जन्मविधावज्ञाते (श्नोऽथ)प्रश्नोत्थविलग्नतो भवेत्स्पष्टम्।
जन्मसमयो(समये) नराणामतिप्रयत्नेन संचिन्त्य।।1।।
दशविध(विधि)चिह्नैर्ज्ञात्वा जातं पुरुषं प्रसाधयेल्लग्नम्।
अत एव प्रथमतरं तानि समस्यान्यहं वक्ष्ये।।2।।
मेषविलग्ने जातः प्रचण्डरोषो विदेशगमनरतः।
लुब्धः कृशोऽल्पसौख्य: सेर्ष्यः स्खलिताभिधायी च।।3।।
पित्ता(पित्तानिलोष्ण)निलोष्ठरोगैभितप्तनुः क्रियापटुर्भीरूः।
मेषाक्षिधर्मपरश्चलोऽल्पमेधाः परार्थना(रतः)शकरः।।4।।
भोक्ता ख्यातः कुनखो भ्रातृविहीनस्तथा पितृत्यक्तः।
शीघ्रगतिर्मन्दसुतो विविधार्थयुतः सुशीलश्च।।5।।
कुकुलोद्गतां (सुशीलां)विशीलां (व्यङ्गां स्वजनेऽघृणां) स्वजनेऽपि च निर्घृणां स्त्रियं लभते।
अपकृष्टोदयसौख्यः कुधर्मसंवर्धितार्थश्च।।6।।
वृषविलग्ने शूरः क्लेशसहिष्णुः सुखी रिपुनिहन्ता।
बाल्ये संचययुक्तः पृथुपीनललाटघोणगण्डोष्ठः।।7।।
उद्युक्तकर्मसुभगः पितुर्जनन्याः सुशर्मकृद्दाता।
विविधव्ययोऽतिरौद्रः कफानिलात्मा पिता कुमारीणाम्।।8।।
स्वजनावमर्दनपरो (नियुक्तो)धर्मविवृत्तोऽबलाप्रियश्चपलः।
भोजनपाननिगृध्नुर्नानाम्बरभूषणैकमतिः।।9।।
मिथुनविलग्ने जातः प्रियदारो भूषणप्रदानरतिः।
(पूज्यतमः)पूज्यवचः सुवर्चस्वा द्विमातृको रिपुविनीतः स्यात्।।10।।
गान्धर्वशिल्पकुशलः श्रुतिशास्त्रार्थप्रहा(भास्य)स्यकाव्यमतिः।
सौम्योऽथ मण्डनरुचिर्मदवश्यः स्यात्सतां सत्यः।।11।।
असहिष्णुरनिष्टसुतः शठोऽल्पबन्धुश्च संस्थितो भवति।
हीनाधिकाङ्गपादो विनीतवृत्ताक्षिपक्ष्मा च।।12।।
चण्डाकारो वश्यो दारुणरिपुपक्षसंहरणशीलः।
भूरत्नकाञ्चनार्मि(नेप्सित)कजलार्थभागी भवेत्पुरुषः।।13।।
कर्किणि लग्ने भीरुर्नैकनिवासश्चलप्रज्ञः।
मेधान्वितोऽतिधुर्यो गुह्यरुगार्तो निहन्ति रिपून्।।14।।
अन्तर्विषमः कामी द्विजदेवतात्यर्चनप्रदानरतः।
धर्मरतः कफबहुलः युवतितनुः(तनुः संस्तुतो गणैर्नियतम्)संस्थितो गुणैर्नियतम्।।15।।
कन्यानुजो न बन्धुर्दृष्टाल्पसुतो विगर्हितकुटुम्बः।।
बहुमतकुत्सितयुवतिः परार्थभागी दृढग्राही।।16।।
परदेशगः सुधीरः साहसकर्मा जलाधिगतवित्तः।
स्त्रीभूषणाम्बरसुखैर्भोगैश्च समव्नितो भवति।।17।।
सिंहोदये प्रसूतो मांसरुचिर्नृपतिलब्धमानधनः।
धर्माच्च युतोऽप्य(ह्यसंस्थ)संस्थः कुटुम्बकार्येषु रतवामः।।18।।
सिंहस्य समानमुखः स्थितिमान्गाम्भीर्यसत्त्वसंयुक्तः।
धृष्टोऽल्पवचा लुब्धः परघातकरो बुभुक्षावान्।।19।।
पर्वतवनानुसारी सुरोषणो दृढसुहृत्प्रमादी च।
दुष्प्रसहो हतशत्रुः ख्यातसुतः प्रणतसाधुजनः।।20।।
कृष्यादिकर्मधनवान्व्यापाररतो बहुदव्ययो भवति।
वेश्या-नटी-नियमनाद्भार्यातश्चातिदन्तरोगाच्च।।21।।
षष्ठे साधुत्वयुतः शिक्षागान्धर्वकाव्यशिल्पपटुः।
प्रियवल्गुकथाभाषी प्रणयी दानोपचाररतः।।22।।
कन्याविलाससत्त्वस्थितिर्दयावान्परस्वभोक्ता च।
भोक्ता देवभ्रमणः स्त्रीप्रकृतिर्विनयवाक् कितवः।।23।।
भूमण्डलवर्धनभाक् सुभगः कामी यशोच्छ्रयं लभते।
ऋजुधर्मवान्सुरूपः सुरुचिः कान्तो गुरूणां च।।24।।
पापैरहार्यवृत्तैः सहजैश्च समं विरुद्धश्च।
कन्याप्रजोऽनिलकफो नीचारिविवर्जितकथश्च।।25।।
सप्तमलग्ने जातो विषमाङ्ग शीलवर्जितश्चपलः।
उपचितहीनद्रविणः (सुखकृद्देहा)सुखहृद्देहानुसारी(कारी) स्यात्।।26।।
(कक्षाधिकः खलरुचिः)कफवातिककलिरुचिको दीर्घमुखशरीरधर्मतिवेत्ता।
बहुदुःखभाक्सुमेधाः परावमर्दी सुचारुकृष्णाक्षः।।27।।
अतिथिद्विजदेरतिः (तनुः)क्रतुक्रियावान्गुरुषु भक्तः।
पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्लः।।28।।
भ्रातृप्रियोऽर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च।
(दाता)कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः।।29।।
वृश्चिकलग्ने पुरुषः (तनुर्व्या)पीनपृथुव्यायताङ्गस्तीक्ष्णश्च।
अन्तर्विषमः शूरो मातुरभीष्टो (रतोद्य)रणोद्यतस्त्यागी।।30।।
गम्भीरपिङ्गलोद्धतदृक्तुमहाहृन्निमग्नठरश्च।
अन्तर्विलग्नघोणः साहसनिरतः स्थिरश्चण्डः।।31।।
विश्वासहासवश्यः पित्तरुगार्तः कुटुम्बसम्पन्नः।
गुरुसुहृदां द्रोहरतः (वरा)पराङ्गनाकर्षणानुरतः।।32।।
बन्धोल्बणवक्त्रः स्याद्भूपतिसेवी सशत्रुपक्षः स्यात्।
प्रयतोऽर्तदः सुयुवतिधर्मं प्रति वत्सलः क्षुद्रः।।33।।
कार्मुकलग्ने जातः स्थूलदरस्तुङ्गापृथुलमूर्धा च।
प्रणतानां प्रियकारी धृतिसत्त्वसमन्वितः सुनयः।।34।।
मलिननासिकोष्ठकुनखी ह्रीमानतिपीवरोरुजठरश्च।
विज्ञानशास्त्रकुशलः प्रत्यग्रमतिः सुलभप्रकोपश्च।।35।।
बलिनामर्षणपरः कुलमुख्यो नाशितारिपक्षश्च।
संग्रामपदश्रेष्ठबहुलश्छलबहुलश्छिद्रबन्धुगुणः।।36।।
शिल्पादिकर्मनिरतः स्वकर्मदान्(बाग्बन्धु) बन्धुवर्गशुभदश्च।
कान्तो (वदनाजिपदो)वदनाक्षिगदो नृपाद्धृतार्थः सुधर्मरतः।।37।।
मृगवदने लग्नस्थे कृशगात्रो भीरुरेणवक्त्रश्च।
वातव्यधिभिरार्तः प्रदीप्तङ्गोग्रनासः स्यात्।।38।।
लघुसत्त्वोऽमिततनयो रोमचितः पाणिपादविस्तीर्णः।
आचारगुणैर्हीनस्तृषार्तरामाभिराममतिः।।39।।
गिरिवनचारी शूरः शास्त्रश्रुतिशिल्पगेयवाद्यज्ञः।
क्षुद्रबलः सकुटुम्बो द्विष्टो दुष्टश्च बन्धुशठः।।40।।
कुत्सितशीलः कान्तः कुत्सितदारोऽनसूयको धनवान्।
धर्मरतो नृपसेवी न चापि दाता सुखी सुभगः।।41।।
कुम्भविलग्ने पुरुषः सुनीचकर्मा कुलाधिको मूर्खः।
स्फुटिताग्रनसो नीचः सक्रोधपरोऽलसात्मा च।।42।।
वैरप्रियोऽप्रहृष्टः पारुष्यद्यूतनीचदासीष्टः।
उपहृतबन्धुः क्षुब्धः क्षयोदयो प्राप्तवित्तश्च।।43।।
पिशुनः शठो दरिद्रो विनष्टबन्धुर्बहिष्कृतो लोके।
नो संमतः परेषां प्रकृष्टसम्पद्गुरुरतिश्च।।44।।
कुम्भोदयो न शस्तो लग्नविधौ सर्वथैव सत्यमते।
यवनैर्वर्गोऽपि तथा चाणक्यो वदति नो वर्गम्।।45।।
मीनविलग्ने जातो धन्यः स्फुटनासिकोऽस्फुटाक्षश्च।
विज्ञानकाव्यबुद्धिर्मानादरलब्धकीर्तिश्च।।46।।
विवृतोष्ठरदः कुष्ठी विदारितास्यो वृषादिसंलुब्धः।
दाक्षिण्यप्रत्ययवान् मेषच्छागादिसम्पन्नः।।47।।
शौचाचारश्रुतिवाग्धृतिमान्(श्रुत) कन्याप्रजो विनीतश्च।
सौम्यमतिः सत्त्वयुतो गान्धर्वस्त्रीरतिज्ञश्च।।48।।
बहुशीलोदारमतिर्भ्रातृधनौमर्षणः सुबन्धुश्च।
बलवति राशावेतत्तदधिपतौ वा बलं(वक्षे) सर्वम्।।49।।
इति कल्याणवर्मविरचितायां सारावल्यां नष्ट जातकाध्याये लग्नगुणो नाम सप्तचरिंशोंऽध्यायः।।