अत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः।
मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते।।1।।
तेजस्विनं कुतनयो दुष्प्रसहं गर्हितं प्रवासरतम्।
मेधाविनं कुलाढ्यं सुनिपुणवाक्यं बुधः स्वोच्चे।।2।।
विख्यातं गुरुराढ्यं विद्वांसं(विद्वांसं भूपत्कृतं प्रसवे।) सत्कृतं कुशलम्।
स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम्।।3।।
स्वोच्चे रवितनयो नृपलब्धनियोगमभिजनयेत्।
ग्रामपुराधिपतित्वमरण्यकधान्यं कुनारिलाभं च।।4।।
(हो.र. 4 अ. 594 पृ.)भानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम्।
भोक्तारं (धनवन्तं)गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम्।।5।।
वक्रोऽपि तस्करपतिं शूरं खलु निर्दयं चापि।
सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते।।6।।
जीवः पुनर्हितकरं महत्तरं नयविदं सुखोगेतम्।
दानवपूज्यो जनयेद्ग्रामपुरवरिष्ठमाढ्यमतिसुभगम्।।7।।
आत्मत्रिकोण आर्किर्धनतृप्तं कुलयुतं शूरम्।
तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चार्माणम्।।8।।
धर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मार्क्षे।
आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम्।।9।।
शशितनयोऽपि विधत्ते वल्गकथं पण्डितं वाऽपि।
काव्यश्रुतिज्ञाढ्यं गुरुचेष्टं(शुभचेष्टं) वाक्यपतिः स्वराशिस्थः।।10।।
दावनपूज्यः कुरुते कृषीबलं स्फीतवित्तं च।
कुरुते शनैश्चरोऽपि मान्यदुःखं स्वराशिगः पुरुषम्।।11।।
मित्रगृहेऽर्कः ख्यातं स्थिरसौहृदमर्थदातारम्।
मित्रर्क्षगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम्।।12।।
अङ्गारकोऽपि कुरुते सुहृद्धनारक्षणासक्तम्।
शशिजः सुहृद्गृहगतः करोति चातुर्यहास्यधनवन्तम्।।13।।
वचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम्।
मित्रगृहे भृगुतनयः सुहृत्प्रियं (दयितमिह सूतम्)दयितवित्तमतिशूरम्।।14।।
भास्करसूनुः कुरुते परान्नभोजिनमर्धकर्मरतम्।
नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च।।15।।
हिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके।
नीचस्थः क्षितितनयोऽनर्थव्यसनोपतप्तमतिनीचम्।।16।।
कुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धु(बद्धवैरं च)वैरं च।
नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम्।।17।।
असुरदयितोऽस्वतन्त्रं प्रणष्टदारं विषमशीलम्।
कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च।।18।।
कुरुते शत्रुगृहेऽर्को निःस्वं विषयप्रपीडितं चापि।
तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततं।।19।।
(बन्ध्वरिभङ्गैः भौमो विकलं वा दुर्भगं लोके)बन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः।
(आज्ञामात्र)अज्ञानमतिविहीनं बुधोऽरिभे नैकदुःखमतिदीनम्।।20।।
क्लीबं गुरुर्विधत्ते (बधिरनरं)नयहीनं धनविहीनं च।
शुक्रोऽरिगृरे भृतकं कुतन्त्रमतिदुःखितं जनयेत्।।21।।
भास्करसुतोऽपि कुरुते मलिनं व्याध्यांदशोकसन्तप्तम्।
स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु।
नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु।।22।।
द्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं तदा पुरुषम्।
नगरारक्षकलाढ्यं चमूपतिं च त्रयः प्रथितम्।।23।।
(आढ्यो) आढ्यं नृपात्तकीर्ति चत्वारो राजधर्मसंयुक्तम्।
ख्यातं नृपती(समं)ष्टतमं पञ्चचानेकविधबृद्धकोशं च।।24।।
षड्ग्रहाः स्वोच्चगाः कुर्युर्नृपतिं पुरुषं सदा।
प्रदानमा(गुण)नसम्पन्न बहुवाहनमण्डितम्।।25।।
स्वोच्चं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम्।
जनयन्ति चक्रवर्तिनमवनीशं जातकं चिन्त्यम्।।26।।
द्वाभ्यां त्रिकोणसंस्थाभ्यां कुटुम्बी कुलवर्धनः।
श्रेष्ठः प्रख्यातमकीर्तिश्च ग्रहाभ्यां भुवि जायते।।27।।
महाधनस्त्रिभिश्चैव गणग्रामादिनायकः।
आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसम्मतः।।28।।
आरक्षकः प्रधानः सेनापुरनगरभूपकोशानाम्।
पञ्चग्रहैस्त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः।।29।।
विद्यादानधनौधैः समन्वितो भवति षड्भिरेव पुमान्।
राज्यं प्रशास्ति नियतं गोपालकुलेऽपि संजातः।।30।।
स्वत्रिकोणगतैः सर्वैर्भज्जातौ महीपतिः।
वसुस्त्रीबलसम्पन्नौ विद्याशास्त्रविशारदः।।31।।
द्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजितं धन्यम्।
वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः।।32।।
ख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपं च चत्वारः।
पञ्चावनीश्वरसमं प्रभूतगोभूमियुवतिसम्पन्नम्।।33।।
षड्भिः प्रवृद्धशब्दो द्युदिकोशस्वजनवाजिमानाढ्यः।
भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे।।34।।
राजाधिनृपः स्वर्क्षे जनयन्ति जितारिपक्षमिह सप्त।
मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः।।35।।
बान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेद्गुणैः ख्यातः।
ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः।।36।।
राजोपसेवकः स्यातपञ्चभि (राढ्यं)राढ्यो नरेश्वरः कर्ता।
विस्तीर्णभोगवाहनवतुमान्षड्भिर्नरेन्द्रतुल्यः स्यात्।।37।।
सर्वैर्मित्रर्क्षगतैर्बहुवाहनभृत्यसाधनो राजा।
द्वाभ्यां नीचे नीचश्चिन्ताबह्वाग्रहमेतः।।38।।
मूर्खो(धर्माभिरतः)ऽधर्मरतोऽस्वस्त्रिर्ग्रहैरध्व(र्नीचगैरध्वगः)गो नरः प्रेष्यः।
आलस्यनष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः।।39।।
(अमृतः)अगृहः प्रभिन्नदारः पञ्चभिरिह कथ्यते नरो दासः।
(खास)घातभयश्रमतप्तः षड्भिर्नीचो भवेत्क्षामः।।40।।
भिक्षुस्त्यक्ताशितभुग्भवति पुमान् विगतसर्वस्वः।
नीचैः सप्तभिरखिलैर्दिक्चिरधृताम्बरः सूतः।।41।।
द्वावरिभूवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम्।
अतिपरिभूतानामपि नृणां जन्मप्रदौ कथितौ।।42।।
विविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननेष्टवित्तानाम्।
चत्वार इष्टयोषित्पुत्रार्थविनाशजाधितप्तानाम्(रोग)।।43।।
पञ्चारिगृहे विहगा इष्टव्यसनाभिघाततप्तानाम्।
षड्रोगाङ्कितवपुषां(रोगपीडतानां) दुःखवतां चैव जन्मकराः।।44।।
सप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम्।
(अल्पा)शय्याच्छादनभोजन(वाञ्छि)वञ्चितकानां भवन्ति सदा।।45।।
इति कल्याणवर्मविरचितायां सारावल्यां उच्चादिचिन्तनं नाम चतुश्चत्वारिंशोऽध्यायः।।