योगा विभक्ताश्चतुरादिसंस्थैर्व्यासाद्ग्रहै: कैरपि तापसानाम्।
जन्मादि(जन्मार्हतैषां) तेषामपरैर्मुनीन्द्रै: संवेदितं तत्कथयाम्यशेषात्।।1।।
सूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु।
एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव।।2।।
कुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च।
सूर्येन्दुभूपुत्रशनैश्चरै: स्यादेकर्क्षगै: प्रव्रजितो मनुष्य:।।3।।
आदित्यगुर्वार्किशशङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च(सौरयश्च)।
एकर्क्षसंस्थैस्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्रा:।।4।।
सितार्कभौमार्कसुता महाबला: सुरेज्यभूपुत्रकसूर्य(सौर) सौरयः(सूर)।
कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम्।।5।।
कुजार्किसोमात्मजदेववन्दितै: कुजार्किचन्द्रात्मजसूर्यभार्गवै:।
रवीन्दुभौमासितदानवप्रियैर्भवन्ति सूता व्रतसंयुता नरा:।।6।।
सितारसूर्यात्मजजीवभास्करै: कुजेन्दुदेवेड्यबुधार्कनन्दनै:।
सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रय:।।7।।
चन्द्रेन्दुपुत्रारसुरेड्यभास्करै: शशाङ्कसूर्येन्दुजशुक्रभूमिजै:।
स्थितैरमीभि: सहितैर्नृसम्भवा भवन्ति वन्द्या मनुयोऽन्नदूषका:।।8।।
रवीन्दुभौमेन्दुजजीवभार्गवै: शशाङ्कभौमार्किबुधेड्यभास्करै:।
कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभि: सहितैर्नरो व्रती।।9।।
सितेन्दुजीवार्कजसूर्यलोहितै: सितार्कभौमार्किशशाङ्कसोमजै:।
एकत्र यातैर्गगनेचरै: सदा भवन्ति जाता मुनयो यशस्विन:।।10।।
कुजज्ञवागीशसितार्किभास्करै: सितार्किजीवेन्दुजचन्द्रभूमिजै:।
बलप्रधानै: सहितैर्विहंगमैर्व्रजेत्प्रजात: पुरुषस्तपस्विताम्।।11।।
रवीन्दुवागोशशनैश्चरैश्च शनैश्चरेन्द्वर्कसितैरवश्यम्।
रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विन: स्यु: फलमूलभक्षिण:।।12।।
वक्रार्कसोमात्मजदानवेड्या भीमेन्दुवागीशशशङ्कपुत्रा:।
एकर्क्षगा जन्मनि यस्य जन्तोर्भवेद्व्रती वल्कलचीरधारी।।13।।
शशीन्दुपुत्रक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेड्यसौरा:।
एकर्क्षगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम्।।14।।
चन्द्रार्कभार्गवशशाङ्कसुता बलस्था
भौमेन्दुपुत्रसितभास्करनन्दनाश्च।
मन्देन्दुवाक्यपतिसिता नियतं यतीनां
कुर्वन्ति जन्म फलपाककृताशनानाम्।।15।।
रविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्यै-
र्गुरुसितरविमन्दै: शुक्रजीवेन्दुवक्रै:।
कुजबुधसितचन्द्रैरेभिरेकर्क्षयातै-
र्भवति गिरिवनौकास्तापस: सर्ववन्द्य:।।16।।
सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुक्रै:।
रविशशिकुजबुधजीवैर्भवति यतिर्दु:खितो दीन:।17।।
कुजार्किदेवेड्यसितेन्दुपुत्रै: शनीनसोमात्मजचन्द्रभौमै:।
समं गतै: स्यु: सबलैर्यथोक्तैर्जटाधरा वल्कलधारिणश्च।।18।।
भान्विदुजेन्दुकुजजीवसुरारिपूज्यै: सूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च।
प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्क्षगैर्गनवासिभिरेव जात:।।19।।
प्रव्रज्येशे दिनकरगते (दिनकरग तैर्भक्तिमन्तो न शक्ताः) मुक्तिमन्तोऽतिशक्ता: (दि नकरगतैर्भक्तिमन्तो न शक्ता:)
प्रव्रज्याया: सुबलसहितै: स्थैर्यमाहुर्ग्रहेन्द्रै:।
सम्पूर्णानां (बधमुपगतै:)वशमनुगतै: (प्रच्युतिस्तै)प्रच्युतैस्तैर्बहुत्वे
वीर्योपेतैर्भवति बहुभि: सद्बलस्यानुपूर्व्यात्।।20।।
प्रव्रज्याया: स्वामी (रुचि)रविमुषिततनु(रुचि)र्निरीक्षितो वाऽन्यै:।
याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम्।।21।।
शशी दृकाणे रविजस्य संस्थित: (कुजार्क)कुजार्किदृष्ट: प्रकरोति तापसम्।
कुजांशके वा रविजेन दृष्टो नवांशतुल्यं कथयन्ति (तं पुन:)तत्पुन:।।22।।
जन्माधिप: सूर्यसुतेन दृष्ट: शैषैरदृष्ट: पुरुषस्य सूतौ।
आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम्।।23।।
जन्मपतिर्वि(विपुलाङ्ग:)किलाङ्ग: पश्यति सौरिं चतुष्टये प्रबलम्।
यस्य स भाग्यविहीन: प्रव्रज्यां प्राप्नुयात् पुरुष:।।24।।
गुरुहिमगुरवीणामेक एवोदयस्थो
गगनतलगतो वा रि:फलगश्चाल्पमूर्ति:।
अविकलवलभाजा सूर्यपुत्रेण दृष्टो
जनयति खलु जातं तापसं दु:खभाजम्।।25।।
कुमुदवनसुबन्धुं सौम्यभागे बलस्थं
वियति गमनशीलान् स्वोच्चभरथांश्च शेषात्।
यदि दिनकरपुत्र: पश्यति प्राप्तवीर्यो
भवति भुवननाथो दीक्षितश्च स्वतन्त्र:।।26।।
अतिशयबलयुक्त: शीतगु: शुक्लपक्षे
बलविरहितरिक्तं प्रेक्षते लग्ननाथम्।
यदि भवती तपस्वी दु:खित: शोकतप्तो
धनजनपरिहीन: कृच्छ्रलब्धान्नपान:।।27।।
सौरि: शुभभागस्थ: पश्यति चन्द्रं ग्रहांस्तथैवान्यान्।
(तुङ्गांशेषु)कुम्भांशेषु प्राप्तान् जनयति दीक्षान्वितं पुरुषम्।।28।।
एकर्क्षगतै: सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य।
दीक्षा तस्यावश्यं भवतीति पुरातनै: कथितम्।।29।।
अग्नीनां परिचारका गिरिनदीतीराश्रमे तापसा:
सूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये।
गायत्रीं जपतां वने नियमिनां गङ्गाभिषेकार्थिनां
कौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्कर:।।30।।
वृद्धश्रावकभस्यधूलिधवला: शैवव्रते ये स्थिता
बाह्या: पातकितां गता भगवतीभक्ताश्च नि:सङ्गिन:।
सिद्धान्ते खलु सोमनाम्नि निरता: कापालिका निष्ठुरा-
स्तेषां नायकतां गत: शशधर: खट्वाङ्गपाणिद्युति:।।31।।
उपासका बुद्धसमाश्रयं गता: शिखां (शिखां गिताः)विना पाण्डरभिक्षवश्च ये।
सुवाससो रक्तपटा जितेन्द्रिया: प्रभु: सदैषां क्षितिज: प्रकीर्तित:।।32।।
आजीविनां कुहकिनां समयाधिका ये(समयाधिकार:) ये दीक्षितास्तनुभृत: खलु गारुडे च।
तन्त्रे मयूरपिशिताशनयोश्च युक्तास्तेषां शशाङ्कतनयोधिपतिर्निरुक्त:।।33।।
एकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरा
वानप्रस्थमुपागता: फलपयोभक्षाश्च ये भिक्षव:(सद्भिक्षव:)।
गार्हस्थ्येन तु संस्थि ता नियमिन: सद्ब्रह्मचर्य गता-
स्तेषां दण्डपति: सुरेन्द्रसचिवस्तीर्थेषु ये स्नातका:।।34।।
पाशुपतयज्ञदीक्षाव्रतेषु ते नित्यमेव संयुक्ता:।
वैष्णवचरकाणामपि तेषां नेता प्रकीर्तित: शुक्र:।।35।।
पाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च।
तेषामधिपतिरार्कि: शावकतरुमूलिनश्च दुस्तपस:।।36।।
प्रकथितमुनियोगे राजयोगो यदि स्या-
दशुभफलविपाकं सर्वमुन्मूल्य पश्चात्।
जनयति पृथिवीशं दीक्षितं साधुशीलं
प्रणतनृपशिरोभि: (धृष्ट)स्पष्टपादाब्जयुग्मम्।।37।।
इति कल्याणवर्मविरचितायां सारावल्यां प्रव्रज्यायोगो नाम विंशोऽध्याय:।
इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्याय: षष्ठ:।।