श्रीदेवकीर्तिराज: पञ्चमहापुरुषलक्षणान्नृपतीन्।
कथयति यांस्तानहमपि कथयामि निराकुलीकृत्य।।1।।
स्वक्षेत्रे च चतुष्टये च बलिभि: स्वोच्चस्थितैर्वा ग्रहै:
शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथानुक्रमम्।
मालव्यो रुचक: शशोऽथ कथितो हंसश्च भद्रस्तथा
सर्वेषामपि(मति) विस्तरं(विस्तरान्मुनिमतात्संकल्पय ते) मतिमतां संक्षिप्यते लक्षणम्।।2।।
महीसुतात्सत्त्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्गुरोश्च।
स्वरं सितात्स्नेहमिनेश्च वर्ण बलाबलं पूर्णलघूनि चैषाम्।।3।।
मृदुर्दयालुर्बहुदारभृत्य:(दास:) स्थिरस्वभाव: प्रियसत्यवादी।
सुरद्विजोपास्तिकर: सहिष्णुर्भवेन्नर: सत्त्वगुणप्रधान:।।4।।
शूर: कलाकाव्यनिधि(विनिष्टबुद्धि:) सुबुद्धि: स्त्रीभोगसंसक्तमना: (सक्तचित: क्रतुषु)प्रवीण:।
आडम्बरी हास्यरति(रत:) प्रगल्भो (गोपोक्षविद्रा, वेदार्थविद्रा)गेयाक्षविद्राजसिक: (प्रसिद्ध:)प्रदिष्ट:।।5।।
मूर्खोऽलसी वञ्चयिता परेषां क्रोधी विषण्ण: पिशुन: क्षुधार्त:।
आचारहीनो न शुचिर्मदान्धो(र्गदार्तो) लुब्ध: प्रमादी तमसाभिभूत:।।6।।
भारो भवति नृपाणां भूम्यर्धं भुञ्जतां मनुष्याणाम्।
येषां भागे त्वर्धं सकलमहीपालकास्ते स्यु:।।7।।
समा: स्वरै: सिंहमृदङ्गदन्तिनां रथौघभेरीवृषतोयदायिनाम्।
समस्तभूमण्डलरक्षणक्षमा भवन्ति भूपा जितशत्रवो नरा:।।8।।
स्निग्धैर्भवन्ति भूपा जिह्वात्वग्दन्तनेत्रनखकेशै:।
रूक्षैरेभिर्निस्वा: स्वरैश्च ते जातके कथिता:।।9।।
स्निग्धस्तेजोयुक्त: शुद्धो वर्ण: प्रकीर्तितो नृपते:।
विपरीत: क्लेशभुजां सुतार्थसुखभागिनां मध्य:।।10।।
व्योमाम्बुवाताग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्यै:।
छाया मरुत्पित्तकफस्वरूपा(कफानु) मिश्रैस्तु मिश्रा बलिभिर्नरस्य।।11।।
शब्दार्थविन्न्यायपटु: प्रगल्भो विज्ञानयुक्तो विज्ञानयुक्तो विवृतास्यभाग:।
चित्राङ्गसन्धि: कृशपाणिपादो व्योमप्रकृत्या पुरुषोऽतिदीर्घ:।।12।।
जलस्वभावो बहुवारिपायी प्रियाभिभाषी(ध्रुवं) द्रवभोजनश्च।
चलस्वरूपो बहुमित्रपक्ष: क्षोणीपतिर्नातिचिरप्रगल्भ:।।13।।
सत्त्वेन वायो: पुरुष: कृशाङ्ग: क्षिप्रं च कोपस्य वशं प्रयाति।
कृत्यैकबुद्धिर्भ्रमणे रतश्च दाता सितो भूपतिरप्रधृष्य:।।14।।
शूर: क्षुधार्तश्चपलोऽतितीक्ष्ण:(तृष्णा:) प्राज्ञ: कृशो गौरतनुर्विरोधी।
विद्वान्सुपाणिर्बहुभक्षणश्च(सुमानी) वह्निस्वभाव: पुरुषोऽतिकाय:।।15।
कर्पूरजात्युत्पलपुष्पगन्धो भुनक्ति भोगान् स्थिरलब्धसौख्य:।
सिंहाभ्रघोष: स्थिरचित्तवृत्तिर्महीस्वभाव: पुरुष: ससत्त्व:(सुसत्व:)।।16।।
स्फटिकोपलसङ्काशा स्वच्छा गगनोत्थिता भवेच्छाया।
निधिरिव पुंसां धन्या त्रिवर्गफलसाधनी सौम्या।।17।।
स्निग्धा सिता च हरिता कान्ता मातेव सर्वसुखजननी।
सौभाग्याभ्युदयशुभान्करोति जलसम्भवा छाया।।18।।
असितजलकान्ति: पापगन्धोऽतिमूढो
मलिनपरुषकाय: शोकसन्तापतप्त:।
स (भवति)वहति वधदैन्यव्याध्यनार्थार्थनाशान्
विचरति पवनोत्था यस्य कान्ति: शरीरे।।19।।
कमनदहनदीप्तिश्चण्डदण्डोऽतिहृष्ट:
प्रणतसकलशत्रुर्विक्रमाक्रान्तभूमि:।
भजति मणिसुवर्णं सर्वकार्यार्थसिद्धिं
प्रशमितगदशोको(गतकोपो) वह्निजायां प्रभायाम्।।20।।
आद्याम्बुसिक्तवसुधागरुतुल्यगन्ध:
सुस्निग्धदन्तनखरोमशरीरकेश:।
धर्मार्थतुष्टिसुखभाग्यजनसम्प्रियश्च
च्छाया यदा भवति भूमिकृता मनुष्ये।।21।।
शीतार्तो बहुभाषको द्रुतगतिर्नावस्थित: कुत्रचित्
शूरो मत्सरवान्रुजाकररुचिर्दौर्भाग्ययुक्तोऽनय:।
दन्तान्खादति(दन्तात्खादति) नातिसौहृदमतिर्गान्धर्ववेत्ता कृशो
मित्राणां समुपार्जनेऽति समुपार्जनेऽतिनिपुण: स्वप्ने च खे गच्छति।।22।।
अपगतधृतिरूक्षश्मश्रुकेश: कृतघ्न:
(घटित)स्फुटिचरणहस्त: क्रोधनो नष्टकान्ति:।
विलपति च(न निबन्धं) निबन्धो वित्तसंक्षारकारी(चित्तसंहारकारी)
भवति पुरुष एवं मारुतैकप्रधान:।।23।।
दुर्गन्धी लघुतापनो विपुलघी: क्षिप्रप्रसाद: पुन:
पीनो रक्तनखाक्षिपाणिचरणो वृद्धाकृतिर्दाहवान्।
मेधावी युधि निर्भयो हिमरुचिर्ब्रूते निगृह्यापरान्
नो भीत: प्रणयं प्रयाति बहुभि: कुर्यान्नतानां प्रियम् ।।24।।
स्वप्नेऽभिपश्यति सुवर्णदिनेशदीपान् दावाग्निकिंशुकजपामणिकर्णिकारान्।
रक्ताब्जषण्डरुधिरौघटित्समूहान् पित्ताधिको निगदित: खलु लक्षणज्ञै:।।25।।
श्रीमान् श्लिष्टाङ्गसन्धिर्धृतिबलसहित: स्निग्धकान्ति: सुदेहो
ग्रामी सत्त्वोपपन्नो हतमुरजघनध्वानघोष: सहिष्णु:।
गौरो रक्तान्तनेत्रो मधुररसरुचिर्बद्धवैर: कृतज्ञ:
क्लेशे च स्यादखिन्न: सकलजनसुहृत्पूजको वा(नो) गुरुणाम्।।26।।
सुप्तस्तु पश्यति समुद्रनदीसरांसि
मुक्ताफलप्रहरहंससिताब्जशङ्खान्।
नक्षत्रकुन्दकुमुदेन्दुतुषारपातान्
श्लेष्माधिको मुनिवरै: कथित: क्रमेण।।27।।
बलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैर्मिश्रा:।
न भवन्ति महीपाला दशासु तेषां सुतार्थयुता:।।28।।
न स्थूलोष्ठो न विषमवपुर्नातिरिक्ताङ्गसन्धि -
र्मध्ये क्षाम: शशधररुचिर्हस्तिनाद:(हस्तिमार:) सुगन्ध:।
सन्दीप्ताक्ष: समसितरदो जानुदेशाप्तपाणि-
र्मालव्योऽयं विलसति नृप:(वय:) सप्ततिर्वत्सराणाम्(सप्ततिं वत्सराणाम्)।।29।।
वक्त्रं त्रयोदशमितानि तथाङ्गुलानि(दशा)
दैर्घ्येण (विवरं)कर्ण विवराद्दशविस्तरेण।
मालव्यसंज्ञमनुज: स भुनक्ति नूनं
लाटान्समालवससिन्धुपारियात्रान्।।30।।
दीर्घास्य: स्वच्छकान्तिर्बहुरुचिरबल: साहसावाप्तकार्यं(दाप्त)
श्चारुभ्रूर्नीलकंशश्चरणरणरतो मन्त्रविच्चोरनाथ:।
(मण:)रक्तश्यामोऽतिशूरो रिपुबलमथन: कम्बुकण्ठ: प्रधान:
क्रूरो भर्ता नराणां द्विजगुरुविनत: क्षामसज्जानुजङ्घ:।।31।।
खट्वाङ्गपाशवृषकार्मुकवज्रवीणारेखाङ्कहस्तचरणश्च (क्रत्वङ्गमालांघठै:)शताङ्गुलश्च।
मन्त्राभिचारकुशलस्तुलया सहस्रं मध्ये च तस्य कथित मुखदैर्घ्यतुल्यम्।।32।।
विन्ध्याचलसह्यगिरीन् भुनक्ति सप्ततिसमा नगरदेशान्।
शस्त्रानलकृतमृत्यु: प्रयाति दैवालयं रुचक:।।33।।
तनुद्विजास्यो द्रुतग: शशोऽग: शठोऽतिशूरो निभृतप्रताप:।
वनाद्रिदुर्गेषु नदीषु सक्त: कृशोदयी नातिलघु: प्रसिद्ध:।।34।।
सेनानाथो निखिलनिरतो दन्तुरश्चापि किंचित्
धातोर्वादे भवति निरतश्चञ्चल: कोशनेत्र:।
स्त्रीसंसक्त: परधनगृहो मातृभक्त: सुजङ्घो
मध्ये क्षमो बहुविधमती रन्ध्रवेदी परेषाम्।।35।।
पर्यङ्कुशङ्खहरिशस्त्रमृदङ्गमाला-
वीणोपमा यदि करे चरणे च रेखा:।
वर्षाणि सप्ततिमितानि करोति राज्यं
प्रत्यन्तिक: क्षितिपति: कथितो मुनीन्द्रै:।।36।।
रक्तास्योन्नतनासिक: सुचरणो हंस: प्रसन्नेन्द्रियो
गौर: (श्लक्ष्ण:)पीनकपोलरक्तकरजो हंसस्वर: श्लेष्मल:(चक्रासि)।
शङ्खाब्जाङ्कुशदाममत्स्ययुगल:(पीत) खट्वाङ्गचापाङ्गद-
श्चिह्न: पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिर:।।37।।
सलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामार्त:।
षोडशशतानि तुलितोऽङ्गुलानि दैर्घ्येण षण्णवति:।।38।।
पातीह देशान्खलु शूरसेनान्गानारगङ्गायमनुनान्तरालान्।
जीवेदनू(जीवेन्नवघ्नां दश)नां शतवर्षसंख्यां पश्चाद्वनान्ते समुपैति नाशम्।।39।।
शार्दूलप्रतिमाननो द्विपगति: पीनोरुवक्ष:स्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रय:।
कामी कोमलसूक्ष्मरोमनिकरै: संरुद्धगण्डस्थल:
प्राय: पङ्कजगर्भपाणिचरण: सत्त्वाधिको योगवित्।।40।।
शङ्खासि (तोरण)कुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलविचिह्नितपाणिपाद:।
पत्रागुरुद्विपमदप्रथमाम्बुसिक्तभूकुङ्कुमप्रतिमगन्धतनु: सुघोण:।।41।।
शास्त्रार्थ विद्धृतियुत: समसंगतभ्रूर्नागोपमो भवति (चाति, चापि)चाथ निगूढगुह्य:।
सत्कुक्षिधर्मनिरत: सुललाटशङ्खो धीर: स्थिरस्त्वसितकुञ्चितकेशभार:।।42।।
स्वतन्त्र: सर्वकार्येषु स्वजन(स्वजनं प्रति)प्रीणन(क्षमी)क्षम:।
भुज्यते विभवश्चास्य नित्यं (अर्थि मित्र)मन्त्रिजनै: परै:।।43।।
भारस्तुलायां तुलितो यदि स्याच्छ्री(कान्यकुब्जाधिपति:) मध्यदेशेष्वधिपस्तदासौ।
(हस्त्यादिमुख्यै)यस्त्र्यादिपुष्टै: सहित: सभद्र: सर्वत्र राजा शरदामशीति:।।44।।
इति कल्याणवर्मविरचितायां सारावल्यां पञ्चमहापुरुषलक्षणं नाम सप्तत्रिंशोऽध्याय:।।