(सर्वानिमानतिबल:, सर्वातिगाम्यतिबला:)सर्वातिशाय्यति बल: स्फुरदंशुमाली(जालो)
लग्पे स्थित: प्रशमयेत् सुरराजमन्त्री।
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त इव (शूलधरे)चक्रधरे प्रणाम:(द्र.बृ. पा. 10।3)।।1।।
सौम्यग्रहैरतिबलैर्विबलैश्च पापै-
र्लग्नं च सौम्यभवने(भवनं) (भृगुदृष्टिपुष्टम्)शुभदृष्टियुक्तम्(युक्ते)।
सर्वापदा(सर्वापदाभिरहितो)विरहितो भवति प्रसूत:
पूजाकर: खलु यथा दुरितैर्ग्रहाणाम्।।2।।
पापा यदि शुभवर्गे सौम्यैर्दृष्टा: शुभांशवर्गस्थै:।
निघ्नन्ति तथा रिष्टं पतिं विरक्ता यथा युवति:।।3।।
राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षित: सद्य:।
नाशयति सर्वदुरितं मारुत इव तूलसंघातम्।।4।।
शीर्षोदयेषु राशिषु सर्वैर्गगनाधिवासिभि: सूतौ।
प्रकृतिस्थैश्चारिष्टं विक्रयते(विलीयते) घृतमिवाग्निष्ठम्।।5।।
तत्काले यदि विजयी शुभग्रह: शुभनिरीक्षितो वर्गे।
तर्जयति(वर्जयति) सर्वरिष्टं मारुत इव पादपान् प्रबल:।।6।।
परिविष्टो गगनचर: क्रूरैश्च विलोकिते हरति पापम्।
स्नानं सन्निहितानां(हितायां) कृतं यथा भास्करग्रहणे।।7।।
स्निग्धमृदुपवनभाजो(पवनविरजो) जलदाश्च(जलजा) तथैव खेचरा: (स्वस्था:)शस्ता:।
स्वस्था:(शास्ति) क्षणाच्च रिष्टं शमयति(शमयन्ति हि) रजो (यथाम्बुधरा:)यथाम्बुधारौघ:।।8।।
उदये चागस्त्यमुने: सप्तर्षीणां (पूर्वाणां)मरीचिपुत्राणाम्।
सर्वारिष्टं नश्यति तम इव सूर्योदये जगत:।।9।।
अजवृषकर्किविलग्ने रक्षति राहु: समस्तपीडाभ्य:।
पृथ्वीपति: प्रसन्न: कृतापराधं यथा पुरुषम्।।10।।
(यत्नेन भङ्गमपरे)यातैस्त्रिभागमपरै: सरोजजन्मापि विस्मयं कुरुते।
भञ्जयति(तज्ज: काष्टमनिष्टं) काष्ठमरिष्टं समतटदेशे यथा करभ:(सरट: किरटः)।।11।।
बहवो यदि शुभफलदा: खेटास्तत्रापि शीर्यते रिष्टम्।
सूर्यात् त्रिकोण इन्दौ यथैव यात्रा नरेन्द्रस्य।।12।।
गुरुशुक्रौ च केन्द्रस्थौ जीवेद्वर्षशतं नर:।
गृहानिष्टं हिनस्त्याशु(भिनत्त्याशु) चन्द्रानिष्टं तथैव च।।13।।
बन्ध्वास्पदोदयविलग्नगतौ कुलीरे गीर्वाणनाथसचिव: सकलश्च चंद्र:।
जूके रवीन्दुतनयावपरे च लाभे दुश्चिक्यशत्रुभवनेष्वमितं तदायु:।।14।।
एते सर्वे भङ्गा मया निरुक्ता: पुरातना: सिद्धा:।
यैर्ज्ञातैर्दैवविदो नरेन्द्रवाल्लभ्यमायान्ति।।15।।
इति कल्याणवर्मविरचितायां सारावल्यामरिष्टभङ्गो नाम द्वादशोऽध्याय:।।