।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

द्वात्रिंशोऽध्याय:

(हो.र.7अ.216पृ.2. यन्नवमर्क्षगृहं)सर्वमपहाय चिन्त्यं भाग्यर्क्षं प्राणिनां विशेषेण।

भाग्यं विना न जन्तुर्यस्मात्तद्यत्नतो वक्ष्ये।।1।।

लग्नान्निशकाराद्वा (यन्नवमर्क्षगृहं)यन्नवमं तद्गृहं भवेद्भाग्यम्।

अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात्।।2।।

भाग्यर्क्षपति: कस्मिन्नेको(कस्मिन् को वा) भाग्यर्क्षमाश्रितो विहग:।

बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेय:।।3।।

स्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम्।

अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम्।।4।।

दुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रह: पश्येत्।

होरागतश्च बलवान् येषां ते मानवा: श्रेष्ठा:।।5।।

देवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्य:।

भोगी कान्त: शशिना काञ्चनभाग् भवति भौमेन।।6।।

सौम्येन धनी ज्ञेयसितेन गोवाहनार्थसंयुक्त:।

सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्त:।।7।।

ऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण।

रविरुधिराभ्यां दृष्टे वाहनपरिवारवान्पुरुष:।।8।।

चन्द्रार्काभ्यां दृष्टे सुसमृद्धो वल्लभ: पितृजनन्यो:।

ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वित: पुरुष:।।9।।

ललित: कान्त:  सुभगो वरयुवतिविभूषणार्थसम्पन्न:।

बुधसूर्याभ्यां दृष्टे काव्यकलापण्डित: प्राज्ञ:।।10।।

उत्सवसमाजशीलो गोमहिषाजवरवारणोपेत:।

रविसितदृष्टे जीवे भाग्यस्थे स्याद्विनीतश्च।।11।।

अर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायक: ख्यात:।

प्राज्ञो गुणवान्सधनो निधिनाथ: संग्रहणशील:।।12।।

सेनाचार्य: स्फीतो मन्त्री वा जायते गुर भाग्ये।

दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभग:।।13।।

उत्तमगृहशयनानां भोगी तेजोऽन्वित: क्षमाप्रतिम:।

चन्द्रबुधाभ्यां दृष्टे जात: पुरुषोऽतिमतियुक्त:।।14।।

आढ्य: कर्मोद्युक्त: शूर: परदारवान् सुतविहीन:।

इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्याद्गुरौ जात:।।15।।

मदबहुल: स्थिरजीवी परदेशरतो विवादशील: स्यात्।

अनृतवचनो गुणोन: शशियमदृष्टे गुरौ भाग्ये।।16।।

सुप्राज्ञोऽतिसुशाल: (सुभगो)सुगणो विद्वान्गृहीतवाक्यश्च।

सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये।।17।।

धनवान्विद्यायुक्तो विदेशग: सात्त्विकोऽतिनिपुणश्च।

क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जात:।।18।।

नीच: पिशुनो द्वेष्यो विदेशगश्चलजनै: समायुक्त:।

भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जात:।।19।।

शिल्पज्ञोऽतिसुशीलो विद्वान्सुभगो गृहीतवाक्यश्च।

सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये।।20।।

सुभगो विद्वान्वक्ता ललित: शूर: सुखी विनीतश्च।

जीवे भाग्योपगते बुधार्किदृष्टे पुमानभवति।।21।।

देवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान्भवति।

राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च।।22।।

राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृपं ज्ञेयम्।

एभि: कथितैर्दृष्टे फलमिदमन्यैरसंदृष्टे।।23।।

उत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभव:।

देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति।।24।।

भाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेया:।

स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव।।25।।

नीचारिराशिसंस्था: पापा भाग्ये न सौम्यसंदृष्टा:।

दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम्।।26।।

स्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्षसंस्थिता ये स्यु:।

ज्ञेयास्तु उत्तमशुभा बहुतरगुणसंयुता: शुभर्दृष्टा:।।27।।

पूर्णेन्दुयुते भाग्ये वक्रार्किबुधा: प्रधानवीर्याश्च।

व्यस्ता वाऽथ समस्ता: प्रधाननृपसंभवो ज्ञेय:।।28।।

सकलगगनखेटा(गेहा:) स्वोच्चगा भाग्यराशौ

धनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति।

अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रं

विनिहतरिपुपक्षं दिव्यकान्तिं सुकीर्तिम्(हो.र. 7 अ. 221 पृ.)।।29।।

सूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते।

नयनव्याधिमाढ्यं सुभगं कलहप्रियं  चापि।।30।।

भानुर्वक्रसमेतो नानादु:खान्वितं नरं कुरुते।

कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम्।।31।।

रविसहित: शशितनयो निपुणं दु:खान्वितं बहुविपक्षम्।

जनयति भाग्ये पुरुषं नानारोगै: परिगृहीतम्।।32।।

सुरगुरुसहित: सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम्।

पितरं च धनसमृद्धं दीर्धायुषमार्यमतिशूरम्।।33।।

शुक्रसहाय: सूर्यो व्याधितदेहं नरं कुरुते।

प्रियगन्धमाल्यभूषणलङ्कारसंयुतं भाग्ये।।34।।

सूर्य: सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम्।

व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम्।।35।।

चन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात्।

कुर्याच्च विकलगात्रं सव्रणदेहं समृद्धं च।।36।।

चन्द्र: स्वसुतसमेत: शास्त्रज्ञं पण्डितं विकलदेहम्।

जनयत्युत्तमपुरुषं बहुवाचं विश्रुतं चैव।।37।।

सुरगुरुसहिते चन्द्रे भाग्ये प्रवर: प्रसूयते पुरुष:।

सौभाग्यधनसमृद्ध: सर्वत्र सुखान्वितो धीर:।।38।।

चन्द्रो भार्गवसहितोगृहे व्याधितं नरं कुरुते।

कुलटापतिं समृद्धं मातृसपत्नीप्रदं सचिववश्यम्।।39।।

रविसुतसहितश्चन्द्रो नवमे राशौ विकृष्टधर्माणम्।

जनयति मनुजं पापं माता च कुलच्युता भवति।।40।।

रुधिर: सोमजसहितो भाग्यर्क्षे जनयति प्रधानं च।

नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च।।41।।

भौम: सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम्।

पूज्यं व्याधितदेहं क्लिष्टं (दीप्ति)व्रणविक्षतं प्रसवे।।42।।

भार्गवसहित: क्षितिज: परदेशरतं विवादिनं क्रूरम्।

स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च।।43।।

पापं मलिनाचारं परदाररतं विनष्टधनसौख्यम्।

कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते।।44।।

सौम्य: सुरगुरुसहित: शास्त्रज्ञं पण्डितं धनसमृद्धम्।

प्रियवादिनं कलाज्ञं प्रभविष्णुमहत्तरं भाग्ये।।45।।

भृगुसुतसहित: सौम्य: ख्यातं च सुपण्डितं धीरम्।

सुभगं वचनसमर्थं जनयति (गीतप्रियं)नीतिप्रियं भाग्ये।।46।।

सूर्यजसहित: सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम्।

जनयति भाग्ये पुरुषं सद्द्वेष्यं बहुकथं चैव।।47।।

शुक्र: सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते।

चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम्।।48।।

जीव: सौरसहायो भाग्ये धनरत्नभागिनं कुरुते।

पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम्।।49।।

सौरसहाय: शुक्रो व्याधितदेहं नरं कुरुते।

बहुपुत्रं(बहुवित्तं) नृपतीष्टं यशस्विनं शीलसम्पन्नम्।।50।।

एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य।

ब्रूयात्फलनिर्देशं शास्त्रादनुरूपत: प्राज्ञ:।।51।।

सव्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्यु:।

बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये।।52।।

रविचन्द्रबुधा भाग्ये क्लीवाकारं सुदु:खितं कुर्यु:।

सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च।।53।।

चन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य।

स भवत्युत्तपुरुषो वाहनधनसौख्यसम्पन्न:।।54।।

रविचन्द्रसिता नवमे स्त्रीकलहैर्नष्टसर्वधनसौख्यम्। 

नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम्।।55।।

सूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्यु:।

प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम्।।56।।

रविभौमबुधा नवमे कुर्वन्ति नरं प्रियालापम्।

(सुभगमथा)भुजगमिवातिकुद्धं समरपरं निष्ठुरं (प्रवासार्तम्)प्रवासरतम्।।57।।

रविगुरुवक्रा नवमे जनयन्ति नरं सदोद्युक्तम्।

देवपितृपूजनरतं समृद्धदारं गुणोपेतम्।।58।।

कलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च।

दिवसरवक्रशुक्रा नवमे द्वेष्यं नरं कुर्यु:।।59।।

साहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम्।

पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभावनो नवमे।।60।।

रविबुधगुरवो नवमे भाग्यसमेत धनान्वितं सुभगम्।

नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च।।61।।

रविबुधशुक्रा भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम्।

रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च।।62।।

परदाररतं पापं प्रवासशलं च निपुणमतिधृष्टम्।

आनृतिकमदैरपरं रविबुधसौरा नरं भाग्ये।।63।।

भाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम्।

बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम्।।64।।

त्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य।

स भवेदुत्तवीर्यो राजा धनवान्गुणै: समृद्धश्च।।65।।

कान्तिविहीनं मलिनं भूपतिपरिण्डितं विभवहीनम्।

जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम्।।66।।

धनकरनकरत्नभाजनं जनयन्ति शशिभूमिजा: पुरुषम्।

प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन(भावेन)।।67।।

भौमनिशाकरजीवा: कुवर्न्ति नरं जितेन्द्रियं प्राज्ञम्।

गुरुदेवभक्तिनिरतं विद्याधनभागिनं सुभगम्।।68।।

व्रणिताङ्गमरूपं वा (प्रभक्षणं)प्रभेदिन स्त्रीप्रियं युवतिवश्यम्।

युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे।।69।।

व्यापन्नमातृवंशं क्षुद्रं बाल्ये निराकृतं मात्रा।

सौरो भौमश्चन्द्रो जनयन्ति नराधमं नवमे।।70।।

गुरुबुधचन्द्रा नवमे कुलवंशविविर्धनं कुर्य:।

आचार्यं बहुमित्रं नृपतिं बहुसाधनोपेतम्।।71।।

मातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम्।

कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये।।72।।

शशिबुधसौरा नवमे क्रूराचारं सु वक्रमं मलिनम्।

जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम्।।73।।

चन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य।

स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव।।74।।

शशिगुरुसौरा नवमे कुर्वन्ति नरं प्रियालापम्।

सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च।।75।।

शुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम्।

कुर्युर्मनुजमपापं(मनुजं पापम्) कृतकृत्यं लोकविख्यातम्।।76।।

तेजस्विनं विशोकं विद्वांसं वाक् स्थिरं विशिष्टं वा।

कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम्।।77।।

बहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम्।

कुजबुधशुक्रा भाग्ये कुर्वन्ति नरं सतां सत्यम्।।78।।

परवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम्।

बुधभौमयमा नवमे कुर्य: परतर्कसंमूढम्।।79।।

बुधगुरुशुक्रा भाग्ये जनयन्ति नरं सुरोपमं विशदम्।

विख्यातं नरनाथं विद्वांसं धर्मशीलं च।।80।।

शुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति।

मेधाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम्।।81।।

शनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति।

प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च।।82।।

रविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्यु:।

सभवत्युत्तमपुरुषो विदेशगो नित्यसंतुष्ट:।।83।।

सूर्यशशिभौमगुरवो भाग्यर्क्षगता नर कुर्यु:।

धनिनं विद्याकुशलं सुभगं नृपसंमतं चेव।।84।।

शुक्रेन्दुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम्।

जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम्।।85।।

सूर्याचन्द्ररवय: पिशुनं मायाविनं कुशलञ्च।

जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम्।।86।।

शशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिता: कुर्यु:।

पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा हृष्टम्।।87।।

चन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिक समृद्धं च।

जनयन्ति नवमसंस्था: पुरुषं प्रियवादिनं शान्तम्।।88।।

तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्यु:।

नीचानुरतं दीनं परस्वहरणे सदा सक्तम्।।89।।

रविगुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति।

देवपितृपूजनपरं समृद्धदारं गुणोपेतम्।।90।।

शुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम्।

साहसनिरतं विधनं रिपुक्षक्षपितविभवं च।।91।।

रविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य।

स भवति परदाररतो विनष्टकोश: सदा दीन:।।92।।

शुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्तम्।

जनयन्ति नवमसंस्था: कन्यानां दूषकं चपलचित्तम्।।93।।

गुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम्।(Slok 196 is found in the P. L. M. S.)

जनयन्ति नरं चण्ड विक्रमयुक्तं महासत्त्वम्।।94।।

रविबुधजीवसिता: स्युर्नवमे यस्येह जायमानस्य।

स भवत्युत्तमपरुषो धनकनकैश्वर्यसम्पन्न:।।95।।

भानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम्।

पापं परदाररतं विद्विष्टं नीचकर्माणम्।।96।।

बुधरविजरविसिता: स्युर्भाग्यस्थाने नरं सुभगम्।

जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम्।।97।।

रविगुरुसितभानुसुता जन्मनि नवमर्क्षगा नरं कुर्य:।

सत्यव्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम्।।98।।

चन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम्।

बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये।।99।।

भौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम्।

वाग्मिनमतिदातारं परलोकपरं महाप्राज्ञम्।।100।।

रविजबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम्।

क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये।।101।।

भौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम्।

विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव।।102।।

शशिवक्रार्किसुरेज्या जनयन्ति नरं पिपासार्तम्।

कलहप्रियं च नवमे सौभाग्यपरिच्छदातीतम्।।103।।

चन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम्।

मायाविनं च पुरुषं शौचाचारैर्विहीनं च।।104।।

सितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम्।

जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च।।105।।

प्राज्ञं नृपति कुलजं प्रधानमतिवित्तसंयुतं कान्तम्।

सौम्येन्दुशुक्रजीवा जनयन्ति नरं तु विख्यातम्।।105।।(Reading of s'loka 103 in the P. L. M. S.)

गुरुसौम्यशुक्रचन्द्रा भाग्ये युक्ता: प्रजायमानस्य।

यस्य स भाग्ये युक्तो लोके पुरुषोत्तमो ज्ञेय:।।105।।

भानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम्।

भाग्यस्थिता: समृद्धं नीतिज्ञं चारुवेशं च।।106।।

शनिशुक्रबुधशशङ्का जन्मनि भाग्यस्थिता नरं कुर्यु:।

मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम्।।107।।

चन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिता: प्रकुर्वन्ति।

मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम्।।108।।

भौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्यु:।

रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च।।109।।

भौमज्ञशक्रशनय: (कुर्वन्ति)नरं (दशानुगतं)विदेशानुगं सुशीलं च।

जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं   च।।110।।

भौमभृगुजीवरविजा जनयन्ति नरं धनपरित्यक्तम्।

क्षुद्रं दयाविरहितं विहीनसत्त्वं स्थिता भाग्ये।।111।।

बुधभृगुभानुजगुरवा जन्मनि नवमे स्थिता नरं कुर्यु:

परवादविवादरतं परदेशप्राप्तवित्तञ्च।।112।।

त्रिचतु:पञ्चखगेन्द्रास्तथा च षट् सप्त संस्थिता भाग्ये।

प्रात्ययिकं धनवन्तं कुर्युनृपतिं च बुधसहिता:।।113।।

जनयन्ति भाग्यसंस्थां गुरुसौम्यविवर्जिता: ग्रहा: पुरुषम्।

व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम्।।114।।

उक्तं बहुप्रकारं भाग्यगृहे बादरायणदिकृतम्।

ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत्।।115।।

इति कल्याणवर्मविरचितायां सारावल्यां भाग्यचिन्ता नाम द्वात्रिंशोऽध्याय:।।