आयुषो येन यद्दत्तं सा दशा तस्य कीर्तिता।
स्वदोषगुणयोगेन स्वदशासु फलप्रदाः(साम्ये न तद्दृशाः)।।1।।
दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः।
मणित्थस्त्वाह तज्ज्ञानं फलसाम्यं(साम्ये न तद्दशाः) न सा दशा।।2।।
लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः।
तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते।।3।।
होरादिनेशशशिनां प्रबलो भवेद्यस्तत्कण्टकादिषु गताः कथिता दशेशाः।
पूर्वा दशाऽतिबलिनः सदृशेऽब्दवृद्धेः साम्ये भवेच्च शरदां प्रथमादितस्य।।4।।
लग्नार्कशीतरश्मीनां यदि (पूर्णबलो)पूर्णबलं भवेत्।
तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा।।5।।
स्वोच्चस्वराशिनिजभागसुहृद्गृहस्थाः सम्पूर्णवीर्यरुचिरा बलिनः स्वकाले।
मित्रोच्चभागसहिताः शुभदृष्टियुक्ताः श्रेष्ठा दशां विदधति स्ववयःसु खेटाः।।6।।
नीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः।
विवर्णाः पापसंबन्धा दशां कुर्युरशोभनाम्।।7।।
तुङ्गाच्च्युतस्य हि दशा सुहृदुच्चांशेऽवरोहिणी मध्या।
नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा(द्र.वृ.जा.8।6 तता इसकी भट्टोत्पलौ टीका)।।8।।
सविता दशाफलानां पायचिता चन्द्रमाः प्रपोषयिता।
राशिविशेषेन्दोरतः फलोक्तिर्दशारम्भे।।9।।
मूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे।
पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः।।10।।
सौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे।
कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम्।।11।।
विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ।
शौक्रेऽन्नपानमतुलं सौख्यं (चन्द्रेविनाशं)चन्द्रेऽरिनाशं च।।12।।
सुखधनमानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः।
परिणतवयसमरूपां सौरगृहे (वञ्चकीं)वर्धकीं वाऽपि।।13।।
दुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम्।
सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादमरतिं च।।14।।
बन्ध्वर्यक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम्।
दृष्टे तद्योनितमैः शेषैश्चन्द्रे दशाफलैर्योगः।।15।।
पाकस्वामिनि लग्ने सुहृदां वर्गेऽथवाऽपि सौम्यानाम्।
श्रेष्ठदशायां सू(स्फूर्तिः)तिर्लग्नादुपचय(गृहस्थो गृहस्थे)गृहस्थैर्वा।।16।।
मित्रोच्चोपचयस्थाने त्रिकोणे सप्तमे तथा।
पाकेश्वरात्स्थितश्चन्द्रः कुरुते (सुफलां) स्वफलां दशाम्।।17।।
(विपरीतश्चन्द्रे)विपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते।
स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता।।18।।
शत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च।
दशा मिश्रफला रिक्ता विबलस्य दशा मता।।19।।
(द्रेक्काणैश्च, द्रेक्काणस्य)द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमाः।।
चरे (मिश्रे)मिश्रप्रतीपा च स्थिरे पापेष्टमध्यमाः।।20।।
चन्द्रावनेयसोमजसितजीवदिनाकरार्किहोराणाम्।
क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव।।21।।
स्वोच्चस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा।
(अनुपम)उत्तमशुभफलदासौ(स्यात्) ग्रहस्य नित्यं दशा भवति।।22।।
स्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा।
स्वोच्चाभिलषिणश्चैव मित्रराश्यादिसंस्थिते।।23।।
शुभाधमदशा ज्ञेया विपरीतमतस्थिते।
अनेनैव विधानेन विज्ञेया पापदा दशा।।24।।
भानुदशायां लभते (पौरुषमेधाध्वदिषयकालीनैरर्थान् दौस्थयनैरर्थ्यात्)नवौषधादध्वविषदौर्जनैरर्थ्यान्।
गिरिदन्तचर्मवाह्निक्रौर्यनरेन्द्राहवाद्यैश्च।।25।।
नृपतेरर्थावाप्तिं धैर्यं भूयस्तथोद्यमं(द्वैरंभूयो) तैक्ष्ण्यम्।
ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च।।26।।
भृत्यार्थचोरचक्षुःशत्त्राग्न्युदकक्षितपश्वराद्बाधाः।
सुतपत्नीबन्धुजनैर्निपीडितः स्याच्च पापरतिः।।27।।
क्षुत्तृष्णार्तिः शोको हृत्पीडा पैत्तिकास्तथा रोगाः।
गात्रच्छेदो भवति हि सूर्यदशायामनिष्टायाम्।।28।।
चन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात्।
जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा।।29।।
द्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च।
अर्थविनाशमकस्मात्सुसंपदास्त्विष्टनां लभते।।30।।
तैक्ष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च।
मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम्।।31।।
कुरुते भयं कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम्।
निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा।।32।।
भौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमदः।
व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम्।।33।।
क्षित्याजाविक(तान्त्रिकस्वर्णावश्या)ताम्रकसुवर्णपण्यादिभिस्तथा द्यूतैः।
आसवकषायकटुकै रसैश्च धनधान्यभाग्यभवति।।34।।
मित्रकलत्रविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च।
मूर्च्छा शौणितदोषः शाखाच्छेदो व्रणश्चापि।।35।।
परदाररतिर्द्वेष्यो गुरुसत्यानामधर्मनिरतश्च।
पित्तकृतैरपि दोषैरभि(ताक्षी)भूतो मानवो भवति।।36।।
सौम्यदशायां (प्राप्ते)पुत्रान् मित्रादाढ्याद्धनस्य सम्प्राप्ति:।
दीक्षितनृपर्जतेर्द्यूताद्वणिग्जनाच्चापि सम्भवति।।37।।
वेसरमहीसुवर्णं शुक्तिद्रव्यं यशः प्रशंसा च।
दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः।।38।।
धर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति।
गणितालेख्यलिपीनां कौतुकभागी सदा पुरुषः।।39।।
पीडां धातुत्रितयात्पारुष्यं बन्धनं तथोद्वेगम्।
मानसशोकं वाऽपि बुधस्य कष्टा दशा कुरुते।।40।।
त्रिदशपतिगुरुदशायां मन्त्री नृपनृत्यनीतिभिर्वित्तम्।
मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च।।41।।
कान्तासुवर्णवेसरगजादिभोगी सदा पुरुषः।
माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च।।42।।
लाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम्।
जनताया नृपदक्त्रात्पण्याग्राद्गुरुजनाच्च धनलाभः।।43।।
व्यजनातपत्रसुमनोवस्त्रमनोवस्त्रध्वजपेयभ(विशेषतः क्षीणः)क्षणादीनाम्
गात्रश्वथपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च।
पुंस्त्वविनाशं मेद:क्षयं नृपतितां भयं समाप्नोति।।44।।
शुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम्।
माल्याछादनभोजनयशःप्रमोदो निधिप्राप्तिः।।45।।
गेयरतिः स्त्रीसङ्गो नृपतेःकृषितो धनस्य सम्प्राप्तिः।
ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम्।।46।।
कुलगुणवृद्धैर्वादो यानासनसंभवानि पापानि।
स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सह प्रीतिः।।47।।
सौरर्दशां प्रपन्न: प्राप्नोति पुमान्खरोष्ट्रमहिषाद्यान्।
कुलटां जरदङ्गीं वा कुलित्थतिलकोद्रवादींश्च।।48।।
वृन्दाग्रामपुराणामधिकारभवं च(चमत्कारं) सत्कारम्।
लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव।।49।।
वाहननाशोद्वेगस्वत्वरित: स्त्रीस्वजनविप्रयोश्च।
युद्धेष्वपजयदोशो मद्यद्यूतोद्भवो मरुत्कोष:।।50।।
पुण्येष्वसिद्धिकलहं(सिद्ध) बन्धनतन्द्राश्रम तथा व्यङ्गम्।
भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरे:।।51।।
सौम्यपापफलं प्रोक्तं सामान्यं स्वदशास्विदम्।
विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदत:।।52।।
स्वोच्चनीचत्रिकोणर्क्षं केन्द्रं शत्रुगृहं तथा।
पञ्चप्रकारसंयुक्तां दशा भानो: प्रकीर्तिता:।।53।।
राज्यं ददाति विपुलं दशा रवेर्लग्नसंस्थितस्य नॄणाम्।
केन्द्रस्थितस्य दद्यात्कटिगलनेत्रप्रकोपमरिगस्य।।54।।
नीचस्य दशा भानोरक्ष्योर्नाशं ज्वरं शिरोरोगम्।
बन्धनमान्याश्च रुज: कुष्ठामयदर्शनं चिह्नम्।।55।।
स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरणस्य।
तुरगातपत्रचामरकरीन्द्रसंवधितं सम्यक्।।56।।
सवितुर्दशा च पुंसो विदधाति पुरा(स्वरा) त्रिकोणसंस्थस्य।
उत्तमविषयपतित्यं विघ्वस्ताशेषदु:खस्य।।57।।
शत्रुगृहेर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम्।
ज्वालावक्तत्रजरोगा भवन्ति कृमय:(कुनय:) परिभवाश्च।।58।।
अष्टगतस्य भानोर्दशा क्षयं नयति सर्वगात्रं च।
भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम्।।59।।
सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन।
स्वोच्चसुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्णे च।।60।।
तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम्।
कथयति नलिनीशत्रोर्मित्रदशा स्वजनसम्प्राप्तिम्।।61।।
क्षीणेन्दुदशायोगे चिन्हान्येतानि लक्षयेद्विद्वान्।
उदरामयज्वशिरोनयनोत्कोप: प्रतिश्यायान्(प्रतिश्रयाच्चापि)।।62।।
बलिन: परिपूर्णस्य च शशिन: कुरुते सदा दशा पुंसाम्।
दयितासहस्रपरिवृतमन्त:पुरमुत्तमस्त्रीकम्।।63।।
भवति नरस्य भ्रंशो विषयस्यान्त:पुरस्य भृत्यानाम्।
अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूत:।।64।।
यन्त्रतृणकाष्ठमयवंशकरञ्जीफलोदकाजीवो।
भवति कदन्नकुचेली नृपोऽपि भृतकोऽरिगृहदशायाम्।।65।।
लग्नगृहगस्य हि दशा मण्डललाभं तथोच्चस्यापि।
केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम्।।66।।
षष्ठदशा(कष्ट दशा) व्यसनकरी मरणं च करोति निधनस्थदशा।
अस्तमितग्रहपाको बन्धनमात्रेण पीडयति।।67।।
वक्रोपगस्य हि दशा भ्रमयति च कुलाचक्रवत्पुरुषम्।
व्यसनानि(व्यसनानि) रिपुविरोधं करोति पापस्य न शुभस्य।।68।।
(तुच्छातितुच्छ)रिक्तातिरिक्तनिम्नातिनिम्नरिपुगृहदशासु।
पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुष:।।69।।
देशत्यागो व्याधिर्भ्रंशोत्थानं मुहुर्मुहु: कलह:।
बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम्।।70।।
महितकरिगलिमदजलसेकक्ष्मापीठवारितरजस्क:।
राजा कष्टसहायी रिक्तदशायां ध्रुवं भ्रमति।।71।।
अङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा।
कोणद्यूनारिदशा निधनारिदशा शिरच्छेदम्।।72।।
रिपुभयविदेशगमनं बन्धनारोगादिपीडनं भवति।
नीचस्थग्रहपाके राजाभिभवो ध्रुवं पुंसाम्।।73।।
चिन्ता स्वाप्नानुभवै: परिणमति फलं विहीनवीर्यस्य।
पञ्चमहापुरुषोक्ताध्यायांस्तांस्तान्नियोजयेदत्र।।74।।
आदौ दशासु फलद: शीर्षोदयराशिसंस्थितो विहग:।
उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीचर्क्षे।।75।।
इति कल्याणवर्मविरचितायां सारावल्यां मूलदशाफलं नाम चत्वारिंशोऽध्यायः।।