उदितो भगवान् भानु: प्रकाशयन् स्वप्रकाशेन।।1।।
व्यसृजज्जगत्समस्तं ग्रहर्क्षसंघातकल्पितावगतम्(वयवम्)।
(ग्रहभवनाद्यैः, ग्रहदशभेदै)द्वादशभेदैश्चित्र: काल: संप्रस्तुतस्तस्मात्।।2।।
मेषवृषमिथुनकर्कटसिंहा: कन्या तुलाथ(तुलाऽलयश्चैव) वृश्चिकक:।
धन्वी मकर: कुम्भो मीनस्त्विति राशिनामानि(हो.र. 1 अ. 14 पृ.)।।3।।
(द्र. वृ. जा.)कुम्भ: कुम्भधरो नरोऽथ मिथुनं वीणागदाभृन्नरौ
मीनो मीनयुगं धनुश्च सधनु: पश्चाच्छरीरो हय:।
एणास्यो मकर: प्रदीपसहिता कन्या च नौसंस्थिता
शेषो राशिगण: स्वनामसदृशो धत्ते तुलाभृत्तुलाम्।।4।।
शीर्षास्यबाहुहृदयं जठरं कटिबस्तिमेहनोरुयुगम्।
(जानुक)जानू जंघे चरणौ कालस्याङ्गानि राशयोऽजाद्या:।।5।।
(हो.र. 1अ .16 पृ. लघुजातक 1।5)कालनरस्यावयवान्पुरुषाणां कल्पयेत्प्रसवकाले।
सदसद्ग्रहसंयोगात्पुष्टान्सोपद्रवांश्चापि।।6।।
(हो.र.1 अ. 27 पृ.)मेषादीनां क्रियतावुरुजुतुमकुलीरलेयपाथोना:(पाथेयाः)।
संज्ञास्तु जूककौर्पिकतौक्षाकोकेरहृदयरोगान्त्या:।।7।।
ऋक्षं भवननामानि राशि: क्षेत्रं भमेव वा।
उक्तानि पूर्वमुनिभिस्तुल्यार्थप्रतिपत्तये।।8।।
द्वादशमण्डलभगणं(भगणएः) तस्यार्धे सिंहतो रविर्नाथ:।
कर्कटकात्प्रतिलोमं शशी तथान्येऽपि तत्स्थानात्।।9।।
भानोरर्धे विहगै: शूरास्तेजस्विनश्च साहसिका:।
शशिनो मृदव: सौम्या: सौभाग्ययुता: प्रजायन्ते।।10।।
(हो.र. 1 अ. पृ. 31)कुजभृगुबुधेन्दुरविशशिसुतसितरुधिरार्यमन्दशनिजीवा:।
गृहपा नवभागानामजमृग(तुलकर्कटाश्चाद्याः) घटकर्कटाद्याश्च।।11।।
भवनाधिपै: समस्तं जातकविहितं विचिन्तयेन्मतिमान्।
एभिर्विना न शक्यं पदमपि गन्तुं महाशास्त्रे।।12।।
(द्र.वृ. जा. 1।14)वर्गोत्तमा नवांशास्तथादिमध्यान्तगाश्चराद्येषु।
सूतौ कुलमुख्यकारा द्वादशभागा: स्वरांश्याद्या:।।13।।
स्वर्क्षसुतनवमभेशा द्रेष्काणानां क्रमाच्च होराणाम्।
रविचन्द्राविन्दुरवी विषमसमेष्वर्धराशीनाम्।।14।।
(हो.र. 1 अ 35 पृ.)शरपञ्चाष्टमुनीन्द्रियभागास्त्रिंशांशकास्तु विषमेषु।
युग्मेषूत्क्रमगण्या: कुजार्किजीवज्ञशुक्राणाम्।।15।।
(हो. र. 1 अ. 39 पृ.)मेषालिमिथुनमृगहरिमीनतुलावृषभचापधरकर्की।
घटधरकन्यापूर्वा: सप्तांशानां भवन्तीशा:।।16।।
षष्टिर्होरात्रिंशच्चूडपदानां द्विसप्ततिसमेता।
लिप्तानामष्टादशशतानि परिवर्तनै: स्वगृहात्।।17।।
लग्नादीनां लिप्ता ज्ञेया: स्वगृहादिवर्गसंगुणिता:।
अष्टादशशतभक्ताल्लब्ध: स्यादीप्सितो वर्ग:।।18।।
एतेषां गुणदोषान् विस्तरतो नष्टजातक वक्ष्ये।
एभि: स्पष्टतरं तत्प्रत्यक्षपरीक्षणं यस्मात्।।19।।
अजादित: क्रूरशुभौ पुमांस्त्री चर: स्थिरो मिश्रतनुश्च दृष्टा:।
कुलीरमीनालिगृहान्तसन्धिं वदन्ति गण्डान्तमिति प्रसिद्धम्।।20।।
जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता।
यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूप:।।21।।
ऐन्द्रान्द्यं परिवर्तैस्त्रितयं त्रितयं त्रिभिस्तु मेषाद्यै:।
एभिर्दिक्षु निबद्धैर्यात्रादि विकल्पयेत्कार्ये(त्कार्यम्)।।22।।
नरपशुवृश्चिकजलजा यथाक्रमं प्राग्दिगादिगा बलिन:।
निशि दिवसे सन्ध्यायां पशव: पुरुषो मृगालिकर्किझषा:।।23।।
(द्र.बृ.जा. 1।10)नक्तंबला मिथुनकर्किमृगाजगोश्वाद्यु:श्रेष्ठका हरितुलालिघटान्त्यकन्या:।
पृष्ठोदया: समिथुना मिथुनं विहाय शेषा: शिरोभियदन्त्युभयेन मीन:।।24।।
(द्र.बृ. जा. 2।19)आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रियैर्वापि।
शशिसुतजीवाभ्यामपि राशिर्बलवान्न चेच्छेषैः।।25।।
तन्वर्थसहजबान्धवपुत्ररिस्त्रीविनाशपुण्यानि।
कर्मायव्ययभावा लग्नाद्या भावतश्चिन्त्याः।।26।।
(कल्पस्वविक्रम हो. र. 1 अ. पृ. 56)शक्तिधनपौरुषगृहप्रतिभाव्रणकामदेहविवराणि।
गुरुमानभवव्ययमिति कथितान्यपराणि नामानि।।27।।
संज्ञा वेश्माष्टमयोश्चतुरस्रं वै तपश्च नवमस्य।
होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम्।।28।।
नामानि चतुर्थस्य तु सुखजलपातालबन्धुहिबुकानि।
कर्माज्ञामेषूरणगगनाख्यं कीर्त्यते दशमम्।।29।।
धर्मसुतयोस्त्रिकोणं सुतस्य धीस्त्रिकोणमिति(मथ) तपस:।
द्यूनं जायास्तमयं जामित्रं सप्तमस्याख्या:।।30।।
षट्कोणं रिपुभवनं तृतीयमथ कीर्तयन्ति दुश्चिक्यम्।
रि:फं द्वादशभवनं (कुटुम्बसंज्ञं द्वितीयमथ परतः)द्वितीयसंज्ञं कुटुम्बं च।।31।।
केन्द्रात्परं पणफरमापोक्लिमसंज्ञितं तयोः परतः।
बालयुवस्थविरत्वे क्रमेण फलदा ग्रहास्तेषु।।32।।
षड्दशभवदुश्चिक्यान्युपचयसंज्ञानि कीर्त्यन्ते।
स्वतनुसुखसुतास्ततपश्छिद्रव्ययसंज्ञि(भवनानि)तानि चान्यानि।।33।।
सिंहवृषमेषकन्या: कार्मुकभृत्तौलिकुम्भधराः।
सूर्यादीनामेते त्रिकोणभवनानि कथ्यन्ते।।34।।
सूर्यादीनामुच्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः।
स्वोच्चगृहकथितभागा यथाक्रमेणैव परमोच्चाः।।35।।
दिग्वह्न्यष्टाविंशतितिथिबाणत्रिघनविंशतयः।
स्वोच्चात्सप्तमराशिर्नीचः स्यादंशकात्परमम्।।36।।
(हो.र.1अ. 44 पृ.)ह्रस्वास्तिमिगोजघटा मिथुनधनुःकर्किमृगमुखाश्च समाः।
वृश्चिककन्यामृगपतिवणिचो दीर्घाः समाख्याताः।।37।।
एभिर्लग्नाधिगतैः शीर्षप्रभृतीनि वै शरीराणि।
सदृशानि विजायन्ते युतगगनजरैश्च तुल्यानि।।38।।
(हो. र. 1 अ. 52 पृ.)भवनाधिपदिङ्नाम प्लव इति यवनैः प्रयत्नतः कथितः।
तत्पलवगो विनिहन्यादचिरेण महीपतिः शत्रून्।।39।।
(हो. र. 1 अ. 53 पृ.)लोहितसितशुकहरिताः पाटलपरिधूम्रपाण्डुचित्राश्च।
कृष्णकनकाभपिङ्गाः कर्बुरबभ्रुत्वजादिवर्णाः स्युः।।40।।
हन्ति हरेरिह शत्रूनिन्द्रध्वजिनीव देवरिपून्।।41।।
इति कल्याणवर्मविरचितायां सारावल्यां होराराशिभेदो नाम तृतीयोऽध्यायः