(भौमांशे)भोमेंशे कुजदृष्टो निकर्तनश्चन्द्रमाः(नंच) प्रचण्डश्च(ण्ड च)।
जनयति मायाबहुलं प्रवञ्चकं सूर्यजेन किल(कलि) पुरुषम्।।1।।
सूर्येण चौरघातकमथवाप्यारक्षकं शूरम्।
जीवेन मनुजनाथं ख्यातं विद्वत्समाराध्यम्।।2।।
शुक्रेण नृपतिसचिवं धनान्वितं स्त्रीविलेपनानुरतम्।
शीघ्रं वदन्ति चपलं सौम्येन निरीक्षिते चन्द्रे।।3।।
सितभागे सितदृष्टे योषिद्वस्त्रान्नपानधनसौख्यम्।
जनयतिं बुधेन चन्द्रो वाद्यज्ञं नृत्तगेयपरम्।।4।।
गुरुणा कविप्रधानं नयशास्त्रविशारदं नृपतिसचिवम्।
परदारदर्शनपरं(घर्षण) कामिनमारेण(कामिनमस्त्रेण बहुमान्यम्) बहुभृत्यम्।।5।।
सूर्येण महामूर्खं प्रियंवदं सततमन्नपानरुचिम्।
सौरेण वर्धकीनां गुणैश्च सदृशं दिशति चन्द्रः।।6।।
बुधभागे बुधदृष्टः शिल्पाचार्यं कविं शशी जनयेत्।
शुक्रेक्षितो विशालं गेयज्ञं वजनसाराढ्यम्।।7।।
नृपमन्त्रिणं गुणाढ्यं गुरुणा दृष्टः प्रतिष्ठतं कान्तम्।
भौमेक्षितोऽतिचोरं विवादकुशलं नरं रौद्रम्।।8।।
शास्त्रार्थकाव्यबुद्धिं(कार्यं) प्राज्ञं शिल्पिनमवेक्षितः शनिना।
रङ्गचरं विख्यातं जनयति सूर्येक्षितश्चन्द्रः।।9।।
स्वांशे दिनकरदृष्टः शशी कृशतनुमविक्षतशरीरम्(तनु परिक्षयशरीरम्)।
परधनरक्षणनिपुणं(हरणे) लुब्धं नितरां कुजेनापि।।10।।
सौरेणाकृत्यकरं वधबन्धविवादसन्तप्तम्।
(शुक्रेस्त्रोवेषधरं)शुक्रेण स्त्रीद्वेष्यं जनयेदथवा नपुंसकाकारम्।।11।।
नृपमन्त्रिणं नृपं वा जनयति गुरुणावलोकितश्चन्द्रः।
सौम्येनाधर्मरतं निद्राबहुलं च (सतमस्कम्)सततमध्वरतम्।।12।।
रविभागे रविदृष्टे सुरोषणः समुपलब्धकीर्तिधनः।
पापो निर्दय इन्दौ सौरेण प्राणिनां हन्ता।।13।।
भौमेन सुवर्णधनं ख्यातं नृपसत्कृतं प्रचण्डतरम्।
गुरुणा दृष्टो जनयति चमूपतिं वा नरेन्द्रं वा।।14।।
शुक्रेण दृष्टमूर्तिः सुतार्थिनं मृतसुतं(हृतसुतं) वाऽपि।
सौम्येन दैवचिन्तकमितिहासरतं च निधिभाजम्।।15।।
गुरुभागे गुरुदृष्टो विशदं नृपवल्लभं विपुलकीर्तिम्।
जनयति शशी सितेन स्त्रीणां भोगैः सुसंयुक्तम्।।16।।
बुधदृष्टो हास्यकरं नृपप्रियं नायकं वरूथिन्याः।
अस्त्राथार्यं कुरुते कुजेक्षितः सर्वतः ख्यातम्।।17।।
दोषेर्विविधैः ख्यातं दिनगरदृष्टो नरं (प्रणाश्य वा)प्रमाणस्थम्।
सौरेण वृद्धशीलं बलिभिश्च निराकृतं नीचम्।।18।।
सौरांशे शनिदृष्टः कृपणं रोगान्वितं मृतसुतं वा।
सूर्येणाल्पापत्यं व्याधिग्रस्तं विरूपतनुम्।।19।।
भौमेन नरपतिसमं स्वाढ्यं स्त्रीदुर्भगं सुखैर्युक्तम्।
शुक्रेण विषमशीलं युवतिभिरवधीरितं धीरम्(जरठम्)।।20।।
सौम्येन (पाननिरतं)पापनिरतं कुत्सिचरितं शशी सदा दृष्टः।
गुरुणा स्वकर्मनिरतं कुरुते पुरुषं न चोदात्तम्।।21।।
वर्गोत्तमे स्वकीये परकीयनवांशके(नवांशकेन्दुदृष्टिफलं) च दृष्टिफलम्।
पुष्टं मध्यं स्वल्पं विपरीतं स्यादनिष्टफलम्।।22।।
राशिफलं यद् दृष्टं पूर्वैः कथितं ग्रहैः शशाङ्कस्य।
तस्य निरोधो दृष्टो यद्यंशपतिर्बली भवति।।23।।
अंशपतेश्चन्द्रस्य च फलं विनिश्चित्य दर्शनकृतानि।
कथितानि यवनवृद्धाः फलानि सम्यग्व्यवस्यन्ति।।24।।