रश्मिप्रधानमेतद्यस्माच्छास्त्रं वदन्ति माणिन्धा:।
तस्मात्प्रयत्नतोऽहं कथयामि यथामतं तेषाम्।।1।।
स्वोच्चस्थे दश सूर्ये नव चन्द्रे पञ्च भू मतनये च।
पञ्चेन्दुजे सुरेड्ये सप्ताष्टौ भार्गवे शनो पञ्च।।2।।
एवं महेन्द्रशास्त्रे मणिन्धमयबादरायणप्रोक्ते।
सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम्।।3।।
सर्वे प्रमाणमेते मुनिवचनात्किन्तु सप्तसंख्यैव।
बहुवाक्यादस्माकं नीचगत: स्याद्विगतरश्मि:।।4।।
अभिमुखरश्मिमर्नीचाद्भ्रष्ट: स्वोच्चात्पराङ्मुखो ज्ञेय:।
अन्तरगतेऽनृपातो यथा तथा संप्रवक्ष्यामि।।5।।
नीचविहीन:(न्यूने मण्डल) शोध्यश्चक्रात्पडभवनतो यदाभ्यधिक:।
आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात्(ताप)।।6।।
मित्रद्वादशभागे द्विगुणास्त्रिगुणा: स्वके च दीधितय:।
वक्रे पुनस्तथोच्चे स्वराशिगे तद्भवत्येव।।7।।
द्विगुणा: स्युर्दीधितयो वक्रस्येऽप्तवमेव स्यु:।
वैरिद्वादशभागे नीचे च भवन्ति षोडशोना:।।8।।
अस्तं गतो विरश्मि: शनिसितवर्ज्यं ग्रहो ज्ञेय:।
वक्रान्तस्थे द्विगुणा वक्रत्यागेऽष्टभागहीनाश्च।
एवं रश्मिविधानं पूर्वाचार्यै: समुद्दिष्टम्।।9।।
एकादि पञ्च यावद्रश्मिभिरतिदु:खिता कुलविहीना:।
परतंत्रका दरिद्रा नीचरता संभवन्ति नरा:।।10।।
परतो दशकं यावद्भृतकादीनां विदेशगमनरता:।
जायन्तेऽत्र मनुष्या: सौभाग्यपरिच्युता मलिना:।।11।।
ऊर्ध्वं पञ्चदशाप्तिर्यावत्तवद्बहुश्रुता: सुजना:।
धर्माभिरता: सुमुखा: कुलस्य तुल्या: प्रजायन्ते।।12।।
आविंशतेर्भवेयु: कुलाधिका: (जन)धनयुता (धन)जनख्याता:।
कीर्तिकराश्च मनुष्या यथाक्रमं स्वजनसम्पूज्या:।।13।।
पूज्या: सुभगा धीरा कृतिनो भूपास्तु शरकृतिर्यावत्।
परतो भवन्ति मनुजा: (तत्साधित)संसाधितसकलकरणीया:।।14।।
अत उत्तरेण चण्डा नृपाश्रिता नृपतिलब्धधनसौख्या:।
त्रिंशद्यावत्सचिवा: पूज्याश्च भवन्ति भूपानाम्।।15।।
एकत्रिंशद्भिस्तु प्रवरा: ख्याता महीभुजामिष्टा:।
द्वात्रिंशद्भि: पुरुषा: (पञ्चदशग्राम)पञ्चाशद्ग्रामपतय: स्यु:।।16।।
ग्रामसहस्राधिपतिं त्रिंशत्त्र्यधिका करोति रश्मीनाम्।
त्रिसहस्रग्रामाणां पुरुषं सूतौ चतुस्त्रिंशत्।।17।।
परतो मण्डलभाजो बहुकोशपरिग्रहा महासत्त्वा:।
त्रिंशत्षड्भि: सहिता रश्मीनां यस्य जन्मसमये स्यात्।
सार्थं भुनक्ति लक्षं स ग्रामाणां पुमान्नियतम्।।19।।
त्रिंशन्मण्डलसहिता रश्मीनां सम्भवे भवेद्येषाम्।
लक्षत्रितयपतित्वं ग्रामाणां जायते तेषाम्।।20।।
त्रिंशत्सनवा गावो जन्मनि येषां ग्रहोत्थिता: सन्ति।
ते तोषितसकलजना भवन्ति पृथ्वीश्वरा: पुरुषा:।।21।।
दशजलधिगुणाया रश्मिसंख्या नराणां दिशति पृथुलभूमे: पालकत्वं च तेषाम्।
हतरिपुवनिताभिर्गीयतेऽतीव कीर्ति: करुणरुदितगर्भैरुद्यदाक्रोशशब्दै:।।22।।
शशिजलनिधिसंख्यै: रश्मिभि: श्रूयते यो जलनिधिरशनाया: पार्थिव: स्यात्स भूमे:।
द्विजलधिरशनाया पक्षवेदाख्यसंख्यैस्त्रिजलधिरशनाया वह्निवेदैस्तथैव।।23।।
वेदाब्धिसंख्यैश्च मयूखजालैर्जाता नरेन्द्रा: खलु सार्वभौमा:।
सौम्या: सुरब्राह्मणभक्तिशीला दीर्घायुष: सत्त्वयुता भवन्ति।।24।।
परत: परत: किरणैर्द्वीपान्तरपालका निरुपसर्गा:।
सर्वनमस्या: सुभगा महेन्द्रतुल्यप्रतापात्र।।25।।
(चत्वारिंशद्वित्ता)चत्वारिंद्युक्ता पञ्चादिभिरत्र यस्य सूतौ स्यात्।
ज्ञेयं तस्यारिष्टं (सर्वक्षितिपालकानुक्ता:)सर्वक्षितिपालकं मुक्त्वा।।26।।
भुवनभरसहिष्णो: सर्वत: क्षीणशत्रोस्त्रिदशपतिमहिम्न: सर्वलोकस्तुतस्य।
विदधति विहगानां रश्मयोऽतीव दीप्तास्तुरगकृतिसमानाश्चक्रर्तित्वमेव।।27।।
अभिमुखकरप्रवाहा: फलं प्रयच्छन्ति पुष्टतरमाशु।
तद्विपरीतं पुंसां पराङ्मुखास्तु ग्रहेन्द्राणाम्।।28।।
जन्मसमये ग्रहाणां रश्मीनां संक्षये क्षयो भवति।
वृद्धेर्वधिष्णूनामधमोत्तमता क्रमेणैव।।29।।
इति कल्याणवर्मविरचितायां सारावल्यां रश्मिचिन्ता नाम षट्त्रिंशोऽध्यायः।।