आयुर्ज्ञानाभावे सर्वं विफलं प्रकीर्तितं यस्मात्।
तस्मात्तज्ज्ञनार्थे रिष्टाध्यायं प्रवक्ष्यामि।।1।।
ओजे स्थिताः पुमांसः शुक्लेऽहनि सूरिभिः समाख्याताः।
युग्मभवनेषु सर्वे कृष्णे निशि योषितो बलिनः।।2।।
त्रिविधमिह शास्त्रकारा (नियमनियमं च)नियतमनियतं च योगजं प्राहु:।
योगसमुत्थं तावद्वक्ष्ये पश्चात्तु परिशेषौ।।3।।
(हो. र . 5 अ. 617 पृ.)बृहस्पतिर्भौमगृहेऽष्टमस्थ: सूर्येन्दुभौमार्कजदृष्टमूर्ति(इस पूरे अरिष्ट प्रकरण के लिये जातकाभरण का अरिष्टाध्याय तुलनीय है)।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम्।।4।।
वक्री शनिर्भौमगृहं प्रपन्नश्चद्रेऽष्टषष्ठेऽथ चतुष्टये वा।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम्।।5।।
भास्करहिमकरसहित: शनैश्चरो मृत्युद: प्रसवकाले।
वर्षैर्नवभिर्यातैरित्याह ब्रह्मशौण्डाख्य:।।6।।
भौमदिवाकरसौराश्छद्रे जातस्य भौमगृहे(यस्य शुक्रगृहे)।
म्रियतेऽवश्यं स नरो यमकृतरक्षोऽपि मासेन।।7।।
एक: पापोऽष्टमग: शुक्रगृहे पापावीक्षितो वर्षात्।
मारयति नरं जातं सुधारसो येन पीतोऽपि।।8।।
रविशशिभवने शुक्रो द्वादशरिपुरध्रगं(रन्ध्रगः) शुभै: सर्वै:।
दृष्ट: करोति (षष्ठाष्टव्ययमतो)षड्भिर्वर्षैर्मरणं किमत्र चित्रं हि।।9।।
कर्कटधामनि सौम्य: षष्ठाष्टम(षष्ठाष्टव्ययगतो)संस्थितो विलग्नर्क्षात्।
चन्द्रेण दृष्टमूर्तिर्वर्षचतुष्केण मारयति।।10।।
तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु।
जायन्ते खलु कुलजा रिष्टं तेषु प्रसूतानाम्।।11।।
केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन्प्रसूयते यो हि।
मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य।।12।।
गगनस्थो दिवसकर: (बलिभि:)पापैर्बहुभिर्निरीक्षित: सद्य:।
मारयति भौमधामनि शनिभे च न संशयो भवति।।13।।
लग्ने यद्द्रेक्काणा निगडाहिविहङ्गपाशधरसंज्ञा:।
मरणाय सप्तवर्षै: क्रूरयुता न स्वपतिदृष्टा:।।14।।
राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापै:।
वर्षैर्वदन्ति दशभि: षोडशभि: केचिदाचार्या:।।15।।
पापास्त्रिकोणकेन्द्रे सौम्या: षष्ठाष्टमव्ययगताश्च।
सूर्योदये प्रसूत: सद्य: प्राणांस्त्यजाति जन्तु:।।16।।
अंशाधिपजन्मपती लग्नपतिश्चास्तमुपगता यस्य।
संवत्सरैस्तु मरणं निर्व्याजं कतिपयैरेव।।17।।
राशिप्रमितैर्वर्षैर्मारयति विलग्नपो रिपुस्थाने।
मासैर्द्रेक्काणपतिर्दिवसैरंशाधिपो हन्ति।।18।।
मारयति षोडशाहाच्छनैश्चर: पापवीक्षितो लग्ने।
संयुक्तो मासेन तु वर्षाच्छुद्धस्तु मारयति।।19।।
क्षीणशरीरश्चन्द्रो लग्नस्थ: क्रूरवीक्षित: कुरुते।
स्वर्गमनं हि पुंसां कुलीरगोऽजान्परित्यज्य।।20।।
वर्षान्मारयति शशी षष्ठाष्टमराशिसंस्थितो लग्नात्।
सद्य: क्रूरैर्दृष्ट: सौम्यैरब्दाष्टकाच्चैव।।21।।
(अशुभै: शुभैश्च दृष्टो)अशुभशुभै: सन्दृष्टे वर्षचतुष्केण निर्दिशेदन्तम्।
अनुपात: कर्तव्य: प्रोक्तादू(न्यूनग्रहैर्दृष्ट:)नैर्ग्रहैर्दृष्टे।।22।।
सौम्या: षष्ठाष्टमगा: पापैर्वक्रोपसङ्गतैर्दृष्टा:।
मासेन मृत्युदास्ते यदि न(तेन शुभैस्तु) शुभैस्तत्र सन्दृष्टा:।।23।।
लग्नाद्द्वादशधनगै: क्रूरैर्म्रियते च रन्ध्ररिपुयुक्तै:।
शुभसम्पर्कमयातैर्मासे षष्ठेऽष्टमे वाऽपि।।24।।
लग्नाधिपजन्मपती षष्ठाष्टमरिःफगौ प्रसवकाले।
अस्तमितौ मरणकरौ राशि प्रमितैर्वदेद्वर्षै:।।25।।
होराधिपतिर्द्यूने पापजितो मरणमेव विदधाति।
मासेन जन्मनाथस्तद्वच्चन्द्रो न यदि शुभदृष्ट:।।26।।
चन्द्र: कुजरवियुक्त:(रविदृष्ट:) स्वसुतस्थाने न चापि शुभदृष्ट:।
मरणं शिशो: प्रयच्छति वर्षे नवमे न सन्देह:।।27।।
होरेश्वरस्तु (मूर्तौ)मृत्यौ पापै: सकलैश्च दृश्यते बलिभि:।
मासि चतुर्थे मरणं जातस्य करोति मुनिवाक्यम्।।28।।
जन्माधिपति: सूर्य: स्वपुत्रसहितोऽष्टमे भवति राशौ।
वर्षै राशिप्रमितैर्मरणाय सितेन सन्दृष्ट:।।29।।
व्ययाष्टषष्ठोदयगे शशाङ्के पापने युक्ते शुभदृष्टिहीने।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैर्वियोगं व्रजति प्रजात:।।30।।
चक्रस्य पूर्वभागे पापा: सौम्यास्तथेतरे चैव।
वर्लश्चकलग्ने जाता गतायुषो वज्रमुष्टियोगेऽस्मिन्।।31।।
क्षीणे शशिनि विलग्ने पापै: केन्द्रेषु मृत्युसंस्थैर्वा।
भवति विपत्तिरवश्यं यवानाधिपतेर्मतं(पतेर्न सन्देह:) चैतत्।।32।।
राश्यन्तगतै: पापै; सन्ध्यायां तुहिनरश्मिहोरायाम्।
मृत्यु: प्रत्येकस्थै: केन्द्रेषु शशाङ्कपापैश्च।।33।।
द्यूनचतुरस्रसंस्थे(संस्थै:) पापद्वयमध्यगे शशिनि जात:।
विलयं प्रयाति नियतं देवैरपि रक्षितो बाल:।।34।।
पापद्वयमध्यगते होरासप्ताष्टमस्थिते चन्द्रे।
सौम्यैरबलैर्दृष्टे जातो म्रियते ध्रुवं ह्यत्र(बाल:)।।35।।
द्यूनाष्टमगै: पापै: क्रूरग्रहवीक्षितै: सह जनन्या।
म्रियते शुभसंदृष्टै सत्यस्य मताद्वदेद्व्याधिम्।।36।।
ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेऽष्टमगे।
मात्रा सार्धं म्रियते चन्द्रवदर्के च शस्त्रेण।।37।।
क्षीणे शशिनि विलग्ने कण्टकनिधनाश्रि तैस्तथा पापै:।
सौम्यादृष्टे मृत्यु: सद्य: सत्यस्य निर्देश:(निर्देशात्)।।38।।
द्यूनगतेऽर्के लग्ने यमे कुजे वा विपर्यये वाऽपि।
अन्यतरयुते वेन्दावशुभैर्दृष्टेऽचिरान्मृत्यु:।।39।।
होरानिधनास्तगतै: पापै: क्षीणे व्ययस्थिते(व्यवस्थिते) चन्द्रे।
जातस्य भवेन्मरणं सद्य: केन्द्रेषु चेन्न शुभा:(चेदशुभा)।।40।।
लग्नान्त्यनवमनैधनसंयुक्ताश्चन्द्रासूर्यसौरारा:।
जातस्य वधकृत:(वधं कुर्यु:) स्यु: सद्यो गुरुणा न चेद्दृष्टा:।।41।।
लग्ने चन्द्रेऽर्के वा पापा बलिनस्त्रिकोणनिधनेषु।
सौम्यैरदृष्टयुक्ता(सौम्यैरमिश्रदृष्टा:) सद्यो मरणाय कीर्तिता यवनै:।।42।।
शुक्रो रविशनिसहितो मारयति नरं सदा प्रसवकाले।
दृष्टोऽपि देवगुरुणा नवभिर्वर्षैर्न सन्देह:।।43।।
यत्रस्थस्तत्रस्थो रुधिरार्कशनैश्चरेक्षितश्चन्द्र:।
जननीमृत्युं कुर्यान्न तु सौम्यनिरीक्षित: सद्य:।।44।।
रुधिरशनैश्चरदृष्टो दिवसकरो दिवसजन्मनि तु यस्य।
पापयुतो वा हन्यात् पितरं नि:संशयं जात:।।45।।
रहितो बुधगुरुशुक्रैर्जन्मनि रुधिराङ्गसौरसहितोऽर्क:।
कथयति पितरमतीतं पितुरपि च शरीरकर्तारम्।।46।।
पापद्वयमध्यगतो दिवसकरो दिवसजन्मनिरतस्य।
पापयुतो वा हन्यात् पितरं नि:संशयं जात:।।47।।
(सूर्यात्सप्तम)सूर्यादष्टमराशौ यदि युक्तौ सौरलोहितौ प्रसवे।
सौम्यादृष्टौ निधनं कुर्यातां सद्य एव पितु:।।48।।
पापग्रहसंयुक्तश्चरराशिगतो दिवाकर: प्रसवे।
विषशस्त्रजलान्मृत्युं कथयत्यल्पायुषं पितरम्।।49।।
चन्द्रादष्टमराशौ नवमे वा सप्तमेऽपि वा पापा:।
सर्वे तत्रान्यतमे हन्युर्जातं सह जनन्या।।50।।
चरराशिगते सूर्ये दिनजन्मनि वीक्षिते कुपुत्रेण(तु पुत्रेण)।
कथयति विदेशयातं जातस्य शरीरकर्तारम्।।51।।
चरराशिगतं सौरं यद्यर्को रात्रिजन्मनीक्षेत।
अत्रापि विदेशस्थं कथयति पितरं प्रसूतस्य।।52।।
रुधिरसहितस्तु सौरश्चरभवने रात्रिजन्मनिरतस्य।
कथयति पितरमतीतं परदेशे नात्र सन्देह:।।53।।
यत्रस्थस्तत्रस्थ: स्वपुत्ररुधिराङ्गसङ्गत: सूर्य:।
प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य।।54।।
जन्माष्टसप्तषष्ठद्वादशसंस्थेषु चैव पापेषु।
माता सुतेन सार्धं म्रियते नास्त्यत्र सन्देह:।।55।।
जीवति माता म्रियते सूनु: (षष्ठान्त्यगेषु)षष्ठान्त्यगेषु पापेषु।
जन्माष्टसप्तमेषु च जीवति सूनुर्म्रियेत तन्माता।।56।।
वक्रो वा सौरो वा द्वादशसंस्थो नयनहन्ता।
दक्षिणनयनं सौरो वाममथाङ्गारको हन्यात्।।57।।
युगपच्चन्द्रादित्यौ द्वादशभो निष्ठितौ(विष्ठितौ) ग्रहौ स्याताम्।
कुरुत: प्रसूतमन्धं पाप: षष्ठेऽथवा निधने।।58।।
अथवाप्यन्यतरयुते द्वादशभे वापि जायमानस्य।
अत्रापि हरेन्नयनं दक्षिणमर्क: शशी सव्यम्।।59।।
स्वर्भानुनोपसृष्टा यदि होरा दिनकरश्च जामित्रे।
जातस्तत्र मनुष्यो नि:सन्दिग्धं (भवेदन्धः)भवत्यन्ध:।।60।।
धनराशौ द्वादशभे चन्द्र: सूर्यश्च (विष्ठिता)निष्ठितो यत्र।
तत्रापि भवत्यन्धो यद्यष्टमषष्ठयो: पापौ।।61।।
रजनिकर: षष्ठगतो निधने सूर्यो रवे: सुतस्तु(सुतो धनभे) शुभे(व्यये)।
वक्र: कुटुम्बराशावत्राप्यन्धो भवेज्जात:।।62।।
रुधिराङ्गसौरयुक्तश्चन्द्रो निधनेऽथवाऽपि षष्ठे वा।
पित्तश्लेष्मविकारैर्दृष्टिं हन्यादशुभयुक्त:।।63।।
दक्षिणमष्टमसंस्थ: सव्यं तु हरेत्समाश्रित: षष्ठम्।
सौम्यैर्निरोक्षिततनु:(र्निरीक्षत) सद्यो न हरेत्तु (नयनं हरेद्धरेत्पश्चात्)पश्चाद्वा।।64।।
दिनकरसुतेन सहितो निधने चान्त्ये(न्यतरमाश्रितश्चन्द्र:) समाश्रितश्चन्द्र:।
वातश्लेष्मविकारैर्दृष्टिं हन्यादशुभदृष्ट:।।65।।
निधने दक्षिणनयनं त्यागे सव्यं हरेत्तु नियमेन।
सौम्यैस्तु दृश्यमाने(मानो) न हरेदथवा हरेत्पश्चात्।।66।।
एतेनैव तु विधिना सौरारदिवाकराश्रितश्चन्द्र:।
कुर्याद्दृष्टिविकारं नानारोगैर्ध्रुवं जन्तोः।।67।।
एकादशे तृतीये होरायां पापसंयुते शशिनि।
कर्णविकलो नरः स्यात्पापग्रहवीक्षिते सद्यः।।68।।
नवमे पञ्चमराशौ पापग्रहवीक्षितौ ग्रहौ स्याताम्।
श्रोत्रापघातमतुलं कुर्यातां जातमात्रस्य।।69।।
नवमे दक्षिणकर्णं वामं वै पञ्चमे ग्रहो हन्यात्।
अत्रैव सौम्यभे वा शुभदृष्टे वा शुभं वाच्यम्।।70।।
राशौ होरान्तरं प्राप्य यो यस्मिन् व्याधिमाप्नुयात्।
तच्चास्य(तस्माच्च) होराप्रसवे चन्द्रस्थानं च यद्भवेत्।।71।।
सव्यापसव्यभागे योगमथैव ग्रहास्तु संप्राप्ताः।
कुर्युर्नृणां च चिह्नं व्यङ्गभयं पापवीक्षिताः सौम्याः।।72।।
विदित्वा त्रितयं ह्येतत् कृत्स्नस्य तु विशेषतः।
शुभाशुभौ तु विज्ञेयौ ग्रहसंयोगककारणौ।।73।।
चन्द्रादित्यौ तृतीयस्थौ मीनक्षेत्रं(क्षेत्रस्य) स यस्य तु।
व्याधिं तत्र विजानीयात् त्रिरात्रं तस्य जीवितम्।।74।।
अतस्तृतीये नक्षत्रे समस्ते व्यस्तगेऽपि वा।
रवौ रात्रिं परां जीवेच्चन्द्रे दशममाश्रिते।।75।।
सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्कारौ।
जातस्य तस्य हि तदा भवेत्सप्ताहजीवितम्।।76।।
चतुरस्रस्थिता: पापा वामदक्षिणगा यदा।
तदा यो व्याधिमाप्नोति दशरात्रं स जीवति।।77।।
त्रिकोणे दक्षिणे सूर्यश्चन्द्रो वामे यदा भवेत्।
यस्तदा लभते व्याधिं द्वादशाहं स जीवति।।78।।
त्रिकोणस्थो यदा चन्द्रश्चतुरस्रेऽथ भास्कर:(भास्करौ)।
तदा दुर्व्याधिना (पुत्र)युक्तस्त्रिरात्रं नातिवर्तते।।79।।
तदा होरा चतुर्थस्थश्चन्द्र: षष्ठस्थितो रवि:।
अष्टादशाहं च नरस्तदा व्याधिसमन्वित:।।80।।
रविर्यदा चन्द्रमसस्त्रिकोणस्थानमाश्रित:।
विंशतिं दिवसान् जीवेत्तदा व्याधिभायार्दित:।।81।।
होराष्टमस्थित: सूर्य: सौरभौमनिरीक्षित:।
य: पुमान् प्राप्नुयाद्व्याधिं न स जीवेद्विपद्यते(विपत्स्यते)।।82।।
होरायां कण्टके भौमो भवेद्यस्य प्रजायत:।
न च केन्द्रगतो जीवो जायते मृत एव स:।।83।।
अथ होरागत: सूर्यो न च केन्द्रे बृहस्पति:।
निधने वा पर: कश्चित् जातमात्रो विनश्यति।।84।।
होरायां कण्टके चन्द्रो न च केन्द्रे बृहस्पति:।
निधने (पापक:)वा पर: कश्चित् जातमात्रो विनश्यति।।85।।
द्रेष्काणजामित्रगतो यस्य स्याद्दारुणग्रह:।
होरागत: शशाङ्कश्च सद्यो हरति जीवितम्।।86।।
ग्रहा: समेयुर्बहवो निधने यस्य जन्मनि।
मासं वा सप्तरात्रं वा तस्यायु: समुदाहृतम्।।87।।
शनैश्चरश्च होरायां निधने च महीसुत:।
न च देवगुरु: केन्द्रे मृतगर्भ: प्रसूयते।।88।।
य: प्राग्विलग्ने द्रेष्काणस्तत्समानो यदा ग्रह:।
भवेत्त्रिकोणगा पापास्तत्समानफलो भवेत्।।89।।
सौरे व्याधिमवाप्नोति मरणं धरणीसुते।
सूर्ये स्याद्व्याधिवैकल्पं मरणं नात्र संशय:।।90।।
अथ होरागतो भौम: केन्द्रस्थश्च भृगो: सुत:।
स वै मरणमाप्नोति होरायां पुनरागते।।91।।
गुरुस्त्रिकोणे होरायां होरेशश्च महीसुत:।
तस्यान्यतरकेन्द्रस्थ: सद्यो जीवितनाशन:।।92।।
न नैधने (गुरु:)ग्रह: कश्चित् पापो होरागतोऽथवा।
केन्द्रे (केन्द्रेष्वन्यतमे)वान्यतरे जीवो जीवत्यष्टशतोत्तरम्।।93।।
न केन्द्रे कश्चिदाग्नेयो न त्रिकोणे न नैधने।
गुरुशुक्रौ च केन्द्रस्थौ जीवेदष्टशताधिकम्।।94।।
यदि होरागत: शुक्र: केन्द्रेष्वन्यतमे गुरु:।
नैधने न च पापा: स्यु: स विंशं जीवते शतम्।।95।।
राशौ कर्कटहोरायां (गुरुशुक्रसमन्विते)गुरुशुक्रौ समन्वितौ।
गुरुश्चन्द्रयुतो वाऽपि निधने न च कश्चन।।96।।
न च केन्द्रगता: पापा न त्रिकोणे न नैधने।
तस्यायुरमरप्रख्यं निश्चयेन च कीर्त्यते।।97।।
निधनास्तव्ययलग्नत्रिकोणगा: क्षीणचन्द्रसंयुक्ता:।
पापा बलिन: शुभदैरदृश्यमाना गतायुष:(युषं प्राय:) प्राय:।।98।।
योगे बलिन: स्थानं(स्थाने) स्वं वा लग्नं गतेऽपि वा चन्द्रे।
बलवति पापैर्दृष्टे वर्षान्ते मृत्युकाल: स्यात्।।99।।
रविचन्द्रभौमगुरुभि: कुजगुरुसौरेन्दुभिस्तथैकस्थै:।
रविशनिभौमशशाङ्कैर्मरणं खलु पञ्चभिर्वर्षै:।।100।।
रविणा(रविशशियुक्त:) युक्त: शशिजोऽसौम्यैर्दृष्टो विनाशयति नूनम्।
एकादशभिर्वर्षैर्देवाङ्केऽपि स्थितं जातम्।।101।।
लग्ने रविमन्दकुजै: (कुजाःशत्रुगृहे)शुक्रगृहे सप्तमे शशी क्षीण:।
दृष्टो न देवगुरुणा सप्तभिरब्दैर्विनाशयति।।102।।
केन्द्रे रविमुषिततनु: क्षितिसुतमन्दावलोऽकितोऽथ युत:।
वर्षचतुष्के चन्द्रो मारयति किमत्र गणितेन।।103।।
(द्र.जा. भ. अरिष्टा.)लग्नाधिपतेश्चन्द्रो मरणपदस्थोऽति कृष्णतां यात:।
क्रूरै: सकलैर्दृष्टो न शुभै: सर्वैस्त्रिभिस्तु मारयति।।104।।
लग्नाधिपति: पाप: शशिनोंशे रि:फगो यदि च चन्द्रात्।
क्रूरैर्विलोक्यमानो मारयति शिशुं नवभिरब्दै:।।105।।
दर्शनभागे सौम्या: क्रूराश्चादृश्यके प्रसवकाले।
राहुर्लग्नोपगतो यमक्षयं नयति पञ्चभिर्वर्षै:।।106।।
राहु: सप्तमभवने शशिसूनुनिरीक्षितो न शुभदृष्ट:।
दशभिर्द्वाभ्यां सहितैरब्दैर्जातं विनाशयति।।107।।
घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहु:।
पापैर्निरीक्ष्यमाण: सप्तमितैर्निश्चितं वर्षै:।।108।।
केतोरुदयं पूर्व: पश्चादुल्कादिपवननिर्घाता:।
रौद्रे सार्पमुहूर्ते(सति च मुहूर्ते) प्राणै: सन्त्यज्यते जन्तु:।।109।।
क्षीणं यदा शशाङ्कं पश्येद्राहु: समागतं पापै:।
मारयति तदा दिवसैर्निर्व्याजं कतिपयैरेव।।110।।
कुम्भे दिशति शशाङ्को भागे मृत्युं तथैकविंशख्ये(तथैकविंशाख्ये)।
सिंहे च पञ्चमेंऽशे वृषे(क्रूरेण वृषे मृतिर्मरणभागे) च नवमे तथैवोक्त:।।111।।
अलिनि त्रिविंशयुक्ते मेषे च तथाष्टमे दिशति। मृत्युम्।
कर्कटके द्वाविंशे तुलिनि चतुर्थे मृगे विंशे।।112।।
कन्या प्रथमेंशे धनुर्धरेऽष्टादशे झषे दशमे।
मिथुने च द्वाविंशे शशी प्रसूतस्य मरणकर:।।113।।
ये भुक्ता:(ये तूक्ता:) शशिनोंशा जन्मनि वर्षैर्गतैस्तु तावद्भि:।
मरणं हि जन्मभाजामप्यन्तकबद्धरक्षाणाम्।।114।।
एवं सर्वप्रयत्नेन जायमानस्य देहिन:।
होरास्थानानि(स्थानेषु) केन्द्राणि चिन्तनीयानि तद्यथा।।115।।
चिन्तयेज्जायमानस्य स्थानराशिषु नित्यश:।
बृहस्पतिर्नृणां जीवस्तस्य(तस्मान्मृत्युं) नित्यं बृहस्पते:।।116।।
पञ्चदशषट्समेतश्चत्वारिंशत्तथैक(तथैव विशश्च) विंशच्च।
शतमथ(त्रिंशच्चत्वारिंशत्) चत्वारिंशत् षष्टिस्त्रिंशत(पञ्चाशदेव यथोक्तहोराया:) क्रमायु होराया:।।117।।
तृतीयचतुर्थपञ्चमसप्तमनवमदशमैकादशगृहेषु जीवस्थितौ(वोत्थिता) वर्षाः(प्रोक्ता: सहजे तुर्ये पंचमके सप्तमे च नवमे च। दशमे चैकादशके गृहेषु जीवस्थितौ वर्षा:)।।118।।
इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टाध्यायो दशम:।।