।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

पञ्चविंशोऽध्यायः

पञ्चविंशोऽध्यायः

तेजस्वी सत्ययुतः शूरः क्षितिपोऽथवा रणश्लाघी।

साहसकर्माभिरतश्चमूपुरग्रामवृन्दपतिः।।1।।

राभसिको  दानरतः प्रभूतगोजाविधान्य (जनः)करः।

भौमे क्रिये प्रचण्डो बहुयुवतिरतो भवेत्पुरुषः।।2।।

साध्वीव्रतभङ्गकरः(रतः) प्रभाषणो(प्रभलणो) मन्दधनपुत्रः।

द्वेष्यो बहुभरणपरो विस्रम्भस्थितिविहीनश्च।।3।।

प्रोद्धतवेषक्रीडो बहुदुष्टवचाः कुजे वृषभसंस्थे।

सङ्गीतरतः पापो बन्धुविरुद्धः कुलोत्सादी।।4।।

कान्तः क्लेससहिष्णुर्बहुश्रुतः काव्यविधिनिपुणः।

नानाशिल्पकलासु च निपुणो बहुशो विदेशगमनरतः।।5।।

धर्मपरो निपुणमतिर्हितानुकूलः सुतेषु सुहृदां च।

मिथुनस्थे क्षितिपुत्रं भवति प्रचुरक्रियासु रतः।।6।।

परगृहनिवासशीलो वैकल्यरुगर्दितः कृषिधनश्च।

बाल्ये च राजभोजनवस्त्रेप्सुः परगृहान्नाशी।।7।।

सलिलशयतो धनवान् पुनः पुनर्वृद्धिवेदनार्तश्च।

कर्कटके क्षितितनये भवति मृदुः सर्वतो दीनः।।8।।

असहः प्रचण्डशूरः परस्वसन्तानसङ्ग्रहणशीलः।

अटवीनिवासगोकुलमांसरुचिः स्यान्मृतप्रथमदारः।।9।।

व्यालमृगोरगहन्ता न पुत्रवान् धर्मफलहीनः।

भौमे हरौ सुसत्त्वः क्रियोद्यतः स्याद्वपुष्मांश्च।।10।।

पूज्यः सतामतिधनो रतिगीतधनो मृदुःप्रियभाषी।

विविधव्ययोऽल्पशौर्यो विद्वान् (वह्नि)भवति प्रणीतपार्श्वश्च।।11।।

अहितेभ्योऽर्ज(अधिकभीरुः) नभीरुर्वेदस्मृतिधर्मवान् सुबहुशिल्पः।

कन्यायां भूतनये स्नानविलेपनरतः कान्तः।।12।।

अध्वनिरतः (सुपण्य)कुपण्यप्रसक्तवाक्यो विकत्थनः सुभगः।

हीनाङ्ग स्वल्पजनः सङ्ग्रामेप्सुः परोपभोगी च।।13।।

योषिद्गुरुभित्राणां(पुत्राणां) मनोरमो नष्टपूर्वदारश्च।

शौण्डिकवेश्यानिकटे सम्प्राप्तधनक्षयस्तुलिनि भौमे।।14।।

व्यापारश्रुतिसत्यश्चोरसमूहाधिपः क्रियानिपुणः।

युद्धोत्सुकोऽतिपापो बह्वपराधी च वैरशठः।।15।।

द्रोहवधाहितबुद्धिः प्रसूको भूमिपुत्रयुवतीशः।

वृश्चिकगे भूपुत्रे विषाग्निशस्त्रव्रणैस्तूक्तः।।16।।

बहुभिः क्षतैः कृशाङ्गो निष्ठुरवाक्यः शठः पराधीनः।

रथगजपदातियोधी रथेन शरधारकोऽथ परसैन्ये।।17।।

विपुलश्रमैश्च सुखितः परस्परं क्रोधनष्टसुखवित्तः।

कार्मकसंस्थे वक्रे गुरुष्वसक्तः(सत्यः) पुमान् भवति।।18।।

धन्यो वित्ताहर्त्ता सुखभोगसमन्वितो भवति सुस्थः।

श्रेष्ठमतिः प्रख्यातः सेनानाथो नरेन्द्रो वा।।19।।

(सद्यः प्रतिरणविजयी)सद्युवती रणविजयी स्वबन्धुविषयस्थितिः स्वतन्त्रश्च।

आरक्षकः सुशीलः कुजे स्वतुङ्गें बहूपचाररतः।।20।।

प्रश्रयशौयविहीनो वृद्धाकारः सुदुर्गतिर्मरणे।

मात्सर्यासूयानृतवाग्दोषैरहृतार्थश्च।।21।।

रोमशगात्रो विकृतो द्युताद्याहृतधनः कुवेषधरः।

दुःखसमाहृतवृत्तिः पानरुचिर्दुर्भगः कुजे कुम्भे।।22।।

रोगार्त मन्दसुतः प्रवासशीलः स्वबन्धुपरिभूतः।

मायावञ्चनदोषैर्हृतसर्वस्वो विषादी च।।23।।

जिह्मोऽतितीक्ष्णशोको गुरुद्विजावज्ञकः सदा हीनः।

र्इप्सितवेत्ता ज्ञाता स्तुतिप्रियोऽन्त्ये कुजे ख्यातः।।24।।

धनदारपुत्रवन्तं नृपसचिवं दण्डनायकं ख्यातम्।

नृपतिमुदारं कुरुते दिनेश्वरनिरीक्षतः कुजः स्वर्क्षे।।25।।

मातृरहितं क्षताङ्गं स्वजनद्वेष्यं च मित्ररहितं च।

स्वगृहेऽसृक् शशिदृष्टः सेर्ष्यं कन्याप्रियं कुरुते।।26।।

परधनहरणे निपुणं चानृतकं कामदेवभक्तं च।

कुरुते स्वभे ज्ञदृष्टो द्वेष्यं वेश्यापतिं भौमः।।27।।

प्राज्ञं मधुरं सुभगं मातृपितृवल्लभं धनसमृद्धम्।

अनुपमीश्वरमाढ्यं त्रिदशगुरुनिरीक्षिताऽवनेः पुत्रः।।28।।

स्वगृहेऽसृक्  सितदृष्टः स्त्रीहेतोर्बन्धभागिनं कुरुते।

असकृत् सकृच्च विभवं स्त्रीहेतोरर्जितं (स्त्रीहेतोरार्जवं)चापि।।29।।

चोरविघातो शूरं निर्वीर्यं स्वजनपरिहीनम्।

अन्यस्त्रीभर्तारं जनयति सौरेक्षितः स्वभे भौमः।।30।।

वनपर्वतेषु रमते रामाद्विष्टो भवेद्बहुविपक्षः।

सितभे रविणा दृष्टे प्रचण्डवेषः(कोपः) कुजे धीरः।।31।।

मातुरपथ्यो(मातुरपक्षो) विषमो(वेषवधुनां) बहुयुवतीनां पतिः प्रियस्तासाम्।

शुक्रग्रहे शशिदृष्टे रणभोरुर्जाते भौमे।।32।।

कलहप्रियो (बहु)मृदुवचा मृदुकायो मन्दपुत्रधनः।

सितभे भवति च भौमे बुधदृष्टे शास्त्रवित्पुरुषः।।33।।

वादितगीतविधिज्ञः सौभाग्ययुतः स्वबन्धदयितश्च।

शुक्रभवने क्षितिसुते दृष्टे गुरुणा भवेत् स्फीतः।।34।।

नृपमन्त्री नृपदयितः सेनानाथः प्रसिद्धनामा च।

शुक्रग्रहे भवति कुजे शुक्रेण निरीक्षिते सुखितः।।35।।

सुखभाक् (सुखभग्ययुतो)ख्यातो धनवान् मित्रस्वजनैर्युतः कुजे विद्वान्।

श्रेणिपुरग्रामाणामधिपः सितभे च शनिदृष्टे।।36।।

विद्याधनशौर्ययुतं गिरिवनदुर्गप्रियं महासत्त्वम्।

बुधभवने रक्ताङ्गो जनयति दृष्टः सदा रविणा।।37।।

(सुखिनं धनिनं कान्तं कन्यापुररक्षकं युवतिसत्वयुतम्)कन्यापुररक्षकरं युवतिपतिं सद्विनीतमतिसुभगम्।

ज्ञगृहे नृपगृहपालं जनयति चन्द्रेक्षितो भौमः।।38।।

लिपिगणितकाव्यकुशलं बहुभाषिणमनृतमधुरवाक्यं 

दूतं बहुदुःखसहं जनयति वक्रो बुधेक्षितो ज्ञर्क्षे।।39।।

राजपुरुषं प्रकाशं (दैन्येन विदेशगं)दौत्येन विदेशगं नरं कुरुते।

सर्वक्रियासु कुशलं बुधराशौ नायकं च गुरुदृष्टः।।40।।

शुक्रेण दृश्यमानं स्त्रीकृत्यकरं समृद्धसुभगं च।

बुधभवने रक्ताङ्गं कुरुते वस्त्रान्नभोक्तारम्।।41।।

रगिरिदुर्गरतं कर्षरमतिदुःखभागिनं कुरुते।

(अतिसूरमतिं मलिनं)अतिशुरमति च मलिनं यमेक्षितो बुधगृहे विभवहीनम्।।42।।

पित्तरुगर्दितदेहस्तेजस्वी दण्डनायको धीरः।

चन्द्रगृहस्थे भौमे दिनकरदृष्टे भवेत्पुरुषः।।43।।

बहुभिर्व्याधिभिरार्तो नीचाचारो विरूपदेहश्च।

शशिराशौ भूतनये शशिना दृष्टे सशोकश्च।।44।।

मलिनः पापाचारः क्षुद्रकुटुम्बो बहिष्कृतः स्वजनैः।

कर्कटके बुधदृष्टे क्षितितनये भवति निर्लज्जः।।45।।

विख्यातो नृपमन्त्री विद्वांस्त्यागान्वितो भवेद्धन्यः।

गुरुदृष्टे शशिभवने भौगैश्च विवर्जितो वक्रे।।46।।

(स्त्रीसङ्गान्नष्टधनः)स्त्रीसङ्गादुद्विग्नः परिभूतस्त्रीकृतैस्तथा दौषैः।

कर्कटके क्षितिपुत्रे सितदृष्टे स्याद्विपन्नधनः।।47।।

(जलसंयानाप्तधनः)जलसंयानो विधनः क्षितिपाल(क्षितिपालसमः)समानललितचेष्टश्च।

शशिगृहसंस्थे भौमे यमेक्षिते स्यात् सदा कान्तः।।48।।

प्रणातानां हितकारी मित्रैः स्वजनैश्च संयुतश्चण्डः।

गोकुलवनाद्रिचारी सिंहे भौमे तरणिदृष्टे।।49।।

मातुर्न शुभो मतिमान् कठिनशरीरो विपुलकीर्तिः।

केसरिभवने भौमे शशिना दृष्टेऽङ्गनाप्रा(अंगनाप्तार्थः)र्थ्यः।।50।।

बहुशिल्पज्ञो लुब्धः काव्यकलालम्पटो विषमशीलः।

पञ्चभवने भौमे बुधेन दृष्टेऽतिनिपुणश्च।।51।।

पतिसमीपवर्ती विद्याचार्यो विशुद्धबुद्धिश्च।

अवनिसुते सिंहस्थे गुरुणा दृष्टे चूमनाथः।।52।।

विविधस्त्रीभोगयुतः स्त्रीसुभगो नित्ययौवन हृष्टः।

लेयगृहे रक्ताङ्गे सितेन दृष्टे भवेज्जातः।।53।।

वृद्धाकारो निःस्वः परवेश्मभ्रमणशीलवान् दुःखी।

दिनकरराशौ रुधिरे दिनकरतनयेन संदृष्टे।।54।।

लोकनमस्यं सुभगं वनगिरिदुर्गेषु (सद्गृहानासम्)लब्धगृहवासम्। 

सुरगुरुभवने भौमः करोति रविणेक्षितः (शूरम्)क्रूरम्।।55।।

विकलं कहरप्रायं प्राज्ञं रुधिरः करोति शशिदृष्टः।

विद्वांसं गुरुभवने नृपतिविरुद्धं सदा पुरुषम्।।56।।

मेधाविनं सुनिपुणं शिल्पाचार्यं बुधेन संदृष्टः।

गुरुभवने क्षितितनयः करोति (विकलांसमतिनिपुणम्)विद्वांसमत्यन्तम्।।57।।

अकलत्रं सुखरहितं रिपुभिरधृष्यं च वित्तवन्तं च।

गुरुभवने गुरुदृष्टो व्यायामपरं कुजः कुरुते।।58।।

कन्यानामतिदयितं चित्रालङ्कारभागिनमुदारम्।

विषमपरमतिं च सुभगं गुरुभे काव्येक्षितः कुजः कुरुते।।59।।

गुरुभेऽसृक् शनिदृष्टः कुशरीरमुदारमाहवे पापम्।

अटनं (सुखधनरहितं)सुखलवरहितं परधर्मरतं कुजः कुरुते।।60।।

अतिकृष्णतनु शूरं योषिदपत्यार्थविस्तरैर्युक्तम्।

सूर्येक्षितोऽतितीक्ष्णं सौरगृहे भूमिजः कुरुते।।61।।

चपलमहितं जनन्या यमभेऽलंकारभागिनमुदारम्।

अस्थिरसौहृदमाढ्यं जनयति चन्द्रेक्षितो वक्रः।।62।।

अतिमधुरगम(अतिमधुरमटन)नमधनं रवितनयगृहे न निर्वृतमत्त्वम्।

कापटिकमधर्मपरं जनयति बुधवीक्षितो भौमः।।63।।

(अतिरूपम्)अविरूपं मन्दगृहे नृपतिगुणसमन्वितं स्थिरारम्भम्।

दीर्घायुषं क्षमाजो गुरुसंदृष्टः करोति बन्ध्वाप्तम्।।64।।

विविधोपभोगमाढ्यं शनिभे स्त्रीपोषणनुरतमेव।

शुक्रेण दृश्यमानो जनयति कलहप्रियं वक्रः।।65।।

नृपतिमतिवित्तवन्तं युवतिद्वेष्यं बहुप्रजं प्राज्ञम्।

मुखरहितं रणशौण्डं करोति शनिभे शनीक्षितो भौमः।।66।।

इति कल्याणवर्मविरचितायां सारावल्यां अङ्गारकचारो नाम पञ्चविंशोऽध्यायः।।