अस्मिन्नायुर्दाये यस्माद्भ्रान्त्रः समस्तलोकोऽयम्।
तस्मात्पूर्वागमतः कथयामि निराकुलीकृत्य।।1।।
(द्र.वृ.पा.43।31-32, जातकपद्धति श्लो. 25)अंशोद्भवं विलग्नात्पैण्ड्यं भानोर्निसर्गजं चन्द्रात्।
एतेषा यो बलवानेकतमस्तस्य कल्पयेदायुः।।2।।
लग्नदिवाकरचन्द्रास्त्रयोऽपि बलरिक्ततां यदा यान्ति।
परमायुषः स्वरांशं ददति खगा जीवशर्मोक्तम्।।3।।
विलग्नादिकला भाज्या व्योमशून्ययमैः समाः।
लभ्यन्तेऽर्क(हतात्, नताः)हताः शेषाः(शेषं) स्व(नाम)मानगुणि(ताःस्वकाः)तांशकाः(द्र.वृ.जा.7।10)।।4।।
(वृ.पा. 43।14-15, वृ.जा.7।12)होरा सर्वबलोपेता राशितुल्यानि यच्छति।
वर्षाण्यन्यानि मासादिभागैस्त्रैराशिकात्पुनः।।5।।
(द्र.वृ.पा. 43।21. वृ.जा.7।11)वर्गोत्तमे स्वभवने स्वद्रेष्काणे नवांशके।
द्विगुणं सम्प्रयच्छन्ति त्रिगुणं वक्रतुङ्गयोः।।6।।
यदा तूपचयः सर्वः स्वराश्यादिस्थि(स्थिते)तैर्ग्रहैः(ग्रहे)।
समस्तवर्गणा तत्र कर्तव्या शास्त्रचिन्तकैः।।7।।
केन्द्रादिसंस्थिते खेटे सकलद्विगुणैककाम्(गाम्, काः)।
शंसन्तिं वगणां केचिन्न(तच्च ननु, तत्तु) च चूडामणेर्मतम्।।8।।
बहुताड(वर्गण)नसम्प्रातौ यां करोत्येकवर्गणाम्।
वराहमिहिराचार्यः सा न दृष्टा पुरातनैः।।9।।
रिपुराशौ त्रिभागोनामर्धोनं निम्नगास्तगाः।
दायं ग्रहाः प्रयच्छन्ति नास्तगौ सितभानुजौ(द्र.वृ.पा.46।9 तथा वृ.जा. 7।2)।।10।।
सर्वमर्धं तृतीयांशश्चतुर्थः पञ्चमस्तथा।
षष्ठञ्चांशः क्षयं याति नांश बहुरिभेरकगैः।।11।।
सौम्ये चार्धमितो याति नाशं बहुभिरेकगैः।
एक एव बली हन्ति स्वायुषः सर्वदा ग्रहः(द्र.वृ.पा. 34।10-11 तथा वृ.जा. 7।3)।।12।।
एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः।
तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु।।13।।
गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः।
विंशति रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थितेः।।14।।
स्वोच्चशुद्धो(सिद्धो) ग्रहः शोध्यः षड्राश्यूनो भमण्डलात्।
स्वपिण्डगुणितो भक्तो (भादि)राशिमानेन वत्सराः।।15।।
पूर्वोक्तं चिन्त्ययेत्सर्वं वक्रं मुक्तत्वारिराशिषु।
क्षयस्तत्र प्रकर्तव्यो नीचेऽर्धं वृद्धिरुच्चगे।।16।।
लग्नदायोऽशतुल्यः स्यादन्तरे चानुपाततः।
तत्पतौ बलसंपन्ने राशितुल्यं स्वभाधिपे।।17।।
लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा।
भक्त्वा मण्डललिप्ताभिर्लब्धं (वर्षादि)वर्षाद्विशोधयेत्।।18।।
स्वायुषो लग्नगे क्रूरे लब्धस्यार्धं शुभेक्षिते।
एवमेव प्रकर्तव्यं जीवशर्मोक्तचन्द्रजे(द्र.वृ.पा. 43।12-13, वृ.जा.7।4।)।।19।।
विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत्।
वर्षाणामपि संख्याः सूर्यादीनां निसर्गभवाः(द्र.वृ.पा.43।16-17, के.जा.पृ. 24श्लो.)।।20।।
मीनोदयेंऽशे (परमे)नवमे पञ्चविंशतिलिप्तिके।
गवि सौम्यैः स्वतुङ्गस्थैः शेषैरायुः परं भवेत्।।21।।
कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ।
शेषैस्त्रिलाभषष्ठस्थैरमितायुर्भवेन्नरः(द्र.वृ.पा. 43।55 वृ.जा. 7।14)।।22।।
द्विघ्नाः षष्टिर्निशाः पञ्च परमं नरदन्तिनाम्।
द्वात्रिंशद्वाजिनामायुश्छागादीनां तु षोडश।।23।।
खरोष्ट्रयोः पञ्चवर्ग (एका) एकोऽपोह्यं वृषादिषु।
शुनां तु द्वादश प्रोक्तं गणितं परमायुषम्।
तत्तत्परं प्रमाणेन हत्वैषामायुरादिशेत्(द्र.वृ.पा. 43।26-28. वृ.जा. 7।5)।।24।।
पथ्याशिनां शीलवतां नराणां सद्वृत्तभाजां विजितेन्द्रियाणाम्।
एवं विधानामिदमायुरत्र (वृद्धिं समाप्नोति मुनिप्रवादः, नित्यं सदा वृद्धमुनिप्रवादः)नित्यं सदा वृद्धमुनिप्रणीतम्।।25।।
इति कल्याणवर्मविरचितायां सारावल्यां आयुर्दायो नामैकोनचत्वारिंशोऽध्यायः।।