।।श्रीगणेशाय नमः।।
श्रीमत्कल्याणवर्मसूरिविरचिता
सारावली

प्रथमोऽध्यायः
(शास्त्रावतारः)

मङ्गलाचरणम्

मङ्गलाचरणम्

 

यस्योदये जगदिदं प्रतिबोधमेति मध्यस्थिते प्रसरति प्रकृतिक्रियासु।

अस्तं गते स्वपिति चोच्छवसितैकमात्र भावत्रये स जयति प्रकटप्रभावः।।1।।

विस्तरकृतानि मुनिभिः परिहृत्य पुरातनानि शास्त्राणि।

होरातन्त्रं रचितं वराहमिहिरेण संक्षेपात्।।2।।

राशिदशवर्गभूपतियोगायुदार्यतो दशादीनाम्।

विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन।।3।।

अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्य:।

सकलमसारं त्यक्त्वा तेभ्य: सारं समुद्ध्रियते।।4।।

देवग्रामपुरप्रोषणबलाद्ब्रह्माण्डसत्पञ्जरे

कीर्तिर्हसविलासिनीव सहसा यस्येह भात्यातता।

श्रीमद्व्याघ्रपदीश्वरो रचयति स्पष्टां स सारावलीं

होराशास्त्रविनिर्मलीकृतमना: कल्याणवर्मा कृती।।5।।

होरातृष्णार्तानां शिष्याणां स्फुटतरार्थशिशिरजला।

कल्याणवर्मशैलान्नदीव सारावली प्रसृता।।6।।

इति कल्याणवर्मविरचितायां सारावल्यां शास्त्रावतारो नाम प्रथमोऽध्याय: