सौव(सेवा विन्नः)र्णाङ्गःस्थिरस्वः सहजविरहितः साहसी मानभद्रः(वानभद्रः)
कामार्तः क्षामजानु कुनखतनुकश्चञ्चलो मानवित्तः।
पद्मभैः पाणिपादैर्विततसुतजनो वर्तुलाकारनेत्रः
सस्नेहस्तोयभीरुर्व्रणविकृतशिराः स्त्रीजितो इन्दौ।।1।।
अत्युग्रतरो नृपतिः प्रणतानां मार्दवं (वहति)भजति जातः।
धीरः संग्रामरुचो रविणा दृष्टे शशिनि मेषे।।2।।
दन्ताक्षिरोगतप्तः (विषशिखितापास्त्रवैकृतशरीरः)शिखिवातादिक्षतशरीरः।
माण्डलिकः स्यान्मेषे कुजदृष्टे शशिनि (मूत्रकृच्छ्रार्तः)भूतार्तः।।3।।
(वामा विद्याचार्य।)नानाविद्याचार्यः सद्वाक्यः स्यान्मनोऽभीष्टः।
बुधदृष्टे मेषस्थे निशाकरे सत्कविर्विपुलकीर्तिः।।4।।
बहुभृत्यधनसमृद्धो दृष्टे गुरुणा पुमान् जातः।।5।।
सुभगः सुतधनयुक्तो वरयुवतिविभूषणोऽल्पभोक्ता च।
मेषे शिशिरमयूखे भृगुतनयनिरीक्षिते भवति।।6।।
विद्विष्टो बहुदुःखो दारिद्र्यतनुर्मलीमसोऽनृतवाक्।
मेषे शिशिरमयूखे रवितनयनिरीक्षिते भवति।।7।।
व्यूढोरस्कोऽतिदाता घनकुटिलकचः कामुकः कीर्तिशाली
कान्तः कन्याप्रजावान् वृषसमनयनो हंसलीलाप्रचारः।
मध्यान्ते भोगभागी पृथुक (कर)टिचरणस्कन्धजान्वास्यजङ्घः
सांकः पार्श्वास्यपृष्ठे ककु(ककुद)दि शुभगतिः क्षान्तियुक्तो गवीन्दौ।।8।।
कर्षकमतिकर्मकरं द्विपदचतुष्प(चदुष्पदैः समृद्धं।)दसमृद्धमत्याढ्यम्।
प्रायोगिकं प्रकुरुते वृषभे रविवीक्षितश्चन्द्रः।।9।।
अतिकामं कुजदृष्टो युवतिकृते नष्टदारमित्रजनम्।
हृदयहरं नारीणां मातु(मातुरपथ्य)र्न शुभं शशी वृषे कुरुते।।10।।
प्राज्ञं वाक्यविधिज्ञं प्रमुदितमिष्टं समस्तभूतानाम्।
जनयति बुधेन दृष्टः शशी वृषेऽनुपमगुणैयुर्क्तम्।।11।।
स्थिरपुत्रदारसुहृदं मातावितृभक्तिमन्तमतिनिपुणाम्।
धार्मिकमतिविख्यातं गवि गुरुदृष्टः शशी कुरुते।।12।।
भूषणयानगृहाणां शयनासनगन्धवस्त्रमाल्यानाम्।
भागिनमुपभोक्तारं सितेक्षितो यदि शशी कुरुते।।13।।
धन(धनसुखहीनमनिष्टं मातुर्वृषभे करोति युवतीनाम्।) हीनमनिष्टकरं वृषभे द्वेष्यं सदा च युवतीनाम्।
सुतमित्रबन्धुसहितं रविसुतदृष्टः शशी कुरुते(पुरुषम्।)।।14।।
पूवार्धे सम्भूतो जननीमृत्युं करोति न चिरेण।
पश्चादर्धे वृषभे पितुर्वियोगं शशी कुरुते।।15।।
उन्नासश्यामचक्षुः सुरतविधिकलाकाव्यकृद्भोगभोगी
हस्ते मत्स्याधिपांको विषयसुखरतो बुद्धि(बुद्बुदाक्षः)दक्षः सिरालः।
कान्तः सौभाग्यहास्यप्रियवचनयुतः स्त्रीजितो व्यायताङ्गो
याति क्लीबैश्च सख्यं शशिनि मिथुनगे मातृयुग्मप्रमुष्टः।।16।।
प्रज्ञाधनं प्रकाशं मिथुने रूपान्वितं सुधर्मिष्ठम्।
अतिदुःखितमल्पार्थं करोति सूर्येक्षितश्चन्द्रः।।17।।
अतिशूरमतिप्राज्ञं सुखवाहनविभवरूपसम्पन्नम्।
कुरुते मिथुने चन्द्रो वक्रेण निरीक्षितोऽवश्यम्।।18।।
अर्थोत्पादकुशलं कुरुते ह्यपराजितं सुधीरं च।
पार्थिवमखण्डिताज्ञं मिथुने बुधवीक्षितश्चन्द्रः।।19।।
विद्याशास्त्राचार्य विख्यातं सत्यवाचमतिरूपम्।
मान्यं वाग्मिनमिन्दुः करोति गुरुवीक्षितो मिथुने।।20।।
वरयुवतिमाल्यवस्त्रैर्वरवाहनयानभूषणैर्मणिभिः।
क्रीडां कुरुते पुरुषो भृगुदृष्टे शशनि मिथुनस्थे।।21।।
कुरुते बान्धवरहितं युवतिसुखविभूतिवर्जितं चापि।
अधनं लोकद्वैष्यं जितुमे शनिनेक्षितश्चन्द्रः।।22।।
युक्तः सौभाग्य(सौभाग्यधैर्यगृह।)योगैर्गृहसुहृदटनज्योतिषज्ञानशीलैः
कामासक्तः कृतज्ञः क्षितिपतिसचिवः सत्प्रमाणः प्रवासी।
सोन्मादः केशकल्पो जलकुसुमरुचिर्हानिवृद्ध्यानुयातः
प्रासादोद्यानवापीप्रियकरणरतः पीनकण्ठः कुलीरे।।23।।
नरपतिपुरुषमधन्यं धनरहितं क्ले(लेखहारकं)शकारकं वाऽपि।
कुरुते स्वगृहे चन्द्रो रविदृष्टो दुर्गपालं च।।24।।
शूरं विकलशरीरं मातुरनर्थावहं प्रियं दक्षम्।
क्षितितनयवीक्षिततनुर्जनयति चन्द्रो नरं स्वगृहे।।25।।
अविकलमतिं नयज्ञं जनयति बुधवीक्षितः शशी स्वगृहे।
धनदारपुत्रवन्दं वृपसचिवं सौख्यवन्तं च।।26।।
नृपतिं नृपगुणयुक्तं जनयति चन्द्रः सुरेज्यसंदृष्टः।
स्वगृहे सुखितसुभार्यं नयविनयपराक्रमाक्रान्तम्।।27।।
धनकननवस्त्रयोषिद्रत्नानां भाजनं शशी कुरुते।
कर्कटके सितदृष्टो वेश्याजननायकं कान्तम्।।28।।
अटनमसुखं दरिद्रं मातुरनिष्टं प्रियानृतं पापम्।
शनिना दृष्टः स्वगृहे करोति चन्द्रो नरं नीचम्।।29।।
स्थूला(स्थूलास्यो मन्द।)स्थिर्मन्दरोमा पृथुवदनगलो ह्रस्वपिंगाक्षियुग्मः
स्त्रीद्वेषी क्षुप्तिपासाजठररदरुजापिडितो मांसभक्षः।
दाता तीक्ष्णो (ऽल्पपुत्रो)ह्यपुत्रो विपिननगरतिर्मातृवश्यः सुवक्षा
विक्रान्तः कार्यलापी शशभृति रविभे सर्वगम्भीरदृष्टिः।।30।।
(नृपतिपुत्रं।)नृपपतिसपत्नं कुरुते प्रोत्कृष्टगुणं महास्पदं(महास्वनं धीर) वीरम्।
रविणा दृष्टः सिंहे पापरतं विश्रुतं चन्द्रः।।31।।
सेनापतिं प्रचण्डं वरयुवतिसुतार्थवाहनोपेतम्।
जनयत्युत्तमपुरुषं कुजेक्षितश्चन्द्रमाः सिंहे।।32।।
स्त्रीसत्त्वं स्त्रीललितं स्त्रीवश्यं युवतिसेवकं सिंहे।
कुरुते बुधेन दृष्टो धनसुखभोगान्वितं चन्द्रः।।33।।
अभिजातं कुलपुत्रं बहुश्रुतं गुणसमृद्धं च।
कुरुते नरेन्द्रतुल्यं गुरुदृष्टश्चन्द्रमाः सिंहे।।34।।
प्रमदाविभवैर्युक्तं रोगिणमपि युवतिसेवकं कुरुते।
सुरतविधिज्ञं प्राज्ञं शशी हरौ शुक्रसन्दृष्टः।।35।।
कर्षकमधनं कुरुतेऽनृतवाचं दुर्गपालकं सिंहे।
रविजेन तथा दृष्टो युवतिसुखैर्हीनमल्पकं च शशी।।36।।
स्त्रीलोलो लम्बबाहुर्ललितत(तनुयुत)नुमुखश्चारुदन्ताक्षिणकर्णो
विद्वानाचार्यधर्मा प्रियवचनयुतः सत्यशौचप्रधानः।
धीरः सत्वानुकम्पी परविषयरतः क्षान्तिसौभाग्यभागी
कन्याप्रायप्रसूतिर्बहुसु(बहुसुरतहितः)तरहितः कन्यकायां शशाङ्के।।37।।
नृपकोशकरं ख्यातं गृहीतवाक्यं विशिष्टकर्माणम्।
कन्यायां रविदृष्टो भार्याहीनं शशी कुरुते।।38।।
शिल्पाचार्यं ख्यातं धनवन्तं शिक्षितं सुधीरं च।
कन्यायां कुजदृष्टो मातुरनिष्टं शशी कुरुते।।39।।
ज्योतिषकाव्यनिधिज्ञं विवादकलहेषु विजयिनं (सुभगम्)सुतराम्।
सातिशयं कन्यायां जनयति निपुणं बुधेक्षितश्चन्द्रः।।40।।
बन्धुजनाढ्यं सुखिनं नृपकृत्यकरं गृहीतवाक्यं च।
कन्यायां गुरुदृष्टो जनयति विभवान्वितं चन्द्रः।।41।।
कन्यायां बहुदारं विविधालङ्करभोगिनमथाढ्यम्।
सततमिहोर्जितमुदितं कुरुते भृगुणा निरीक्षितश्चंद्रः।।42।।
अदृढस्मृतिं दरिद्रं सुखरहितममातृकं युवतिवश्यम्।
कन्यायां यमदृष्टः स्त्रीभागधनं शशी कुरुते।।43।।
उन्नासो व्यापताक्षः कृशवदनतनर्भुरिदारो वृषाढ्यो
गोभूभ्यः(गु ह्यः)शौचसारो वृषसमवृषणो विक्रमज्ञः क्रियेशः।
भक्तो देवद्विजानां बहुविभवयुतः स्त्रीजितो हीनदेहो
धान्यादानैकबुद्धिस्तुलिनि शशधरे बन्धुवर्गोपकारी।।44।।
अधनं व्याधितमटनं परिभूतं भोगविप्रयुक्तं च।
असुतमसारं जूके जनयति रविवीक्षितश्चन्द्रः।।45।।
तीक्ष्णं चोरं क्षुद्रं परयोषिद्गन्धमाल्यसंयुक्तम्।
मतिमन्नयनातुरंग जनयति वक्रेक्षितश्चन्द्रः।।46।।
दृष्टोः बुधेन चन्द्रः कलाविदग्धं प्रभूतधनधान्यम्।
शुभवाक्यं विद्वांसं देशख्यातं तुलाधरे कुरुते।।47।।
जीवेक्षितस्तुलायां जनयति सर्वत्र पूजितं हिमगुः।
क्रयविक्रयेषु विद्वांसं रत्नादिषु भाण्डजातेषु।।48।।
ललितमरोगं सुभगं समुपचिताङ्गं धनान्वितं प्राज्ञम्।
विविधोपायविधिज्ञं कुरुते भृगुवीक्षितः शशी तुलके।।49।।
कुरुते शशी धनाढ्यं प्रियवाक्यं वाहनैर्युतं जूके।
विषयरतिं सुखरहितं भास्करिदृष्टो हितं मातुः।।50।।
लुब्धो वृत्तोरुजङ्घः कठिनतरतनुर्नास्तिकः क्रूरचेष्टः
चौरो बाल्ये रुगार्तो हतचिबुकनखश्चारुनेत्रः समृद्धः।
कर्मोद्युक्तः प्रदक्षः परयुवतिरतो बन्धुहीनः प्रमत्तः
चण्डो राज्ञा हृतस्व: पृथुजठरशिराः कीटभे शीतरश्मौ।।51।।
कुरुते लोकद्वेष्यं बुधमटनं चैव वित्तवन्तं च।
दिनकरदृष्टोऽलिगतश्चन्द्रः सुखवर्जितं पुरुषम्।।52।।
अनुपमधैर्यं कुरुते नृपतिसमं वृश्चिके विभूतियुतम्।
शुरमजय्यं समरे प्रभक्षणं भूमिजने संदृष्टः।।53।।
अचतुरममृष्टवाक्यं यमलापत्यं चु युक्तिमन्तं च।
जनयति बुधेन दृष्टः कूटकरं वृश्चिके च गीतज्ञम्।।54।।
कर्मासक्तं कुरुते लोकद्वेष्यं च वित्तवन्तं च।
गुरुणा दृष्टोऽलिगतो निशाकरे रूपवन्तं च।।55।।
अतिमदम(अतिमति।)तीव सुभगं (वर)धनवाहनभोगललितमिह कीटे।
युवतिविनाशितसारं जनयति भृगुवीक्षितश्चन्द्रः।।56।।
नीचापत्यं कृपणं व्याधितमधनं च सत्यहीनं च।
जनयत्यन्तकदृष्टो नरमधमं चन्द्रमाः कीटे।।57।।
कुब्जाङ्गो वृत्तनेत्रः पृथुहृदयकटिः पीनबाहुः प्रवक्ता
दीर्घांसो दीर्घकण्ठो (लालितं कीचे)जलतटवसतिः शिल्पविद्गूढगुह्यः।
शूरो दृष्टोऽस्थिसारो विततबहुबलः स्थूलकण्ठोष्ठघोणो
बन्धुस्नेही कृतज्ञो धनुषि शशिधरे संहताङ्घ्रिः प्रगल्भः।।58।।
नृपतिमथढ्यं कुरुते शूरं विख्यातपौरुषं चापे।
भास्करदृष्टश्चन्द्रस्त्वनुपमसुखवाहनोपेतम्।।59।।
सेनापतिं समृद्धं सुभगं प्रख्यापौरुषं पुरुषम्।
जनयत्यनुपमभृत्यं क्षितिसुतदृष्टः शशी धनुषि।।60।।
बहुभृत्यं त्वक्सारं ज्योतिषशिल्पक्रियादिनिपुणं च।
बुधदृष्टो (नाट्याचार्य)हिमरश्मिर्नग्नाचार्यं हये कुरुते।।61।।
अनुपमदेहं कुरुते पृथ्वीपालस्य मन्त्रिणं चापे।
त्रिदशगुरुदृष्टमूर्तिर्धनधर्मसुखान्वितं चन्द्रः।।62।।
सुखिनमतीव हि ललितं सुभगं पुत्रार्थकामवन्तं च।
चापे सुमित्रभार्यं भार्गवदृष्टः करोतीन्दुः।।63।।
प्रियवादिनं सुवाक्यं बहुश्रुतं सत्यवादिनं सौम्यम्।
अभिजातं नृपपुरुषं जनयति सौरेक्षितः शशी धनुषि।।64।।
गीतज्ञः शीतभीरुः पृथुलतरशिराः सत्यधर्मोपसेवी
प्रांशुः ख्यातोऽल्परोषो मनसिभवयुतो निर्घृणस्त्यक्तलज्जः।
चार्वक्ष:(चार्वङ्गः) क्षामदेहो गुरुयुवतिरतः सत्कविर्वृत्तजङ्घो
मन्दोत्साहोऽतिलुब्धः शशिनि मकरगे दीर्घकण्ठोऽतिकर्णः(ऽतिदीर्घः)।।65।।
अधनं दुःखितमटनं परकर्मरत मलीमसं कुरुते।
मकरे (कुविषयनाथं शश्यल्पमतिं निरीक्षतो।)कुवलयनाथः शिल्पमतिं वीक्षितो रविणा।।66।।
अतिविभवमत्युदारं सुभगं धनसंयुतं मृगे पुरुषम्।
वाहनयुतं प्रचण्डं करोति वक्रेक्षितश्चन्द्रः।।67।।
मूर्खं प्रवासशीलं गतयुवतिं चञ्चलं मृगे तीक्ष्णम्।
जनयति बुधेन दृष्टः सुखरहितं निर्धनं पुरुषम्।।68।।
भूपतिमनुपम वीर्यं नृपतिगुणैः संयुतं मृगे जातम्।
बहुदारपुत्रमित्रं जनयति गुरुवीक्षितश्चन्द्रः।।69।।
व(प)रयुवतिधनविभूषणवाहनमालान्वितं नरं मकरे।
सोपक्रोशमपुत्रं जनयति भृगुवीक्षितश्चन्द्रः।।70।।
अलसं मलिनं सधनं मदनार्त पारदारिकमसत्यम्।
दिवसकरपुत्रदृष्टः करोति चन्द्रो नरं मकरे।।71।।
उद्धोणो रूक्षदेहः पृथुकरचरणो मद्यपानप्रसक्तः
सद्द्वेष्यो धर्महीनः परसुतजनकः स्थूलमूर्धा कुनेत्रः।
शाठ्यालस्याभिभूतो विपुलमुखकटिः शिल्पविद्यासमेते
दुःशीलो दुःखतप्तो (घटभृगुपगते)घटभमुपगते रात्रिनाथे दरिद्रः।।72।।
अतिमलिनमति च शूरं नृपरूपं धार्मिकं कृषिकरं च।
कुरुते दिनकरदृष्टो घटधरसंस्थः क्षपानाथः।।73।।
कुम्भेऽतिसत्यवाक्यं मातृगुरुधनैर्वियुक्तमलसं च।
विषमं परकार्यरतं करोति भौमेक्षितश्चन्द्रः।।74।।
(अशनो)शयनोपचारकुशलं गीतविधिज्ञं प्रियं च युवतीनाम्।
तनुविभवसुखं पुरुषं करोति बुधवीक्षितः शशीकुम्भे।।75।।
ग्रामक्षेत्रतरूणां वरभवनानां वराङ्गनानां च।
कुरुते भोगिनमार्यं साधुं गुरुवीक्षितः शशी कुम्भे।।76।।
नीचमपुत्रममित्रं कातरमाचार्यंनिन्दितं पापम्।
कुरुते शशीकुयुवतिं सितेक्षितो घटधरेऽल्पसुखम्।।77।।
नखरोमधरं मलिनं परदाररतं शठं विधर्माणम्।
स्थावरभागिनमाढ्यं शशी घटे सौरसंदृष्टः।।78।।
शिल्पोत्पन्नाधिकारोऽहितजयनिपुणः शास्त्रविच्चारुदेहो
गेयज्ञो धर्मनिष्ठो बहुयुवतिरतः सौख्य(सोम्यवाक्)भाक् भूपसेवी।
र्इषत्कोपो महत्कः सुखनिधिधनभाक् स्त्रीजितः सत्स्वभावो
(ज्ञाने सक्तः)यानासक्तः समुद्रेः तिमियुगलगते शीतगौ दानशीलः।।79।।
तीव्रमदनप्रकाशं सुखिनं सेनापतिं धनसमृद्धम्।
जनयति दिनकरदृष्टः सुमुदितभार्यं शशी मीने।।80।।
परिभूतं (सुख)सुखरहितं कुलटापुत्रं (पापरहितं)च पापनिरतं च।
जनयति नक्षत्रयतिं क्षितिसुतदृष्टो झषे शूरम्।।81।।
जनयति बुधेन दृष्टो मीनस्थश्चन्द्रमाः पुरुषम्।
भूपतिमतीव सुखिनं (परयुवति)वरयुतिमावृतं वश्यम्।।82।।
गुरुदृष्टो मीनस्थो ललितं चन्द्रोऽग्रमाण्डलिकम्।
अत्याढ्यं सुकुमारं बहुभिः स्त्रीभिर्वृतं जनयेत्।।83।।
कुरुते शशी सुशीलं रतिमन्तं नृत्यवाद्यगेयरतम्।
शुक्रेक्षितो झषस्थो हृदयहरं कामिनीनां च।।84।।
विकलमहितं जनन्याः कामार्तं पुत्रदारमतिहीनम्।
कुरुते रविसुतदृष्टो नीचविरूपाङ्गनासक्तम्।।85।।
राशिपतौ बलयुक्ते राशौ च बलान्विते तथा चन्द्रे।
राशिफलं स्यात् सकलं नीचोच्चविधिना च संचिन्त्यम्।।86।।
इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्याय: षष्ठ:।।