क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशां यदा कुरुते।
पुंसः(पुंसां) स्यात्सन्देहस्तदाऽरियोगः सदैव महान्।।1।।
क्षितितनयस्य दशायां रविजरयान्तर्दशा यदा विशति।
बहुकालजीविनामपि मरणं निःसंशयं कुरुते।।2।।
क्रूरराशौ स्थितः पापः षष्ठे स्यान्निधनेऽपि वा।
तत्स्थितेनारिणा दृष्टः स्वपाके मृत्युदो ग्रहः।।3।।
विलग्नाधिपतेः शत्रुर्लग्नस्यान्तर्दशां गतः।
करोत्यकस्मान्मरणं सत्याचार्यः(चार्यप्रभाषिते) प्रभाषते।।4।।
इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टफलं नाम द्विचत्वारिंशोऽध्यायः।।