।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

अष्टत्रिंशोऽध्याय:

विस्तरतो निर्दिष्टा: क्षितिपतियोगा विचित्रसंस्थाना:।

भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि।।1।।

कुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे विलग्ने।

निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योग:।।2।।

अन्त्याष्टामादिभागे चरराश्यादिषु शशो यदा क्षीण:।

एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपते:।।3।।

सर्वे क्रूरा: केन्द्रे नीचारिगता न सौम्ययुतदृष्टा:।

शुभदा व्ययरिपुरन्ध्रे तदाऽपि भङ्गो भवेन्नृपते:।।4।।

लग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्ग:।

भवति हि नृपयोगानां दारिद्र्याय प्रजातस्य।।5।।

घटोदये नीचगतैस्त्रिभिर्ग्रहैर्बृहस्पतौ सूर्ययुते च नीचगे।

एकोऽपि नोच्चे (तुशुभेन)त्वशुभे च सङ्गते प्रयान्ति नाशं शतशो नृपोद्भवा:।।6।।

शून्येषु केन्द्रेषु शुभैर्न वेन्दावस्तं गतर्नीचमथ प्रयातै:।

चतुर्ग्रहैर्वाऽपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योग:।।7।।

स्वांशे रवौ शीतकरे विनष्टे पापैश्च दृष्टे शुभदृष्टहोने।

कृत्वाऽपि राज्यं च वने मनुष्य: पश्चात्सुदु:खं लभते गताश:।।8।।

शिशिरकिरणशत्रुर्ल(लग्नवच्चन्द्रदृष्ट: लग्नप, सङ्गता:)ग्नगश्चन्द्रदृष्ट:

सहजरिपुमदस्था भानुभूपुत्रमन्दा:।

शुभविरहितकेन्द्रैस्तगर्वाऽपि सौम्ये-

र्नृपतिजननयोगा यान्ति नाशं क्षणेन।।9।।

पञ्चभिर्निम्नगै: खेटैरस्तं यातैरथापि वा।

प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिता:।।10।।

उल्काया: पतने चैव निर्घातव्यतिपातयो:।

केतोश्च दर्शने चैव यान्ति नाशं नृपोद्भवाः।।11।।

अन्यैः क्रूरोत्पातैस्त्रिशङ्कुतारा यदोदयं यान्ति।

सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने।।12।।

कर्तारो नृपतीनां गगनतदो युद्धकाङ्क्षिणो मलिना:

रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य।।13।।

परनीचं गते चन्द्रे क्षीणो योगो महीपतेः।

नाशमायाति राजेव दैवज्ञप्रतिलोगः।।14।।

तुलायां पद्मिनीबन्धुसस्त्रिशांशे दशमे स्थितः।

हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम्।।15।।

जूकस्य दशमे भागे स्थितः कमलबोधनः।

सहस्रं राजयोगानां मन्दसेव करोत्यसौ।।16।।

स्वत्रिकोणगृहं केचित्स्वोच्चं याताः स्वमन्दिरम्।

अतिनीचे रविस्चैको न तेषां फलसंभवः।।17।।

गुरुर्मृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम्।

कामार्तमधनं वेश्या(यद्वदि)वश्यमिन्दुर्नं चेत्स्वभे।।18।।

एकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः।

विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात्।।19।।

भिक्षामटति त्र्याद्यैर्नीचर्क्षगतैः सुदुःखितो मलिनः।

सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः।।20।।

अत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगैश्च गगनचरैः।

नाशं प्रयाति राज यदि रविचन्द्रौ न तुङ्गस्थौ।।21।।

सचिवो दानदेन्द्रस्य नीचांशे समवस्थितः।

संप्राप्ततुलं राज्यं नरैर्हापयते ध्रुवम्।।22।।

राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः।

परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात्।।23।।

(हो.र 9 अ. 378 पृ.।)कमलभवनबन्धुः कन्ययालिङ्ग‍िताङ्ग-

स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः।

न च यदि परिशेषर्दृश्यते स्यात्सभूपः

प्रचलितगजेमेच्छादितानाशानभोऽभ्रः।।24।।

इति कल्याणवर्मविरचितायां सारावल्यां राजयोगभंगो नामाष्टत्रिंशोऽध्यायः।।