रिक्तोत्कटदृ क्रूरो धनपः शुक्लाधिकोग्रदाररतः।
पीनोन्नतः प्रचण्डस्तस्करनाथः क्रियादिहोरायाम्।।1।।
चोरः प्रमादबहुलः खराग्रपादाङ्गुलिर्द्वितीयायाम्।
स्निग्धायताक्षतुरः पृथुपीनतनुः सुमेधाश्च।।2।।
श्यामो विशालचक्षुर्ललाटवक्षाः(पक्ष) प्रगल्भरतिवश्यः।
स्थूलास्थितनुर्वृषभप्रथमार्धे स्याद्वपुष्मांश्च।।3।।
पृथ्वायतवृत्ततनुमुदारसत्त्वं सुमूर्धजं जनयेत्।
व्यस्तकटिं वृषभाक्षं वृषभे होराद्वितीयायाम्।।4।।
मध्यायतोऽतिदक्षो मध्यतनुर्मृदुशिरोरुहाङ्घ्रिश्च।
मिथुनाद्यर्धे शूरः सुरपेप्सुः स्याद्धनी प्राज्ञः।।5।।
मधुरायताक्षकामी शूरो मृदुकर्मठो वचस्वी च।
परदारदत्तदेहो भवेन्नृमिथुनद्वितीयहोरायाम्।।6।।
उद्धतमूर्तिः सुशिराः प्रगल्भधीर्मन्दृक्चलाङ्गुशठः।
श्यामतनुः सुकृतघ्नो भग्नाग्ररदः कुलीरहोरायाम्।।7।।
द्यूते रतोऽध्वनिरतः पृथुवक्षा सत्प्रमाणसम्पन्नः।
कठिनशरीरः क्रोधी जायेत कुलोरभद्वितीयायाम्।।8।।
रक्तान्तदृक्प्रगल्भो गुरुरायतविग्रहश्च सिंहाद्ये।
जिह्मस्वभावसुखभागन्तस्थिरकार्यसत्त्वश्च।।9।।
स्त्रीमृष्टपानभोजनवस्त्रेप्सुर्बहुविचेष्टकठिनाङ्गः।
दाताध्वरतोऽल्पसुतो भोगी स्थिरसौहृदोऽन्त्यार्धे।।10।।
सुकुमारमूर्तिकान्तः सुवाक्यगीताङ्गनारतिर्मधुरः।
गान्धर्वविद्युवत्याः सुभगः पूर्वार्धजः श्रेष्ठः।।11।।
ह्रस्वो हठश्रुतार्थः स्थूलशिराः सम्मतो विवादी च।
सेवालेख्यलिपिज्ञः क्षयवृद्धियुतः सुखी द्वितीयार्धे।।12।।
वृत्तानन उच्चनसस्त्वसितायतसुनयनो विलासी स्यात्।
पीनायताऽस्थिसारो धनवान्स्वजनप्रियस्तुलीद्यर्धे।।13।।
बह्वर्थभाक् स्थिरार्थः श्यामाकुञ्चितशिरोरुहश्च शठः।
वृत्ताक्षरत्स्वपरार्धे सुत्वग्घीनाग्रपादश्च।।14।।
रक्तान्तपिङ्गदृष्टिः साहसकर्मान्वितो रणे शूरः।
दुष्टस्वभावरामाप्रियोऽर्थंभाग्वृश्चिकाद्यर्धे।।15।।
विस्तीर्णोपचितायतपीनाङ्गः क्ष्माधिपोपसेवी स्यात्।
बह्वृणमित्रसमेतः स्फुटिताक्षो वृश्चिकापरार्धे स्यात्।।16।।
दारितपृथुमुखवक्षाः परिकुञ्चितनेत्रगण्डः स्यात्।
बाल्ये त्यक्तात्मगुरुश्चापाद्यर्धे तपस्वी च।।17।।
पद्माक्षो दीर्घमहाबाहुः शास्त्रर्थवित्सुमूर्तिः स्यात्।
वाक्सुभगो धन्योऽपि च धनुरपरे निर्वृतो यशस्वी च।।18।।
श्यामो मृहाक्षधन्यः स्त्रीष्वजितः सौम्यमूर्तिशठ आढ्यः।
मृष्टाशनः (सुवेषो)सुचेष्टो मृगाद्यभागे तनूच्चघोणः स्यात्।।19।।
रक्तान्तदृष्टिरलसो गुरुदीर्घाटनपरो भवति मूर्खः।
श्यामो रोमचिताङ्गस्तीक्ष्णः सहसः सुरौद्रकर्मा च।।20।।
स्त्रीमित्रभागरसविन्मृदुलोऽपसुतश्च सद्गुणः शूरः।
ताम्रो भास्वरवर्णो यानमतिः कुम्भपूर्वार्धेः।।21।।
आताम्रदारिताक्षः कृशः स्थिरोऽत्यल्पमूर्तिरलतः स्यात्।
नैकृतिकः सुविषादी कृपणः कुम्भापरे सुशठः।।22।।
ह्रस्वः पृथुचारुतनुर्महाललाटो बृहृद्वदनवक्षाः।
स्त्रीदयितो मीनार्धे प्रथमे सुयशाः क्रियापटुः शूरः।।23।।
दाता सुतुङ्गनासो निपुणो मेधान्वितः शुभदनेत्रः।
नृपदयितः स्त्रीसुभागश्चारुर्मीनापरे सुवाक्यः स्यात्।।24।।
चन्द्रार्कयोरेकतरे बलस्थे होरापतिः पश्यति केन्द्रगो वा।
होरा यथोद्दिष्टफलप्रदा स्याद्गगर्भस्थसत्त्वस्य समुद्भवेषु।।25।।
इति कल्याणवर्मविरचितायां सारावल्यां होरागुणो नाम अष्टचत्वारिंशोऽध्यायः।।