(आधानं)आधाने हि मयोक्तं प्रसूतिकालस्य निर्णयार्थपरम्।
तस्मिन् सुपरिज्ञाते जन्माध्यायं प्रवक्ष्यामि।।1।।
शीर्षोदये विलग्ने मूर्ध्ना प्रसवोऽन्यथोदये चरणै:।
उभयोदये च (करम्)हस्तै: शुभदृष्टे शोभनोऽन्यथा कष्ट:।।2।।
(हो.र. 1 अ. 148 पृ.)भवनांशसदृशदेशे प्रसवो ज्ञेय: सदात्र युवतीनाम्।
मिश्रगृहांशे वर्त्मनि स्थिरराश्यंशे तथा (तथान्यगृहे)स्वगृहे।।3।।
स्वगृहनवांशे लग्ने स्वगृहेऽन्यस्मि(स्वगृहेन्यऽस्मिन् प्रतिद्वन्द्वे)न्यदि प्रथमहर्म्ये।
पितृमातृग्रहबल(वर्गे)तस्तत्तत्स्वजनगृहेषु बलयोगात्।।4।।
प्राकारतरुनदीषु च सूतिर्नीचाश्रितै:(चाश्रिते) सौम्यै:।
नेक्षन्ते लग्नेन्दू यद्येकस्था ग्रहा महाटव्याम्।।5।।
सलिलभलग्ने(भवने) चन्द्रो जलराशौ वीक्षतेऽथवा पूर्ण:।
प्रसवं सलिले विद्यात् बन्धूदयदशमगश्च यदा(10, 11)।।6।।
सौम्यैर्लग्ने पूर्णे स्वगृहगते शशिनि सलिलसंयाते।
पातालस्थैश्च शुभैर्जलजे लग्नेऽम्बुगेहगे शशिनि।।7।।
वृश्चिककुलीरलग्ने सौरे चन्द्रेक्षिते त्ववटे।
भवति प्रसव: स्त्रीणां वदन्ति यवना: सह मणित्थै:।।8।।
रविजे जलजविलग्ने क्रीडोद्याने बुधेक्षिते प्रसव:।
रविणा देवागारे तथोषरे चैव चन्द्रेण।।9।।
(वृ. जा. 5।12 तथा उत्पल टीका में वादरायण वाक्य)आरण्यभवनलग्ने गिरिवनदुर्गे तथा नरविलग्ने।
रुधिरेक्षिते श्मशाने शिल्पकनिलयेषु सौम्येन।।10।।
सूर्येक्षिते गोनृपदेववासे शुक्रेन्दुजाभ्यां रमणीयदेशे।
शक्रेड्यदृष्टे द्विजवह्निहोत्रे नरोदये सम्प्रवदन्ति सूतिम्।।11।।
स्वोच्चे दशमे जीवे द्वित्रिचतुर्भूमिके गृहे प्रसव:।
मन्दर्क्षांशेऽशालं(साले) चतुर्थदशमस्थितै: सौम्यै:।।12।।
द्वौ द्वौ राशी मेषात् पूर्वादिषु संस्थितौ गृहविभागे।
कोणेषु द्विशरीरा (लग्नस्य)लग्नन्तु भवेद्धि तत्प्रमुखै:(प्रमुखे)।।13।।
दिग्भागराशिमण्डलकेन्द्रेषु खगेषु तच्छाला।
(अथ)झषमृगहयबलवत्त्वे गृहं द्विशालं(विशालं) त्रिशालं च।।14।।
चित्रं नवं भृगुसुते च दृढं गुरौ च दग्धं कुजे दिनकरे परिपूर्णकाष्ठम्(जीर्ण)।
चन्द्रे नवं च बहुशिल्पकृतं बुधे च जीर्णं भवेद्गृहमिहोष्णकरात्मजे च।।15।।
वासगृहे द्यूनगतात् द्वारो दिक्पालकात् बलोपेतात्।
भवनग्रहसंयोगै: प्रतिवेश्माश्चिन्तनीया: स्यु:।।16।।
देवालयाम्बुपावककोशविहारास्तथोत्करो(उपस्करस्थानम्) भूमे:।
निद्रागृहं च भास्करशशिकुजगुरुभार्गवार्किबुधयोगात्।।17।।
(हो. र. 1 अ. 166 पृ.)खट्वास्थितिर्भवनवद्युतविहगसमानि तत्र चिह्नानि।
आस्तरणानि च विद्यात् दृष्टिशुभकृतानि दैवज्ञ:।।18।।
प्राच्यादिगृहद्वितयं द्विशरीरा राशयश्च गात्राणि।
आजानुशिर:शयनं ग्रहतुल्यं लक्षणं तत्र।।19।।
ग्रहयुक्तं वा नियतं विनतत्वं च द्विमूर्तिराशिषु च।
षट्त्रिनवान्त्या: पादा: (पर्यन्ते)पर्यङ्केऽङ्गानि राशय: शेषा:।।20।।
नीचस्थे भूशयनं चन्द्रेऽप्यथवा सुखे विलग्ने वा।
शशिलग्नविवरयुक्तग्रहतुल्या: सूतिका ज्ञेया:।।21।।
(हो. र. 1 अ . 17. पृ.)अनुदितचक्रार्धयुतैरन्तर्बहिरन्यथा वदन्त्येके।
लक्षणरूपविभूषणयोगस्तासां शुभैर्योगात्।।22।।
क्रूरैर्विरूपदेहा: लक्षणहीना: सूरौद्रमलिनाश्च।
मिश्रैर्मध्यमरूपा बलसहितै: सर्वमेवमवधार्यम्।।23।।
द्वादशभागविभक्ते(भागच्छिन्ने) वासगृहेऽवस्थिते सहस्त्रांशौ।
दीपश्चरस्थिरादिषु तथैव वाच्यः प्रसवकाले।।24।।
यावल्लग्नादुदितं वर्तिर्दग्धा तु तावती भवति।
दोषः पूर्णे पूर्णः शशिनि क्षीणे क्षयस्तु तैलस्य।।25।।
(हो. र. 1 अ. 160 पृ.)बलवति सूर्ये दृष्टे बहून् प्रदीपान् वदेत् कुपुत्रेण।
अन्यैरपि(रपगतः) गतवीर्यैः सूतौ ज्योतिस्तृणैर्भवति।।26।।
सौरांशेऽथ जलांशे चन्द्रेऽर्कजसंयुतेऽथवा हिबुके।
तद्दृष्टे वा कुर्यात्तमसि प्रसवं न सन्देह:।।27।।
होरामनीक्षमाणे शशिनि परोक्षस्थिते पितरि: जात:।
मेषूरणाच्च्युते वा चरभे भानौ विदेशगते।।28।।
द्युनिशोरर्कासितयो: कुजेन सन्दृष्टयो: पितान्यगत:(प्यभवत्)।
चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृत:।।29।।
पञ्चमनवमद्यूने पापैरर्कात्तु पापसंदृष्टै:।
बद्ध: पिताऽन्यदेशे राशि वशात् स्वेऽथवा मार्गे।।30।।
जायात्रिकोणसंस्थै: क्रूरैरानन्दवर्जित: प्रसव:।
दशमचतुर्थोपगतै: सौम्यै: सम्पत्तयो विपुला:।।31।।
पश्यति न गुरु: शशिनं लग्नं च दिवाकरं सेन्दुरम्।
पापयुतं वा सार्कं चन्द्रं यदि जारजात: स्यात्।।32।।
गुरुशशिरवयो नीचे सूतौ लग्नेऽथवार्कसूनुश्च।
लग्नोडुपभल्गुपुत्रा: शुभैरदृष्टास्तथान्यजातश्च(जात: स्यात्)।।33।।
क्लेशो मातु: क्रूरैर्बन्ध्वस्तगतै: शशाङ्कयुक्तैर्वा।
चन्द्रात् सप्तमराशौ पापा मरणाय(मरणाय निर्दिष्टा:) वक्रसन्दृष्टा:।।34।।
चन्द्राद्दशमे भानुर्मातुर्मरणं करोति पापयुत:।
शुक्रात् पञ्चमभवने(नवमे) सौरियुतस्तेन(सौरियुतोऽर्कोऽथ) वा दृष्ट:।।35।।
चन्द्रात्त्रिकोणराशौ रविजो मातुर्वधं दिशति रात्रौ।
शुक्रात्तथैव दिवसे भौम: पापेन सन्दृष्ट:।।36।।
कुजसौरयोस्त्रिकोणे चन्द्रेऽस्तगते वियुज्यते मात्रा।
दृष्टे सुरेन्द्रगुरुणा सुखान्वितो दीर्घजीवी च।।37।।
म्रियते पापैर्दृष्टे शशिनि विलग्ने कुजेऽस्तगे त्यक्त:।
लग्नाच्च(त्स्वला, स्तला........) लाभगतयोर्वसुधासुमन्दयोरेवम्।।38।।
पश्यति सौम्यो बलवान् यादृग्गृह्णाति तादृशो जात:।
शुभपापग्रहदृष्टे परैर्गृहीताऽथवा(गृहीतोऽपि स म्रियते) म्रियते।।39।।
(एकांशावस्थितयोर्यमारयोस्त्यज्यते मात्रा)एकांशस्थितयोर्वा यमारयोस्त्यज्यतेऽथवा मात्रा।
लग्नात्सप्तमभवने भौमे शनिवीक्षिते नियतम्।।40।।
यादृक्पश्यति सौम्यस्तत्तुल्यगुणं सुत:(सुतम्) समाधत्ते।
पितृजननीसादृश्यं रवे: शशाङ्कस्य बलयोगात्।।41।।
सिंहाजगोभिरुदये जातो नालेन वेष्टितो जन्तु:।
लग्ने कुजेऽथ सौरे राश्यंशसमानगात्रश्च।।42।।
भौमशनिद्रेक्काणे पापे लग्ने स्थिते शशियुते(सुते) वा।
द्वयेकादशगै: सौम्यैरभिवेष्टितको भुजङ्गेन।।43।।
सूर्यश्चतुष्पदस्थ: शेषा द्विशरीरसंस्थिता बलिन:।
कोशैर्वेष्टितदेहौ यमलौ खलु संप्रजायेते(प्रसूयेते)।।44।।
लग्ननवभागतुल्या मूर्तिर्बलसंयुताद्ग्रहाद्वापि।
नवभागाद्वर्णोक्ति: शशियोगात्तत्र सूतस्य।।45।।
बहवो यदि बलयुक्ता मिश्रा मूर्तिस्तदा वाच्या।
कुलजातिदेशपुरुषान् बुद्ध्वाऽऽदेशं समादिशेत्तज्ज्ञ:।।46।।
त्रिंशद्भागे भानुर्ग्रहस्य (यस्येह संस्थितो)यस्य स्थितो भवति।
तत्तुल्या: प्रकृति: स्यादेवं मुनयोऽध्यवस्यन्ति।।47।।
तत्कालसुहृदरित्वं बलं च नीचोच्चमध्यसंश्रितताम्।
ज्ञात्वा ग्रहस्वभावांस्तेभ्य: संचिन्त्यमन्यदपि।।48।।
(हो.र. 1 अ. 174 पृ.)क्षीणे शशिनि सपापे माता म्रियते पिता रवौ तद्वत्।
बलिभिर्दृष्टे मिश्रैर्व्याधि: सौम्यै: शुभं भवति।।49।।
विपुलविमलमूर्ति: स्वोच्चगो वा स्वराशौ
गुरुसितयुत इन्दुर्बोधनेनानुदृष्ट:।
अतिशयशुभदाता पञ्चमे वाऽपि मातु:
पितुरपि खलु तद्वत् भास्कर: सर्वदैव।।50।।
इति कल्याणवर्मविरचितायां सारावल्यां सूतिकाध्यायो नवम:।