।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

द्वाविंशोऽध्यायः:

(हो. र. 3 अ. 417 पृ.।)सर्वस्य सर्वकाल ग्रहराशिसमुद्भवं फलं यस्मात्(यत्स्यात्)।

कथयाम्यतः प्रयत्नात् शेषाचार्यन् समाश्रित्य।।1।।

शास्त्रर्थकृतिकलाभिः ख्यातो युद्धप्रियः प्रचण्डश्च।

उद्युक्ते भ्रमणरुचिर्दृढास्थिबन्धः क्रिये श्रेष्ठः।।2।।

साहसकर्माभिरतः पित्तासृग्व्याधिकान्तिसत्त्वयुतः।

सूर्ये भवति नरेन्द्रः स्वतुङ्गराशौ नरो जातः।।3।।

दानरतो बहुभृत्यो ललितो युवतिप्रियो मृदुशरीरः।

कुजभवनगते सूर्ये चन्द्रेण निरीक्षिते भवति।।4।।

सङ्ग्रामोत्कटवीर्यः क्रूरः संरक्तनेत्रकरचरणः।

भौमगृहे कुजदृष्टे भानौ तेजोबलोपेतः।।5।।

प्रेष्यः परकर्मरतो मन्दधनः सत्त्वहीनबहुदुःखः।

भानौ बुधसंदृष्टे कुजभवने मलिनकायश्च।।6।।

भूरिद्रविणो दाता नृपमन्त्री दन्डनायको वाऽपि।

तरणौ सुरगुरुदृष्टे कुजभवने जायते श्रेष्ठः।।7।।

(कुत्सितरामासक्तः)कुत्सिरामाभर्ता बहुशत्रुः क्षीणबान्धवो दीनः।

भौमगृहे सितदृष्टे दिवाकरे जायते कुष्ठी।।8।।

दुःखपरिप्लुतदेहः कार्योन्मादी भवेद्विमूढमतिः।

भौमर्क्षे दिवसकरे रवितनयनिरीक्षिते मूर्खः।।9।।

वदनक्षिरागतप्तः क्लेशसहिष्णुर्न(कृशोन बहुपुत्रः)चापि बहुशत्रुः।

भक्तो व्यवहारतौ मतिमान्वन्ध्याङ्गनाद्वेषी।।10।।

भोजनमाल्याच्छादनगन्धयुतो गेयवाद्यनृत्तज्ञः।

दिवसकरे वृषसंस्थे भवति पुमान् सलिलभीरुश्च।।11।।

वेश्यारतिर्मृदुवचा बहुयुवतिसमाश्रयो भवति।

दिननाथे सितभवने दृष्टे शशिना सलिलजीवी।।12।।

लिपिलेख्यकाव्यपुस्तकगेयादिविधावतीव निपुणमतिः।

दिननाथे सितभवने बुधसंदृष्टे भवेत् सुतनुः।।14।।

बहुशत्रुमित्रपक्षो नृपसचिवश्चारुलोचनः  कान्तः।

दिननाथे सितभवने गुरुणा दृष्टे (सदोद्युक्तः, सद्वोद्विग्नः)सुतोषितो नृपति।।15।।

नृपतिर्नृपमन्त्री वा स्त्रीधनबहुयोगसंयुतो मतिमान्।

दिननाथे सितभवने सितसंदृष्टे भवेद्भीरुः।।16।।

नीचोऽलसो दरिद्रो वृद्धस्त्रीसंगतो विषमशीलः।

दिननाथे सितभवने शनिदृष्टे व्याधिसन्तप्तः।।17।।

मेधावी वाङ्मधरो वात्सल्यगुणैर्युतः श्रुताचारः।

विज्ञानशास्त्रकुशलो बहुवित्त उदारचेष्टश्च।।18।।

निपुणो ज्योतिषवेत्ता मध्यमरूपो द्विमातृकः सुभगः।

मिथुनस्थे दिनभर्तरि जातः पुरुषोः विनीतः स्यात्।।19।।

रिपुबान्धवकृतपीडा विदेशगमनार्दितो बहुविलापी।

बुधभवने दिनभर्तरि दृष्टे चन्द्रेण पुरुषः स्यात्।।20।।

रिपुभयकलहसमेतो रणापवादातिदुःखतो दीनः।

बुधराशौ दिनभर्तरि कुजेक्षिते भवति सव्रीडः।।21।।

पतिचरितः ख्यातो बान्धवसहितोऽरिभिश्च संत्यक्तः।

बुधराशौ दिनभर्तरि (बुधेन दृष्टे कृशत्नः स्यात्)बुधदृष्टेऽक्ष्यामययुतः स्यात्।।22।।

बहुशास्त्रदारितमुखो राज्ञां दूतो विदेशगश्चण्डः।

बुधराशौ दिनभर्तरि गुरुणा दृष्टे सदोन्मादः।।23।।

धनदारपुत्रसुखितो(सहितो) मन्दस्नेहक्तवानामयः (सुभगः)सुखितः।

बुधराशौ दिनभर्तरि सितसंदृष्टे भवेच्चपलः।।24।।

बुहुभृत्योद्विग्नमना बहुबन्धविपोषणे सदा (खिन्नः)निरतः।

बुधराशौ दिनभर्तरि सौरेण निरीक्षिते कितवः।।25।।

कर्मसु चपलः ख्यातो गुणैर्नृपाणां स्वपक्षविद्वेषी।

स्त्रीदुर्भग: सुरूप: कफपित्तार्त: श्रमाभि‍सन्तप्त:।।26।।

(मद्यप्रियः सधर्मो)मद्यरुचिः समधर्मा मानी वरवाक्यदेशदिग्वेत्ता।

सूर्ये कुलोरसंस्थे बहुस्थितिः पितृगणद्वेष्टा।।27।।

राजा राजसमो वा (उडु)जलपण्यधनस्तिरः(स्थितिः) क्रूरः।

कर्कटके तीव्रकरे दृष्टे शशिना भवेत्पुरुषः।।28।।

(शोफ)शोषभगन्दररोगैः सन्तप्तो बन्धुभिः सह (विरुद्धः)विरक्तः।

कर्कटके दिननाथे भौमेन निरीक्षिते (विसतः)पिशुनः।।29।।

विद्यामानयशोभिः ख्यातो नृपवल्लभो भवेन्निपुणः।

सूर्ये कुलीरराशौ बुधेन दृष्टे विगतशत्रुः।।30।।

यहाँ तक 4-3-2020 को करेक्शन हो गया है

श्रेष्ठो राज्ञो मन्त्री सेनानाथोऽथ सुप्रसिद्धश्च।

सूर्ये शशिभवनस्थे गुरुणा दृष्टे कलाभ्यधिकः।।31।।

स्त्रीसेवी युवतिधनः परकार्यकरो रणे (प्रभग्नश्च)प्रचण्डश्च।

कर्कटकस्थे सूर्ये सुक्रेण निरीक्षिते प्रियालापः।।32।।

कफमारुतरोगार्तः परस्वहारी विलोममतिचेष्टः।

कर्कटकस्थे भानौ स्वपुत्रदृष्टे पुमान् पिशुनः।।33।।

रिपुहन्ता क्रोधपरो विशिष्टचेष्टो वनाद्रिदुर्गचरः।

उत्साही सच्छूरस्तेजस्वी मांसभक्षणो रौद्रः।।34।।

गम्भीरः स्थिरसत्त्वो (मुखरः)बधिरः क्षिपिपालको धनसमृद्धः।

सिंहस्थे दिवसकरे ख्यातः पुरुषो भवेज्जातः।।35।।

मेधावी सुकलत्रः कफार्दितो भूपवल्लभो मनुजः।

आदित्ये सिंहस्थे चन्द्रेण निरीक्षिते भवति।।36।।

परदाररतः शूरः साहकारी कृतोद्यमो रौद्रः।

दिवसकरे सिंहस्थे कुजेन दृष्टे प्रधानश्च।।37।।

विद्वान् लिपिलेख्यकारः कितवासेवी परिभ्रमति हीनः।

सिंहस्थे दिवसकरे बुधेन दृष्टे न बहुसत्त्वः।।38।।

देवारामतटाकान् करोति सत्त्वाधिको विजनशीलः।

सिंहे सहस्ररश्मौ सुरगुरुदृष्टे महाबुद्धिः।।39।।

दुर्नामकुष्ठरोगरभिभूतो निर्दयो विगतलज्जः।

सिंहे तिमिविनाशे शुक्रेण निरीक्षिते जातः।।40।।

कार्यंविनाशनदक्षः षण्ढो जातः परोतापकारः।

सिंहस्थे दिवसकरे स्वपुत्रदृष्टे पुमान् भवति।।41।।

स्त्रीतुल्यनुर्ह्रीमान् लिपिवेत्ता दुर्बलश्च वल्गुकथः।

मेधावी लघुसत्त्वो विद्वान् शुश्रूषकः (सुगुणः)सुरगुरूणाम्।।42।। 

संवाहनादिकर्मसु दक्षः श्रुतिगेयवाद्यपरितुष्टः।

कन्यायां दिवसकरे जातो मृदुदीनवाक्यश्च।।43।।

(सङ्ग)भङ्गक्षयव्ययार्तो विदेशमार्गादिलम्पटो द्विष्ठः।

नीचोपहतप्रीतिर्हिरण्यलोहादिपण्यजीवी च।।44।।

द्वेष्यःपरकर्मरतः परदारतिः पुमान् भवेन्मलिनः।

सूर्ये  तुलाधरस्थे नृपपरिभूतः प्रगल्भश्च।।45।।

अनिवारितरणवेगः श्रुतिधर्मरतो न सत्यवाङ्मूर्खः।

प्रविनष्टदुष्टयुवतिः क्रूरः कुस्त्रीविधेयश्च।।46।।

क्रोधपरोऽसद्वृत्तो लोभिष्ठ: कलहवल्लभोऽनृतवाक्।

शस्त्राग्निविषग्रस्तः पितुर्जनन्याश्च दुर्भगः कीटे।।47।।

द्रव्यान्वितो नृपेष्टो जातः प्राज्ञः सुरद्विजानुरतः।

शस्त्रास्त्रहस्तिशिक्षानिपुणो व्यवहारयोग्यश्च।।48।।

पूज्यःसतां प्रशान्तो धनवान् विस्तीर्णपीनचारुतनुः।

बन्धूनां हितकारो सत्त्वयुतः कार्मुके सूर्ये।।49।।

वाग्बुद्धि विभवपुत्रैः समन्वितो नृपसमो विगतशोकः।

वाक्पतिराशौ तपने दृष्टे चन्द्रेण सुशरीरः।।50।।

संग्रामे लब्धयशाः स्फुटवचनो वित्तसौख्यसम्पन्नः।
 सूर्ये वाक्पतिराशौ भौमेन निरीक्षते चण्डः।।51।।

मधुरवचनो लिपिज्ञःकाव्यलागोष्ठियानधातुज्ञः।

गुरुभे सवितरि दृष्टे बुधेन जनसंमतो भवति।।52।।

विचरति नरेन्द्रभवने नृपतिर्वा वारणाश्चधनयुक्तः।

सुरगुरुगृहै विवस्वति गुरुणा दृष्टे सदा विद्वान्।।53।।

दिव्यस्त्रोभोगयुतः सुगन्धमाल्यादिभिः सहितः।

सुरगुरुभवने भानौ शुक्रेण निरीक्षते शान्तः।।54।।

अशुचिः परान्नकांक्षी नीचानुरतश्चदुष्पदकीड:

देवेज्यगृहे सूर्ये मन्देन निरीक्षिते भवति।।55।।

लुब्धः कुस्त्रीसक्तः कुकर्मसंवर्धितः सतृष्णश्च।

बहुकार्यरतो भीरुर्विहीनबन्धुश्चलप्रकृतिः।।56।।

अटनप्रियोऽल्पसत्त्वः स्वपक्षविक्षोभनाशितसमस्तः।

मकरस्थे दिवसकरे जातो बहुभक्षक: पुरुषः।।57।।

मायापटुश्चलमतिः स्त्रीसङ्गान्नमष्टधनसौख्यः।

मन्दगृहे तीव्रकरे चन्द्रेण निरीक्षिणे भवति।।58।।

व्याधिभिररिभिर्ग्रस्तःपरकलहाच्स्त्रविक्षतशरीरः।

मन्दगृहे तिमिररिपौ भौमेन निरीक्षिते विकलः।।59।।

शूरः षण्डप्रकृतिः परस्वहारी न (साधु)सारसर्वाङ्गः।

नलिनीदयिते शनिभे बुधेन संवीक्षिते भवति।।60।।

शोभनकर्मा मतिमान् सर्वेषामाश्रयो विपुलकीर्तिः।

कोणगृहे दिनभर्तरि गुरुणा दृष्टे मनस्वी च।।61।।

शङ्खप्रवालमणिभिर्जीवति वेश्याङ्गनीधनसमृद्धः।

कोणभवने दिनपतौ भृगुणा दृष्टे सुखी जातः।।62।।

ध्वंसयति शत्रुपक्षं नरेन्द्रसन्मानवर्धिताश्वासः।

भानौ शनैश्चरगृहे शनिदृष्टे सूयते योऽसौ।।63।।

हृद्रगी बहुसत्त्वः सतां विगर्ह्योऽतिरोषश्च।

परदाराणां सुभगः कर्मस्वतिनिश्चितो भवति।।64।।

दुःखप्रायोऽल्पधनः शठश्चलितसौहृदो मलिनमूर्तिः।

कुम्भधरेऽर्के जातः पिशुनः स्यात् दुष्प्रलापश्च।।65।।

सुहृदां संग्रहशीलः स्त्रीप्रीत्या लब्धसौख्यसंभारः।

प्राज्ञो बहुशत्रुघ्नः क्षयोदयी भवति धनकीर्त्या।।66।।

सत्सुतभूत्याप्तयशा जलपण्यधनः सुवागनृतवादी।

ऊर्जितगुह्यरुगार्तो बहुसहजो मीनसंस्थेऽर्के।।67।।