शिखिजलसास्त्रज्वरजस्त्वामयतृट् क्षुत्कृतो भवेन्मृत्युः।
सूर्यादिभिर्निधनगैः परदेशे पथि स्वके चराद्यैश्च।।1।।
यो बलयुक्तो निधनं पश्यति तद्धातुकोपजो मृत्युः।
तत्संयुक्तभगात्रे बहुभिर्बलिभिर्बहुप्रकारः स्यात्(द्र.वृ.जा. 25।1)।।2।।
(द्र.वृ. जा. 25।2)सूर्याङ्कारकयोः खबन्धुगतयोः शैलग्रपातोद्भवो
मृत्युर्भूतनयेन्दुभुतनयैः कूपे खसप्ताम्बुगैः।
पापालोकितयोर्हिमोष्णकरयोः कन्यास्थयोर्बन्धतो
लग्ने सूर्यशशाङ्कयोस्तिमियुगे तोये (यदा)सदा (मज्जति)मज्जतः।।3।।
कर्किणि मन्दे मकरे चन्द्रे मृत्यु(दरोदर)र्जलोदरकृतः स्यात्।
(पापांशस्थे) पापान्तःस्थे चन्द्रे कुजभवने शस्त्रवह्निभवः।।4।।
कन्यायां पद्मिनीशत्रुः पापमध्यगतः (स्तदा)सदा।
रक्तोत्थशेषजं मृत्युं करोति ध्रुवमेव हि।।5।।
सौरर्क्षे शुभयोर्मध्ये (रज्ज्वग्न्युत्पातजं शशी)शशी रज्जवग्निपीजम्।
कुर्यान्मृत्युं न सन्देहश्चाणक्यवचनं तथा।।6।।
नवमसुतयोरशुभयोः पापग्रहदृष्टयोर्भवेन्मृत्युः।
द्रेक्काणैः पाशभुजगनिगडैश्छिद्रेऽथवा गप्त्याम्।।7।।
मीनोदये दिनकरे शशिनि सपापेऽस्तगे सिते मेषे।
स्त्रीहेतुकं हि मरणं स्वमन्दिरे स्याद्वदन्त्येके।।8।।
रुधिरे (सुते)सुखेऽथवार्के वियति यमे क्षोणचन्द्रयुक्तैः(युक्ते)।
पापेस्त्रिकोणलग्ने शूलप्रोतस्य निर्दिशेन्मरणम्।।9।।
हिबुकेऽर्के वियति कुजे क्षीणेन्दुयुतेऽर्कजेन संदृष्टे।
काष्ठेनाभिहतः सन्भ्रियते जातो न सन्देहः।।10।।
क्षीणेन्दुभौमरविन्दनसूर्ययुक्तैः छिन्द्रास्पदोदयसुखैर्लगुडाहतस्य।
मुत्युर्वियन्नवमलग्नसुतस्थितैस्तैर्धूमाग्निबन्धनशरीरनिकुट्टनैः स्यात्।।11।।
हिबुकास्तकर्मसहितैः कुजभानुशनैश्चरैर्भवति मृत्युः।
(सायुध)आयुधहुतभुग्भूपतिकोपप्रभवः सदा पुंसाम्।।12।।
कर्माम्बुवित्तसंस्थेः कुजेन्दुमन्दैः क्षतः क्रिमिकृतोऽन्तः।
(द्र.वृ.जा. 15।7)खस्थेऽर्केन्दुकुजे वा सुराप्रपान(प्रपात)प्रतापकृतः।।13।।
सप्तभवने भौमे क्षीणेन्दुदिवाकरार्किभिर्लग्ने।
मरणं जातस्य वदेद्यन्त्रोत्पीडनभवमवश्यम्।।14।।
तुलायां रुधिरे याते कुजर्क्षे भास्करे स्थिते।
चन्द्रे मन्दगृहं प्राप्ते विण्मध्ये मरणं भवेत्।।15।।
गलितेन्द्वर्कभूपुत्रैर्गतै(व्योमष्टनवबबन्युषु, व्योमाष्टमन्धुयु)र्व्योमास्तबन्धुषु।
विण्मध्ये तु भवेन्मृत्युः सिद्धसेनः प्रभाषते।।16।।
बलिना कुजेन दृष्टे क्षीणेन्दौ रन्ध्रगेऽर्कजे मृत्युः।
गुल्ममहावेदनया कृमिदाहायुधकृतो भवति।।17।।
रवौ सरुधिरे द्यूने निधने रविसंभवे।
रसातलस्थे हिमगौ मृत्युः पक्षिकृतो भवेत्।।18।।
लग्नच्छि(मित्र)द्रत्रिकोणेषु रव्यारार्किनिशाकरैः।
मृत्युः स्याच्छैलपातेन (वक्र)शस्त्रकुड्यादिपातजः।।19।।
उदयनवांशाधिपतेः समानभूतौ वदन्ति यवनेन्द्राः।
ग्रहयोगेक्षणकाद्यैः परिकल्प्यं चान्यदपि तज्ज्ञैः।।20।।
उदितांशसमो मोहः स्वेशेन(शेषेण) निरीक्षते द्विगुणितः स्यात्।
त्रिगुणः शुभैश्च दृष्टे समस्तमुनयो व्यवस्यन्ति।।21।।
उदयाद्द्वाविंशातिमद्रेक्काणो भवति कारणं मृत्योः।
(अधिपोद्भवो)तस्याधिपतिभवो वा निर्याणं सूचयेत्स्वगुणैः।।22।।
(हो. र. 7 अ. 189 पृ.)मेषाद्ये द्रेक्काणे क्रूरगहवीक्षिते च संयुक्ते।
अम्ब्वहिविषपित्तकृतं मरणं नृणां समादेश्यम्।।23।।
विद्याद्द्वितीयभागे मरणं जल जलकृमिहिमारण्यैः।
एवं तृतीयभागे तटाककूपप्रपाताद्वा।।24।।
करभाश्वखरोष्ट्रेभ्यो मृत्युर्ज्ञेयो वृषस्याद्ये।
पित्ताग्निवातचोराद्द्वितीयभागे वृषस्यैव।।25।।
विद्यात्तृतीयभागे यानासनवाजिपातकृतम्।
पुंसां भवति हि मरणं रणशिरसि महास्त्रकृतमेव।।26।।
आद्ये मिथुनत्र्यंशे कासश्वासोद्भवो भवति।
(मृत्युर्विषवृकमहिषा)मृत्युर्महिषविषाद्याद्द्वितीयभागे च संनिपादाद्वा।।27।।
वनवासितचतुश्चरणात्पर्वतप(नागाद्गणा)तनाद्गजात्तथा(रण्यैः)रण्यात्।
भवति हि मृत्युः (मन्त्यै)पुंसामन्ते भागे तु जुतुमस्य।।28।।
ग्राहेण मद्यपानात्कण्टदोषेण वा तथा स्वप्नात्।
भवति हि कर्कटकाद्येमृत्युर्नृणां तृतीयभागे तु।।29।।
अभि(अभिशापा)घाताद्विषपानान्मध्ये त्र्यंशे भयं समादिष्टम्।
(प्लीह)विहगप्रमेहगुल्मा(ल्मस्त्रंसनदोषेण च तथान्त्ये)सृक्तन्द्रीदोषेण च तथान्त्ये।।30।।
सलिलविषपादरोगात्सिंहाद्ये त्र्यंशके भवेत्पुंसाम्।
मध्ये तृतीयभागे जलामयकृतो वनोद्देशे।।31।।
विषशस्त्रयोगदोषैरभिशापाद्वा तथा च पाताद्वा।
अन्त्ये सिंहत्र्यंशे भवति ही मृत्युर्न सन्देहः।।32।।
आद्ये कन्यात्र्यंशे मस्तकरोगात्तथानि (श्वसन)लान्मृत्युः।
व्यालगिरिदुर्ग( न्मृत्यु:)वनजो मध्ये भूपात्मजादथवा।।33।।
करभखरशस्त्रतोयादतिखातात्स्त्रीकृतान्नपानाद्वा।
अन्त्ये कन्यात्र्यंशे नॄणां मृत्युः तदा इष्टः।।34।।
आद्ये वणिक्त्रिभागे युवति(चतुष्पदनिपान)चतुष्पान्निपातदोषेण।
मध्ये तु जठररोगैरन्त्ये व्यालाम्बुजातेभ्यः।।35।।
आद्येऽलिनस्त्रिभागे विषशस्त्रस्त्री(रसा) कृतान्नपानभवः।
मध्ये तु वस्त्रभारस्रंसनरोगैर्भवति मृत्युः।।36।।
अन्त्ये तृतीयभागे लोष्टकपाषाण(घातेन)जनितवेदनया।
भवति हि मरणं ह्यथवा नॄणां जङ्घास्थिभङ्गकृतम्।।37।।
चापस्याद्ये त्र्यंशे गुदानिलसमुद्भवैर्विविधरोगैः।
मध्ये विषगुरुदोषैनिलकृतैर्वा भवेन्मृत्युः।।38।।
अन्त्ये तृतीयभागे जलमध्ये तत्समुत्थितैर्वाऽपि।
मृत्युर्नॄणां दृष्टो जठरामयदोषसंभूतः।।39।।
मकराद्ये द्रेक्काणे नृपहिंसाव्याघ्रकारणान्मृत्युः।
ऊरुविनाशादथवा जलचरसत्त्वाद्विषैकशफसर्पात्।।40।।
दहनास्त्रतस्करेभ्यो ज्वरादमानुषविभेदनान्मध्ये।
अन्त्ये मकरस्त्र्यंशे स्त्रीणां मृत्युः सदा इष्टः।।41।।
कुम्भे प्रथमत्र्यंशे स्त्रीभ्यस्तोयैस्तथा जठररागैः।
ज्ञेयो मृत्युर्नॄणां पर्वतहरनाद्विषादेर्वा।।42।।
मध्ये स्त्रीकृतदुःखैर्गुह्यजरोगैर्भवति मृत्युः।
अन्त्ये मिथुनचतुष्पदमुखरोहकृतैर्भवेत्पुंसाम्।।43।।
अंशे मीनयुगाद्ये गुल्मग्रहणीप्रेहयुवतीभ्यः।
जङ्घाजठरज(लजै)रोगैर्गजग्रहकृतैः समादिशेन्मृत्युम्।।44।।
नौभेदाज्जलमध्ये झषे दृगाणद्वितीयजातानाम्।
अन्त्ये भवति हि मरणं कुत्सितरोगैर्न सन्देह:(इस अध्याय में उक्त तुलनीय है जा. भ. नि. अध्याय)।।45।।
इति कल्याणवर्मविरचितायां सारावल्यां निर्याणफलं नाम षट्चत्वारिंशोऽध्यायः।।