यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना।
अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये।।1।।
नौच्छत्रकूटकार्मुकशृङ्गाटकवज्रदामनीपाशाः।
वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि।।2।।
माला सर्पार्धेन्दु यवकेदारो गदाविगयूपाः।
युगशकटशूलदण्डा जगतो योगैरेभिः प्रकीर्त्यते प्रसवः।
आश्रयजातान् प्राहुर्माणित्था मुसलरज्जुनलयोगान्।।4।।
गोलयुगसूलपाशा वीणाकेदारदामनीसंज्ञाः।
सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः(द्र.बृ.जा. 35।5।)।।5।।
द्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणोक्ते।
आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रैः(सावित्रे)।।6।।
आश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ताः।
अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः।।7।।
नन्दति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः।
प्रायेण सौख्ययुक्ताश्चाकृतियोगेषु ये जाताः।।8।।
परभाग्यलब्धसौख्या धनभाग्यैरेव (परभाग्यैरेव जीपितास्तेषाम्)जीवितं तेषाम्।
संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः।।9।।
क्वचित् स्वभाग्यैः क्वचिदेवमेव क्वचित्पराद्भूपतितं फलं वा(च)।
क्वचित्सुखं दुःखमतीव कष्टं दलाख्ययोगे(समार्धयोगे) पुरुषो लभेत।।10।।
होरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः।
नौकूटच्छत्रकार्मुकनिर्दिष्टाः पूर्वयवनेन्द्रै:(द्र.वृ.पा.65।14।)।।11।।
लग्नादिकण्टकेभ्यश्चतुर्गृंहावस्थितैर्ग्रहैर्योगाः।
यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम्(द्र.वृ.पा.35।13 तथा वृ.जा.12।7।9)।।12।।
सप्तर्क्षगैर्ग्रहेन्दैः केन्द्रादन्यत्र कीर्तितोऽर्धशशी।
केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम(द्र. वृ. जातक 12।7, 4तथा 35।9।)।।13।।
लग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम्।
विपरीतैर्यवयोगो मिश्रैः पद्मं बहिःस्थितैर्वापी(द्र.वृ.पा. 31।11 तथा वृ.जा.12।5।)।।14।।
हौरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः।
उदयान्यगैस्त्रिकोणे हल इति श्रृङ्गाटकं सलग्ने तत् (द्र.वृ.पा.35।8-10।वृ.जा. 12।4।)।।15।।
राश्यन्तरितैर्लग्नात् षट्भवनगतैर्भवेच्चक्रम्।
अर्थात्तथैव यातैश्चक्राकारो भवेज्जलधिः।।16।।
इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः।
आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य(द्र.वृ.पा. 35।8, वृ.जाय12।9।)।।17।।
उभयस्थिरचरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः।
केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ(द्र.वृ.पा. 35।7, वृ.जा.11।2।)।।18।।
एकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः।
गोलयुगशूसंज्ञाः केदारः पाशदामनीवाणाः(द्र.वृ.पा. 35।16-17, वृ.जा12।12।10।)।।19।।
एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम्।
सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः।।20।।
सलिलोपजीविविभवा बह्वाशाः ख्यातकीर्तयो हृष्टाः।
कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः।।21।।
आनृतिककितवबन्धपाला निष्किञ्चनाः शठाः क्रूराः।
कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः(द्र.वृ.पा.35।37, वृ.जा.12।16।)।।22।।