(द्र.वृ.पा. 51।13.14 तथा बृ.जा.8।3)अर्धमेकस्थितो भागं त्रिभागं सुतधर्मयो:।
सप्तमे सप्तमं भागं चतुर्थं चतुरश्रयो:(चतुरश्रये)।।1।।
मूलं दशाधिनाथस्य कृत्वांशं स्वगुणैर्ग्रह:।
करोत्यन्तर्दशां सत्यां बली हरति भागश:(भगभ)।।2।।
शुभस्य शुभद: पूर्ण: क्रूरस्याशुभदो भवेत्।
केन्द्रादिविधिना चान्ये केचित्पाकक्रमेण तु।।3।।
सत्योक्तं तूच्यते कश्चिद्ददाति बलवान्ग्रह:।
नित्यं पाकक्रमात्कार्य: शेषास्तु परिपाकदा:।।4।।
भागा: सदृशा: सहिता दशाब्दपिण्डस्य भागहारोऽयम्।
प्रत्यंशताडित: स्यात्पृथक्त्वन्तर्दशा:(चान्तर) स्यु:।।5।।
एकर्क्षसंस्थितदशा प्रदिशति बन्धं स्वनाशं वा।
जनयति कण्टकसहिता त्रिकोणसंस्थस्य सुखमतुलम्।।6।।
एकद्वित्रिचतुर्था नक्षत्रे रिपुदशा ग्रहाणां स्यात्।
व्याधिक्लेशविवादान्नृपतेश्च भयं यदा(तथा) जनयेत्।।7।।
दारमरणं च जनयति सप्तमगान्तर्दशा प्रणाशं वा।
शत्रोर्दासीकरणं परपुरुषेणोपभोग वा।।8।।
अन्तर्दशा ग्रहाणामष्टामधाम्नि प्रतापयेत्पुरुषम्।
कुरुते च धनविनाशं शत्रुगता बन्धनं च विध्वंसम्।।9।।
अन्तर्दशा यदा (स्यात्) द्वित्रिचतुर्णामेकराशिसंस्थानाम्।
बन्धनविनाशदै(दैन्ये)न्यं विदधात्यशुभग्रहाणां तु।।10।।
चतुर्थस्थानसंस्थस्य ग्रहस्यान्तर्दशा भवेत्।
मित्रारोग्यकरी(करं) नित्यं सौख्यमानविवर्धनम्(वर्धनीम्)।।11।।
शमयति रिपुप्रतापं नरोगत्वं करोति धनलाभम्।
भानुदशायां चन्द्र: प्रविशंस्तन्नास्ति यन्न शुभम्।।12।।
विद्रुमसुवर्णमणय: सङ्ग्रामजय: प्रचण्डता पुंस:।
असृजो दशाप्रवेशे सूर्यदशायां भवति सौख्यम्।।13।।
दद्रूविचर्चिकाद्यै: (पाम्ना)पापै: कुष्ठैश्च गर्हितशरीर:।
तरणिदशायां प्रविशति बुधो यदा स्यादरेर्वृद्धि:।।14।।
व्याधिभिररिभिर्व्यसनै: पापैच विमुच्यते तथाऽलक्ष्म्या।
अनुयति धर्मपदवीं जीवस्यान्तर्दश यदा भानो:।।15।।
शिरसो रुग्गलरोश्चित्रं(छिद्रं) सहसा ज्वर: शूलम्।
तपनदशायां शुक्रे देशत्यागो भवेदरिभि:।।16।।
आदित्यस्य दशायां शनैश्चरान्तर्दशा यदा भवति।
नृपपरिभूतो दीनो विपक्षसार्थेन हतशक्ति:।।17।।
क्षयरोगमयं शौर्यं नृपप्रभावां सदा विभवम्।
चन्द्रदशायां पुंसो भानु: कुरुतेऽर्थलाभं च।।18।।
पित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा।
चन्द्रदशायां च भयं (प्रमाणपणम्)प्रमोषणं चैव चौरैश्च।।19।।
चन्द्रशायां ज्ञदशाप्रवेशने चिह्नमुत्तमो लाभ:।
गजवाजिनां धनानां सम्प्राप्ति: सौख्यमतुलं च।।20।।
चन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम्।
यत्नोपात्तमकस्याद्वस्त्रालङ्कारविविधहस्त्यश्वम्।।21।।
तुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाऽऽस्फुजित:।
जलयानहारभूषणबहुपत्नीभि: समागमं कुरुते।।22।।
स्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम्।
चन्द्रदशायां सौरि: करोति नि:संशयं पुंसायम्।।23।।
चण्डं साहसनिरतं नरेन्द्रसग्रामपूजितं (धात्र्यम्)धन्यम्।
विविधधनागमयुक्तं भौमदशायां करोति रवि:।।24।।
विविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम्।
वक्रदशायां चन्द्र: करोति मुक्तामणिप्रभृतीन्।।25।।
दिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरै:।
दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा।।26।।
वक्रदशायां च गुरो: सुचरितकरणेन शुभधर्मा।
नृपतिर्विशुद्धचेता: पुण्यानि करोत्यनन्तानि।।27।।
रुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्तिः।
व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च।।28।।
व्यासनानि व्यसनानां भवन्त्यपर्युपरि जनविनाशश्च।
वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि।।29।।
इन्दुसुतस्य दशायां प्रविशति सूर्यो यदा तदा चिन्हम्।
कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच्च।।30।।
प्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्टं च।
क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम्।।31।।
मस्तकशूलनिरोधैर्नानाक्लेशैश्च युज्यते जन्तुः।
इन्दुसुतस्य दशायां भौमस्यान्तर्दशा यदा भवति।।32।।
रिपुरोगपापमुक्तः पुण्यानि करोति भूपतेर्मन्त्री।
जीवे चरति दशायां बुधस्य पुरुषो भवेन्नियतम्।।33।।
गुरुविबुधातिथिभक्तो वस्त्रालङ्करपुष्यगन्धरुचिः।
इन्दुसुतस्य दशायां शुक्रस्यान्तर्दशा यदा भवति।।34।।
खण्डसुखकामसेवी विलुप्तधर्मार्थभोगसुतवित्तः।
भवति नरोऽत्र दशायां बुधस्य मन्दो यदा चरति।।35।।
रिपुभयकलहै(विरोधैः)र्मुक्तः प्रयाति गुरुतां नरेन्द्रस्य।
विक्रमसाहससौख्यैर्जीवदशायां रवौ चरति।।36।।
पत्नीसहस्रभर्ता जितरोगरिपुः परोन्नतिं लभते।
प्रकटयति राजचिन्हं चन्द्रदशा गुरुदशायां हि।।37।।
तीक्ष्णः परोपतापी शूरो रणलब्धकीर्तिधनः।
सौख्यमनन्तं लभते जीवदशायां कुजे चरति।।38।।
वेश्यामद्यव्यसनैः परिभूतो (निर्धनो भवति)भवति निर्धनः सोऽपि।
सौम्ये जीवदशायां विलुप्तधर्मो भदेत्पुरुषः।।39।।
व्याधिविनाशं सौख्यं मित्रैः सह सङ्गतिं तथा पूजाम्।
मातापित्रोर्भक्तिं जीवदशायां (बुधे)बुधो लभते।।40।।
रिपुभयविनाशदुःखैरभिभूतो ब्राह्मणोपजीवी च।
जीवदशायां शुक्रे प्रविशति नित्यं भवेत्पुरुषः।।41।।
वेश्यामद्यद्युतैरभिभूतो महिषखरयुक्तः।
सौरे जीवदशायां विलुप्तधर्मो भवेत्पुरुषः।।42।।
गण्डोदराक्षिरोगैः क्षितिपतितो मन्धनादिभिस्तप्तः।
शुक्रदशायां सूर्ये विचरित नूनं भवेत्पुरुषः।।43।।
अन्तर्दशां दशायां सितस्य शशिनो यदा भवति चिह्नम्।
नखदशनशिरोरोगैः सह भवति च कामिलरोगः।।44।।
पित्तासृक्कृतरोगो भूलाभः संश्रयो नृपतितश्च।
शुक्रदशायां भौमे मन्दोत्साहः पुमान्भवति।।45।।
शुक्रदशायां पुंसां बुधस्य चान्तर्दशा यदा भवति।
युवतिकृतं धनलाभं सौख्यं च मनोरथं(मनोरमं) लभते।।46।।
अन्तर्दशां दशायां भृगोर्गुरोर्धर्मशीलसम्पत्तिम्।
विदधाति विषयराज्यं पुंसां धनरत्नमतिसौख्याम्।।47।।
वृद्धस्त्रीभिः क्रीडां पुरनगरगणधिपत्यमरिनाशम्।
शुक्रदशायां सौरिः करोति बहुमित्रसंयोगम्।।48।।
धनपुत्रदारनाशं भयमतुलं संदधाति पुरुषस्य।
रविपुत्रस्य दशायां सूर्यस्यान्तर्दशा न सन्देहः।।49।।
स्त्रीमरणं हरणं वा बन्धुवियोगं पुनः पुनः कलहम्।
अन्तर्दशां दशायां शनेः शशाङ्कस्य विदधाति।।50।।
देशभ्रंशं व्याधिं दुःखानि करोत्यनेकरूपाणि।
अन्तर्दशा दशायां रविजस्य महीसुतस्य यदा।।51।।
सौभाग्यसौख्यविजयप्रमोदसत्कारमानधनलाभम्।
सौरिदशायां सौम्यो विदधात्यन्तर्दशाप्राप्तः।।52।।
अनुयाति शिष्टपदवीं ग्रामादिकलत्रसौख्यसम्पन्नः(संपत्तिम्)।
रवितनयस्य दशायां प्रविशति जीवे सदा पुरुषः।।53।।
वर्धयति मित्रपक्षं भिनत्ति शोकान्यशः प्रकाशयति।
सौरिदसायां शुक्रः पत्नीधनविजयलाभकरः।।54।।
नीचोच्चातिविभेदेन शत्रुमित्रबलाबलम्।
अन्तर्दशासु मतिमांश्चिन्तयेच्च प्रयत्नतः।।55।।
अन्तर्दशासु शुभायां मूलदशायां शुभा यदा भवति।
भवति तदा बहुसौख्यं धनलब्धिरतीव पुरुषाणाम्।।56।।
रविकिरणमुषितदीप्तेर्दशाग्रहस्य मलिनां तनुं कृत्वा।
मानयशोर्थविलासप्रतापरूपोद्यमान्हन्ति।।57।।
होराजन्माधिपयोः(धिपते) शत्रुदशायां नरोऽतिमूढमतिः(विमूढ)।
राज्याच्च्युतो विपक्षैरभिभूतोऽन्यं समाश्रयति।।58।।
व्योमलग्नप्रपन्नस्य दसायां राज्यामाप्नुयात्।
नरेन्द्राणां समायोगे सुवीर्यस्याथवा पुनः।।59।।
लग्ने जीवः सितबुधयुतः सप्तमस्थोर्कंपुत्र:
कर्मप्राप्तो दहनकिरणो भोगिनां जन्म कुर्युः।
केन्द्रे सौम्या न शुभगृहगा यत्र पापाभिधाना
यद्येवं स्याच्छवरनृपतिर्जायते वित्तवांश्च(द्र.वृ. जा. 11।30 तथा इसकी भट्टोत्पली टीका में गार्गि का वचन।)।।60।।
इति कल्याणवर्मविरचितायां सारावल्यां अन्तदर्शाफलो नामैकचत्वारिंशोऽध्यायः।।