संभूतारिष्टाख्या भङ्गस्तेषां यथा भवेद्योगै:।
तानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र(भूतानतस्तत्र)।।1।।
उडुपतिकृतरिष्टानां भङ्गस्तावन्निरूप्यते पूर्वम्(सम्यक्)।
सम्यक् (शेषाणामपि पश्चात्)शेषाणामपि यथामत ब्रह्मपूर्वाणाम्।।2।।
सर्वैर्गगनभ्रमणैर्दृष्टश्चन्द्रो विनाशयति रिष्टम्।
आपूर्यमाणमूर्तिर्यथा नृप: सन्नयेद्द्वेषम्(सुनयविद्वेष्टृन्)।।3।।
चन्द्र: सम्पूर्णतनु: शुक्रेण निरीक्षित: सुहृद्भागे।
(पित्तकफानां)रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्ति:।।4।।
परमोच्चे शिशिरतनुर्भृगुतनयनिरीक्षितो हरितो रिष्टाम्।
सम्यग्विरेकवमनं कफपित्तानां(पित्तकफानां) यथादोषम्।।5।।
चन्द्र: शुभवर्गस्थ: क्षीणोऽपि शुभेक्षितो हरति रिष्टम्।
जलमिव महातिसारं (दाडिम)जातीफलवल्कलक्वथितम्।।6।।
सप्ताष्टमषष्ठस्था: शशिन: सौम्या हरन्त्यरिष्टफलम्।
पापैरमिश्रचारा: कल्याणघृतं यथोन्मादम्।।7।।
युक्त: शुभफलदायिभिरिन्दु: सौम्यैर्निहन्त्यरिष्टानि(सर्वैर्निहन्त्यरिष्टानि)।
तेषामेव त्र्यंशे (शूलम्)लवणविमिश्रं घृतं नयनरोगम्।।8।।
आपूर्यमाणमूर्तिर्द्वादशभागे शुभस्य यदि चन्द्र:।
रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम्।।9।।
सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो (हरति)हन्ति।
रिष्टं न वीक्षितोऽन्यै: कुलाङ्गना कुलमिवान्यगता।।10।।
क्रूरभवने शशाङ्को भवनेशनिरीक्षितस्तदनुवर्गे।
रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन।।11।।
जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षित: शुभैर्भङ्गम्।
रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्राम:।।12।।
(जन्मेशो लग्नेश्वरदृष्ट: सर्वं)जन्माधिपतिर्लग्ने दृष्ट: सर्वैर्विनाशयति रिष्टम्।
घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम्।।13।।
(स्वोच्चे वा)स्वोच्चस्थस्वगृहेऽथवापि सुहृदां (वर्गेथ)वर्गेऽपि (सौम्येऽपि)सौम्येऽथवा
संपूर्ण: शुभवीक्षित: शशधरो वर्गे स्वकीयेऽथवा।
शत्रूणामवलोकने न पतित: पापैरयुक्तेक्षितो
रिष्टं हन्ति सुदुस्तरं दिनपति: प्रालेयराशिं यथा।।14।।
शशिऽनोन्त्ये बुधसितयोराये क्रूरेषु वाक्पतौ गगने।
दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यै:।।15।।
लग्नेश्वरस्य चन्द्र: षट्त्रिदशायहिबुकेषु शुभदृष्ट:।
क्षपयति समस्तरिष्टान्यनुयाते(अनुयातो निरुप, रिष्टं वारयते) नृपतिरोध इव।।16।।
एको जन्माधिपति: परिपूर्णबल: (शुभग्रहैर्दृष्ट:)शुभैर्दृष्ट:।
हन्ति निशाकररिष्टं व्याघ्र इव मृगान् वने मत्त:(मत्तान्)।।17।।
पक्षे सिते भवति जन्म यदि क्षपायां
कृष्णेऽथवाऽहनि शुभाशुभदृश्यमान:।
तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना-
दापत्सु रक्षति पितेव शिशुं न हन्ति।।18।।
इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभङ्गो नामैकादशोऽध्यायः।।