
सव्यार्धादितरं तस्य(रत्तस्य) नोद्गतं सबलं(सुफलं) च तत्।।4।।
मूर्धालोचनकर्णगन्धवहनं (गण्ड)गण्डौ हनुश्चाननं
ग्रीवास्कन्धभुजं तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः।
बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी।
जङ्घे पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिता:।।5।।
पापा व्रणं लाञ्छनमेषु(मेष) सौम्याः स्वांशे स्वराशावथवा स्थितेषु।
कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु(मेष्य) ग्रहास्तद्विपरीतसंस्थाः।।6।।
राजा रविः शशधरश्च(रस्तु) बुधः कुमारः सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ।
भृत्यस्तयोश्च रविजः सबला नराणां कुर्वन्ति जन्मसमये निजमेव सत्त्वम्(रूपम्)।।7।।
(द्र.बृ. पारा. 3।14, बृ.जा. 2।1, जा. पा. 2।2)भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी।
सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः।।8।।
गुरुबुधशुक्राः सौम्या सौरिकुजार्कास्तु निगदिताः(निसर्गतः) पापाः।
शशिजोऽशुभसंयुक्तः क्षीणश्च निशाकरः (हो.र. 1 अ. 65 पृ.)पापः।।9।।
हेलिर्भानुः शशी चन्द्रः (क्रूरदृक्)क्रूराक्षः क्षितिनन्दनः।
आरो रक्तस्तथा वक्रो हेम्नो विद् ज्ञोऽथ बोधनः।।10।।
ईड्येज्यावङ्गिरा जीवो ह्यास्फुजिच्च सितो भृगुः।
मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः।।11।।
ताम्रसितारुणहरितकपोतविचित्रासिता इनादीनाम्।
(हो.र. 1 अ. 64 पृ.)पावकजलगुहकेशवशक्रशचीवेधसः पतयः।।12।।
अर्कादिग्रहदैवतमंत्रैः संपूज्य तामाशाम्।
कनकगजवाहनादीन्प्राप्नोति गतोऽरितः शीघ्रम्।।13।।
स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौ
पुंसां जीवदिवाकरक्षितिसुता विप्रस्य शुक्रोऽङ्गिरा।
राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुध:
शूद्राणां शिखिभूखतोयमरुतां भौमादय: कीर्तिता:।।14।।
कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम्।
(सुरग्रहकाग्नि हो. र.1अ. 75 पृ.)सुरतोयाग्निविहारर्थशयनपांसूत्कराणां च।।15।।
वस्त्राणां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम्।
ताम्रमणि हेममिश्रितरूप्यकमुक्तायसां वाऽपि।।16।।
(हो.र. 1 अ. 67 पृ.)अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्या:।
शिशिरादीनामीशा: शनिसितभौमेन्दुबु(चन्द्रसुतः)धजीवा:।।17।।
लग्नाधिपतेस्तुल्य: कालो लग्नोदितांशकसमाख्य:।
वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे।।18।।
(हो.र. 1 अ. 67 पृ.)ऋग्वेदाधिपतिर्जीवो यदुर्वेदपति: सित:।
सामवेदाधिपो वक्र: शशिजोऽथर्ववेदराट्।।19।।
सुरपूज्य: शशिशुक्रौ दि नकरभौमौ बुधार्कजौ नाथा:।
विबुधमनुष्यपितॄणां तिर्यङ्नरकाधिवासानाम्।।20।।
स्वल्पाकुञ्चितमूर्धज: पटुमतिर्मुख्यस्वरूपस्वनो
नात्युच्चो मधुपिङ्गचारुनयन: शूर: प्रचण्ड: स्थिर:।
रक्तश्यामतनुर्निगूढचरण: पित्तास्थिसारो महान्
गम्भीरश्चतुरस्त्रक: पृथुकर: कौसुम्भवासा रवि:।।21।।
सौम्य: कान्तविलोचनो मधुरवाग्गौर: कृशाङ्गो युवा
प्रांशु सूक्ष्मनिकुञ्चितायितकच: प्राज्ञो मृदु: सात्त्विक:।
चारुर्वातकफात्मक: प्रियसखो रक्तैकसारो घृणी
वृद्धस्त्रीषु रतश्चलोऽतिसुभग: शुभ्राम्बरश्चन्द्रमा:।।22।।
ह्रस्व: पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलो
मज्जावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक्।
ह्रस्वाकुञ्चितदीप्तकेशतरुणः पित्तात्मकस्तामस -
श्चण्डः साहसिकोऽपि घातकुशलः संरक्तगौरः कुजः।।23।।
रक्तान्तायतलोचनो मधुरवाग्दूर्वादलश्यामल-
स्त्वक्सारोऽतिरजोधिकः स्फुटवचाः स्फीतस्त्रिदोषात्मकः।
हृष्टो मध्यमरूपवान्सुनिपुणो वृत्तः शिराभिस्ततः
सर्वस्याहुकरोति वेषवचनैः पालाशवासा बुधः।।24।।
ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरः
सत्त्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः।
ह्रस्वो धर्मरतो विनीतनिपुणो बुद्धोत्कटाक्षः क्षमी
स्यात्पीताम्बरधृक्क(भृत्क)फात्मकतनुर्मेदः प्रधानो गुरुः।।25।।
चारुर्दीर्घभुज: पृथूरुवदन: शुक्राधिक: कान्तिमान्
कृष्णाकुञ्चितसूक्ष्म(लम्बितकचो)लम्बिचिकुरो दूर्वादलश्यामल:(दुर्वाङ्कुरश्यामलः)।
कामी वातकफात्म3कोऽतिसुभगश्चित्राम्बरो(धिको) राजसो
लीलावान्मतिमान्विशालनयन(लामदेहः) स्थूलांसदेश: सित:।।26।।
पिङ्गो निम्नविलोचन: कृशतनुर्दीर्घ: सिरालोऽलस:
कृष्णाङ्ग: पवनात्मकोऽतिपिशुन: स्नाय्वततो निर्घण:।
मूर्ख स्थूलनखद्विजोऽतिमलिनो रूक्षोऽशुचिस्तामसो
रौद्र क्रोधपरो जरापरिणत: कृष्णाम्बरो भास्करि:।।27।।
मित्राणि सूर्याद्गुरुभौमचन्द्रा: सूर्येन्दुपुत्रौ रविचन्द्रजीवा:।
भानु: सशुक्र: शशिसूर्यभौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण।।28।।
शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्य: शशी शुक्रबुधौ रवीन्दू।
सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रु:।।29।।
व्ययाम्बुधनखायेषु तृतीये सुहृद: स्थिता:।
तत्कालरिपव: षष्ठसप्ताष्टैकत्रिकोणगा:।।30।।
(द्र.बृ. पारा. 3।57-58, बृ.जा. 2।18. स. चि. 1।89) हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ता
हिततमहितमध्यास्तेऽपि तत्कालमित्रै:।
रिपुसमसुहृदाख्या: सूतिकाले ग्रहेन्द्रा
अधिरिपुरिपुमध्या शत्रुभिश्चिन्तनीया।।31।।
संपश्यति(सव्यं संपश्यन्ति) स्थानात्सदा ग्रहाश्चरावृद्धित: सर्वे।
त्रिदशत्रिकोणचतुरस्त्रसप्तमानां फलं क्रमेणैव।।32।।
पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोणमपि जीव:।
चतुरस्त्रं भूमिसुतो द्यूनं च सितार्कशशिबुधा: क्रमश:।।33।।
(हो.र.1 अ. 88 पृ.)दिक्स्थानकालचोष्टाकृतं बलं सर्वनिर्णयविधाने।
वक्ष्ये चतु: प्रकारं ग्रहस्तु रिक्तो भवेदबल:।।34।।
लग्ने जीवबुधौ दिवाकरकुजौ व्योम्नि स्मरे भास्करि –
र्बन्धाविन्दुसितौ दिशाकृतमिदं स्वोच्चे स्वकोण स्वभे।
मित्रस्वांशकसंस्थित: शुभफलैर्दृष्टो बलीयान्ग्रह:
स्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे।।35।।
(द्र.बृ. पा. 3।36, बृ.जा 2।21)जीवार्कास्फुजितोऽह्नि विच्च सततं मन्देन्दुभौमा निशि
होरामासदिनाब्दपाश्च बलिन: सौम्या: सितेऽन्येऽसिते।
संग्रामे जयिनो विलोमगतय: संपूर्णगावो ग्रहा:
सूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले।।36।।
उत्तरमयनं प्राप्ता: शुक्रकुजार्केन्द्रमन्त्रिणो बलिन:।
याम्यं शशिरविपुत्रौ द्वयेऽपि शशिज: स्ववर्गस्थ:।।37।।
(युस्त्री)पुंस्त्रीनपुंसकाख्या: क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ता:।
सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम्।।38।।
प्राग्रात्रिभागेऽतिबल: शशाङ्क: शुक्रो निशार्धेऽवनिजो निशान्ते।
प्रातर्बुधो मध्यदिने च सूर्य: सर्वत्र जीवोऽर्कसुतो दिनान्ते।।39।।
कृष्णारबुधगुरुसिता: शशिसूर्यावुत्तरोत्तरं बलिन:।
(साधारण)स्वाभाविकबलमेतद्बलसाम्ये चिन्तयेत्प्राज्ञ:।।40।।
(41, 42 सङ्ख्यक श्लोक संस्कृत वि.वि. सरस्वती भवन की मातृका सं. 36477 मे अधिक विद्यामान हैं।) दिक्-स्थान-चेष्टा-क्षण-वक्र दृष्टि स्वाभाविकं सप्तविधं बलं स्यात्।
तत्स्वप्रकारेण बलं ददाति रिक्तो हि शून्योऽल्पबलोऽल्पवीर्य:।।41।।
क्रूराहत: शत्रुजितो गतश्च नीचेऽरिभांशेष्वपि दुष्टचेष्ट:।
षष्ठाष्टमे रिष्फगतेऽणुरूक्षो विनाऽधिकारोप्यफलो ग्रहेन्द्र:।।42।।
इति कल्याणवर्मविरचितायां सारावल्यां ग्रहयोनिभेदो नाम चतुर्थोऽध्यायः।