।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

षड्विंशोऽध्यायः

प्रियविग्रहस्तु वेत्ताचार्यो विटधूर्ततेष्टकृशगात्रः।

सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित्।।1।।

कूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः।

बह्वृणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः।।2।।

दक्षः प्रगल्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः।

व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः।।3।।

स्फीतधनस्त्रीसहितः प्रियवल्गुकथो (गम्भीर)गृहीतवाक्यश्च।

गान्धर्वहास्यशीलो रतिलोलो वै बुधे वृषभे।।4।।

शुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी।

प्रोज्झितसुखकोऽल्परतिर्द्विस्त्रीपुत्रो विवादरतः।।5।।

श्रुतिकल्पकलाभिज्ञः कविः स्वतन्त्रः प्रियः प्रदानरतः।

कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति।।6।।

प्राज्ञो विदेशनिरतः स्त्रीरतियोदिसक्तचित्तश्च।

चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः।।7।।

स्त्रीद्वेषान्नटधनः कुत्सितशीलो बहुक्रियाभिरतः।

सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च।।8।।

ज्ञानकलापरिहीनो लोकख्यातो न सत्यवाक्यश्च।

अल्पस्मृतिश्च धनवान् सत्त्वविहीनः सहजहन्ता।।9।। 

स्त्रीदुर्भगः स्वतन्त्रो जघन्यकर्मा बुधे भवति(युवतिरूपः) पुरुषः।

प्रेष्योऽप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च।।10।।

धर्मप्रियोतिवाग्मी चतुरः स्याल्लेक्यकाव्यज्ञः।

विज्ञानशिल्पनिरतो मधुरः स्त्रीष्वल्पवीर्यश्च।।11।।

ज्येष्ठः पूज्यः सुहृदां (मानी)नानाविनयोपचारवादरतः(दार)।

ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान्।।12।।

शिल्पविवादाभिरतो वाक्चतुरोऽर्थार्थमीप्सितव्ययकृत्।

नानादिक्पण्यरतिर्विप्रातितिदेवगुरुभक्तः।।13।।

कृतकोपचारकुशलः सुसम्मतो देवभक्तश्च।

सप्तमभवने शशिजे शठश्चलक्षिप्रकोपपरितोषः।।14।।

श्रमशोकानर्थपरः सद्वेष्यो त्यक्तधर्मलज्जश्च(वर्जश्च)।

मूर्खो न साधुशीलो लुब्धो दुष्टाङ्गनारमणः।।15।।

पारुष्यदण्डनिरतश्छलकृतिद्विद्विष्टकर्मसु निरुद्धः।

ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे।।16।।

विख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमधिगतः(शिल्प)।

मन्त्री पुरोहितो वा कुलप्रधानो महापुरुषः(विभव)।।17।।

यज्ञाध्यापननिरतो मेधावी वाक्यपटुर्व्रती दाता।

लिपिलेख्यदानकुशलः(शब्द,शास्त्र) कार्मुकसंस्थे बुधे जातः।।18।।

नीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः।

नानादुःखपरीतः स्वप्नविहारादिशीलश्च।।19।।

पिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोसंत्थितात्मा च।

मलिनो भयञ्चलितो निष्ठो(दिष्टो) मकरे बुधे पुरुषः।।20।।

वाग्बुद्धिकर्मनिरतः(रहित) प्रकीर्णधर्मार्थ (लज्ज)बर्जविहितार्यः(विहिऽतात्मा)।

परपरिभूतो न शुचिः शीलविहीनस्तथाऽज्ञश्च(कलाज्ञश्च)।।21।।

अतिदुष्टदारशत्रुभोगैस्त्यक्तो घटे विवाग्भवति।

अतिदुर्भगोऽतिभीरुः क्लीबो मलिनो विधेयश्च।।22।।

आचारशौजनिरतो देशान्तरगोऽप्रजो दरिद्रश्च।

शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः।।23।।

सूच्यादिकर्मकुशलो (विज्ञातः)विज्ञानश्रुतिकलावियुक्तश्च।

परधनसंचयदक्षो मीने शशिजेऽधनः प्रकीर्णश्च।।24।।

सत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम्।

कुरुते बुधोऽर्कर्दृष्टो बन्धुजने सुक्षमं कुजभे।।25।।

रजनीकरेण दृष्टो युवतिजनमनोहरं क्षितिजराशौ।

अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च।।26।।

अनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे।

जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्ल्लभं शूरम्।।27।।

सुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च।

जीवेक्षितोऽतिधनिनं जनयत्याज्ञापकं(रतं) पापम्।।28।।

नृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम्।

प्रत्ययिकं(प्रत्ययिनं) सितदृष्टः कुजभे स्त्रीसंयुतं(युजं) शशिजः।।29।।

रुधिरगृहे शनिदृष्टो हिमकिरणसुतोऽतिदुःखितं जनयेत्।

उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम्।।30।।

दारिद्र्यदुःखतप्तं व्याधितदेहं परोपचाररतम्।

दिनकरदृष्टः सौम्यः कुरुते जनधिक्कृतं सितभे।।31।।

प्रत्ययितं धनवन्तं दृढभक्तिमरोगिणं दृढकुटुम्बम्।

ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे।।32।।

व्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम्।

जनयति (बुधोसृग्दृष्टः)विदसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः।।33।।

प्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम्।

त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः।।34।।

सुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे।

हृदयहरं कन्यानां कुरुते सुक्रेक्षितः सौम्यः।।35।।

शुक्रगृहेऽर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम्।

व्याधितमनर्थदृष्टः सौम्यः कुरुते नरं मलिनम्।।36।।

अवितथकथनं मधुरं नृपवल्लभमीश्वरं ललितचेष्टम्।

दयितं करोति लोगे रविणा दृष्टो बुधः स्वगृहे।।37।।

सुमधुरमतिवाचाटं कलहरतं (शस्त्रवत्सलं)शास्त्रवत्सलं सुदृढम्।

जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु।।38।।

(अविहतगात्रं)विक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभुत्यं च।

वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः।।39।।

पार्थिवमन्त्रिणमग्र्यं प्रतिरूपमुदारविभवपरिवारम्।

यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः।।40।।

प्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः।

स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम्।।41।।

सततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम्।

सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते।।42।।

रजकं मालाकारं गृहवास्तुज्ञं तथा च मणिकारम्।

जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः।।43।।

युवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम्।

कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः।।44।।

स्वल्पश्रुतमतिमुखरं प्रियानृतं कूटकारिणं चोरम्।

वक्रेक्षित: शशिगृहे कुरुते सौम्यः प्रियालापम्।।45।।

मेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम्।

गुरुणा दृष्टः शशिभे विद्यानां पारगं बुधः कुरुते।।46।।

कन्दर्पसदृशरूपं प्रियंवदं गीतवानदविधिज्ञम्।

सुभगं शशिये ललितं कुरुते शुक्रेक्षितः सौम्यः।।47।।

दम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः।

द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभेः।।48।।

सेव्यं(सेर्ष्य) दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते।

हिंस्रं क्षुद्रं सिंहे चञ्चलभाग्यं(भावं) त्रिगतलज्जम्।।49।।

रूपान्वितमतिचतुरं काव्यकलागेयपृत्तरतिमिनभे।

धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः।।50।।

ज्ञो नीचं रविभवने दुःखांर्तं (कल्पिताङ्ग)विश्रुताङ्गसमरूपम्।

अचदुरलीलाकान्तं नपुंसकं भौमसन्दृष्टः।।51।।

सुकुमारमतिप्राज्ञं रविभे वागीश्वरं(च विख्यातम्) स्वतिख्यातम्।

परिचारवाहनयुतं कुरुते गुरुवीक्षित: सौम्यः।।52।।

अतिशयरूपं ललितं प्रियंवदं बाहनाढ्यमतिधीरम्।

जनयति सितेन दृष्टो मन्त्रिणमथ पार्थिवं सिंहे।।53।।

व्यायतगात्रं रूक्षं (शुचिरूपं)सुविरूपं स्वेदनोग्रगन्धं च।

अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः।।54।।

शूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम्।

जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम्।।55।।

लेखकमतिसुकुमारं प्रत्ययि(प्रत्ययिकं)तं संमतं गुरुगृहस्थः।

सुखभागिनमत्यढ्यं कुरुते चन्द्रेक्षितः सौम्यः।।56।।

श्रेणीभृतिनगराणां चोराणां विपिनवसिनां चापि।

कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः।।57।।

स्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्यविज्ञानम्।

नृपमन्त्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा।।58।।

कन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते।

गुरुभे भृगुसुतदृष्टः सुकुमारं सौर्यसंयुतं शशिजः।।59।।

दुर्गारण्यभिरतं बह्वशनं दुष्टशीलमतिमलिनम्।

कुरुते रविसुतदृष्टो बुधो नरं सर्वकार्यविभ्रष्टम्।।60।।

मल्लमतिसारयुक्तं बहुभक्षं निष्ठुरं  प्रियालापम्।

जनयति रविणा दृष्ट: सौरगृह बोधन: ख्यातम्।।61।।

जलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा।

भीरुस्वरूपमचरं शनिभे चन्द्रेक्षित: कुरुते।।62।।

वाकचपलतिसुसौम्यं व्रीडालसमन्थरं (सुखाधीनम्)सुखाधारम्।

कुरुते भूसुतदृष्टो रवितनयगृहे बुध: पुरुषम्।।63।।

बहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम्।

कुरुते गुरुणा दृष्ट: सौरगृहे बोधन: ख्यातम्।।64।।

नीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च।

अतिसुतजननं कुरुते भार्गवदृष्टो बुध: ‍ शनिभे।।65।।

पापकरं सुदरिद्रं कर्मकरं चातिदु:खितं दीनम्।

कुरुते शनिना दृष्ट: सौरगृहे बोधन: पुरुषम्।।66।।