।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

त्रिचत्वारिंशोऽध्यायः

प्रवेशे बलवान्खेटः शुभैर्वा(र्वा सं) सुनिरीक्षितः।

सौम्याधिमित्रर्गस्थो मृत्यवे न भदेत्तदा।।1।।

मूलं दशाधिनाथस्य विलस्य दशा यदा।

बलिनः स्यात्तदा भङ्गो दशारिष्टस्य तद्ध्रुवम्।।2।।

युद्धे च विजयी तस्मिन्ग्रहयोगे शुभे(शुभो) यदि।

दशायां न भवेत्कष्टं स्वोच्चदिषु य संस्थितः।।3।।

इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टभङ्गो नाम त्रिचत्वारिंशोऽध्यायः।।