श्रीमद्द्विवेदिगुरुवर्यपदारविन्द-
सच्चिन्तनस्फुरितबोधलव: करोति।
झोपाख्य-चानन-सुतो मुरलीधरोऽस्य
भाष्यस्य तद्विवरणं लघु-संशयघ्नम्।।1।।
अस्तीहास्मिन् सत्पथारूढे विमूढगूढे 'सुधाकर-भाष्ये' प्राचीनरीति वमुखानां ज्यौतिषसिद्धान्तगहनगोलगणितवञ्चितानां जनानां प्रायोवृथा संशयावसर इति सप्ताधिकैकोनविंशति-1907तमख्रीष्टाब्दस्य 'मार्च'-मासीय-'हिन्दुस्तान-रिव्यू'नाम्नो मासिकपत्रस्य कस्यचिदङ्गल भाषामयस्य क्रोडीकृत-बार्हस्पत्य-लेखाडम्बरस्यावलोकनतो व्यर्थगुरुनिन्दां सोढुमदक्षैरस्मद्देशीयमैथिलवृन्दै: प्रकाशितायाश्चिकित्साया निश्चित्य तल्लघुभाष्यविवरणनिर्माणमावश्यकमतो ममोद्यम: स्तोकोऽपि सहृदयानां तद्भाष्यरसिकानां मनोमोदकायैवात: प्रथमं ताव्दयाजुषे सुधाकरभाष्ये तदाह।
(1) श्लोके 'पञ्चसंवत्सरमयम्'-इति पाठे सोमाकरेण रक्षिते व्याख्यातेऽपि तत्पदस्य युगे सम्बन्धात् तद्युगाध्यक्षं प्रजापतिं प्रणम्येति विशेषणं वरीयोऽतो गुरुशोधित: पाठ एव शोभन:। अनेके ऋषयस्तत्र शुचि-नामा कश्चिद्ऋषिरिह का नाम शङ्का। मन्मते शुचिभ्रयस्यैव लघुनाम शुचिरिति। द्रष्टव्यं गोत्रप्रवरनिबन्धकदम्बकम्।
(4) श्लोकानन्तरं 'ये बृहस्पतिना' इत्यादि पद्येन पञ्चसंवत्सरात्मके युगे संवत्सरानयनं यत् कृतमिह बृहस्पतिरिदानीं कं राशिमाश्रित्य वर्त्तत इत्यवगमाय ज्यौतिषवेदाङ्गे न कश्चित् प्रकारोऽस्त्यत 'इदं पद्यं क्षेपक' मित्यत्र प्रायो न कस्यापि संशय:।
(6) श्लोके 'य एव माघ: स एव तप:' इत्यत्र तप इति युगपदानुरोधतो नपुंसकम्। तस्य माघमासज्ञापनं सोमाकरभाष्यानुकूलम्। "तपा माघेऽथ फाल्गुने" इति लिङ्गानुशासनमप्यनुशास्ति।
तत्र बिम्बीयसूर्यचन्द्रधनिष्ठायुतितो ज्यौतिषवेदाङ्गसमयकल्पनं वस्तुतो जल्पनमिव। क्रान्तिवृत्तस्य समानसप्तविंशतिभागानां नक्षत्रकल्पनादिहेति।
(7) श्लोकोपपत्तौ ये भगणादयो गृहीतास्ते तु पञ्चसिद्धान्तिकाप्रकाशिकायां गुरुवरैर्लिखिता एव। अतोऽन्यत् सर्वं ज्योतिर्विदां सुस्पष्टमिह मूढकाठिन्यमास्ताम्।
(8) श्लोके 'तन्नाडिकायास्तु भवेत प्रमाणम्' इति ज्यौतिषवेदाङ्गोक्तवचनमाश्रित्यैव स्वभाष्ये दिनरात्रिमानयोर्युक्ति: प्रदर्शिता। यथा उत्तरायणतो यदि किल गतदिवसा:=25 तदोत्तरायणारम्भदिनान्तरं पञ्चविंशे दिवसे तदारम्भदिनमानात् 25 प्रस्थमितं दिनप्रमाणमधिकम्। तदारम्भे चेद् दिनमानम् 24 घटिकास्तदा तद्दिने दिनमानम् 24घ+25प्र
=घ=घ=घ= मुहू इदमेव प्रमाणं 'यदुत्तरस्यायनतो गतं स्यात्' इत्यादियाजुष 50 श्लोकतोऽपि तदैव यदि 'यदेव षष्टया' इह 'तदेकषष्टया' अयं पाठो भवेत। अतोऽनुमीयते श्रीपतिप्रभृतय: प्राचीना अप्येवमेव व्यवहृतिं मनसि निधाय पयसां षष्टिपलै: पूर्णा जलघटी इत्यादित: समयविभागा: स्वस्वग्रन्थेषु लिलिखु:। न ह्येतेन तुलामापनविभागा बुद्धिमद्भिर्विभावनीया इति। सर्वत्रैव ज्यौतिषसिद्धान्ते चतुर्विंशत्यंशा एव परमक्रान्तिभागा: स्वीकृता:। तत: साक्षदेशे चाराद्यानयनं सुस्पष्टमेव। अहोरात्रहासवृद्धित: सम्प्रति प्रचरितां युक्तिमवलम्ब्य ज्यौतिषवेदाङ्गनिर्माणदेशाक्षांशोहा गुरुवराणां नि:सन्दिग्धाऽपि वृथाऽभिमानिनां मोहायैव।
(9) श्लोके परम्परातो लेखकाद्यनभिज्ञतया 'द्विर्युग्माद्यम्' इति भ्रष्टपाठं संशोध्य 'द्विर्युग्मम्' इति सयुक्तिक: पाठ: सर्वथैवार्ष:। 'गणितस्कन्धे उपपत्तिमानेवागम: प्रमाणम्' इत्यादृत्यैव ज्यौतिषसिद्धान्तप्रचारोऽन्यथाऽनर्थापत्ते:।
सर्वत्रैव ऋतुशब्दतोऽत्र षट्संख्या गृहीतेह केषां मन्दानामशङ्का। गुरुवरवासनात: 'प्रथमं सप्तमम्' इत्यादिपाठादपि षडन्तरिते तिथावयनाद्या भवन्त्यत ऋतुशब्देन षट्संख्याग्रहणे 'द्विर्युग्मम्' इति पाठे च ज्यौतिषवेदाङ्गनिर्मातृमर्म सुरक्षितम्। अन्यथा
"ग्रन्थोऽन्यथाऽन्यथार्थं करणं यच्चान्यथा करोत्यबुध:।
स पितामहमुपगम्य स्तौति नरो वैशिकेनार्याम्।।"
इति वराहोक्ति: कुत्र संघटते।
(10) श्लोके 'धाता क' इत्यत्र धाता क इति पदद्वयमेकार्थबोधकमवगम्य तत्र 'अर्यमा' इति पाठ: समुचित एव। सोमाकरोऽपि निजभाष्ये सन्देहापनोदनायैव 'धाताऽर्यमेति मन्त्रवर्णात्' इत्युक्तवान्। अथात्र 27 सौरनक्षत्रैर्यादि 366 एते रविसावनदिवसा लभ्यन्ते तदा सौरनक्षत्रै: क इति लब्धा एकर्त्तौ रविसावनाहा: । एवमेकस्मिन्नृतौ चन्द्रदिवसा द्वाषष्टि:। एतेन 19,51,56 पृष्ठेषु 'द्विलवक्षयसम्भूतम्' इत्यादि गर्गोक्तमप्युपपद्यते।
(11) श्लोकस्य पूर्वार्धे साम्यान्यतोऽखण्डदिनानयनाय गुरुवरभाष्यत एव वेदाङ्गकथनं सङ्गच्छते। तत्र सैकनिरेककरणं सिद्धान्तविदां सुस्पष्टमेव। अस्योत्तरार्धे न कश्चिद्विशेष: किन्तु वृथैव गणितानभिज्ञानां सोमाकरादीनां वागाडम्बरमिति।
(12) श्लोकेऽपि न कश्चिद्विशेष:। द्विवेदिभाष्यत: सर्वं स्पष्टमेव। तत्र धूलिप्रक्षेपणमिव वाङमात्रवर्षणं कस्य हास्याय न भवेदिति।
(13) श्लोकस्य यागपरं सोमाकरव्याख्यानमास्ताम्। किन्त्विह स्फुटार्थमेव 'आप' एतत्स्थले 'गत' इति पाठो गुरुवरैरपि स्वीकृत:। अथात्र चन्द्रपर्वग्रणानयनेऽधिमासशेषत्यागो ज्यौतिषसिद्धान्तऽतिप्रसिद्ध इति। अथात्र भाष्ये 'शङ्करबालकृष्णदीक्षितशोधितानुरूपं समीचीनम्' इत्यस्यायमभिप्रायो यथा दीक्षितव्याख्याने त्रुटिस्तथैव बार्हस्पत्यव्याख्यानेऽपीति।
"This total should be farther increased by two for every sixty of the total" (see his Jyotisha Vedanga p. 41)
अत्र This total should be fartherincreased by whole number of the quotient obatained by multiplying by two and dividing by sixty the total.
एवमुचितम्।
अत्र ज्यौतिषमर्मवञ्चितस्याधिपर्वग्रहणं राहुरिवेत्यत्रोदाहरणम्।
कल्प्यते तृतीययुगे द्वितायपर्वणि पर्वगणानयनमभीष्टम्। तदा बार्हस्पत्यव्याख्यात: 3-1=2। इदं द्वादशगुणम=2×12=24। इदं द्विगुणम् =24×2=48। इदं गतपर्वद्वयेन युतम्=50। इदं षष्टितोऽल्पमत: पर्वगण: =50।
अथ बार्हस्पत्यगणितेन
पर्वगण:= [(य-1)×12×2+र] ×
= [(3-1)×12×2+2]×
= [(48+2) =50+=51+।
एतद्द्वयमसाधु। यतस्तदगणितेनाधिपर्वसहित: पर्वगण आयाति तत्त्यागेन वास्तव: पर्वगण:51, सोंऽयं द्विवेदिव्याख्यानेन तदुपपत्त्या च सिद्ध्यतीति प्रत्यक्षबाधो हि महादूषणमिति विलोकयन्तु गणितरसिका ज्योतिर्विद:।
(14) श्लोके पारिभाषिके न कश्चिद्विशेषस्तथापि द्विवेदिपा एव श्रेयानिति।
(15) श्लोके पूर्वापरप्रसङ्गेन भांशानयनमेवोचितमतो गुरुवरशोधित: पाठ एव समुचित:। इह द्वादशपक्षसम्बन्धिनो भांशा अनुपयुक्ता अपि कैश्चित् साध्यन्ते वृथा तत्परिश्रमस्तेभ्य एव रोचते। न कोऽप्यस्य 19 श्लोके सम्बन्धो यस्तैर्दत्त इति।
अत्रानुवादे 'एकादशगुण:' एतेन 'एकादशयुत:' इत्यर्थ: कस्मात् तथा "द्वादशकोद्गता:" इत्यनेन द्वादशभक्ता इति च कस्मा अन्यस्मै गणितज्ञाय रोचेत?। अथैतद्व्याख्याने या रीति: प्रदर्शिता सा च श्लोकार्थत: कथमपि न सिद्ध्यतीत्यन्यदभुक्तमन्यद्वान्तमिव। अथात्र तत्कल्पितशङ्कासमाधाने अपि तामेव दशामालम्बेते (see 48-49 pages of his JyotishavedÁnga)
अथ यदि पक्षा:=14। तदा तदव्याख्यानतो भांशा:=8×1+73×2=8 +146=154। नक्षत्रभांशतष्टतो भांशा:=30 गौरवेण सिद्ध्यन्ति। गुरुवररक्षितपाठतश्च भांशा:=14×11=154 नक्षत्रभांशतष्टतो भांशा:=30। एते लाघवेन श्लोकार्थतस्तद्वासनया च सिद्ध्यन्ति। एवं यदि पक्षा:=15, तदा तद्व्याख्यानतो भांशा:
8×1+3×73=8+219=227 नक्षत्रभांशतष्टतो भांशा:=83।
गुरुवरशोधितपाठतश्च भांशा:11×15+62=165+62=227 नक्षत्रभांशतस्तष्टास्ते 83 लाघवेन सिद्ध्यन्तीति निरवद्यम्।
(16) श्लोके 'स्यादून:' इत्यत्र 'स्याद्युत:' इति गुरुवरशोधितपाठेनैव सूक्ष्मगणनाऽन्यथा स्थूलगणनैव हस्तगता। अथ ज्यौतिषवेदाङ्गे श्लोकपाठानां क्रमभङ्गो वैदिकानां कण्ठेन पाठकरणादिति सर्वेषामेकमतम्। अतो विंशश्लोकानन्तरं गुरुवरैर्यथार्थतिथिनक्षत्रानयनार्थमेव स्वभाष्येऽयं शोधित: श्लोको निवेशित:। तद्याख्या च सूक्ष्मनक्षत्रार्थं साध्वी। तत्र हि सोमाकरवदन्यथा व्याख्यानेन वेदाङ्गे स्थूलप्रकारप्रकाशनेन दोष एवेति। एवमेवार्चस्य त्रयोदशश्लोकश्च तदर्थप्रतिपादको द्विवेदिशोधित एव समुचित:। तत्र तिथिनक्षत्रानयनश्लोकत्रुटिर्लेखकभ्रान्त्या पाठकभ्रान्त्या वा प्रसिद्धत्वादिति गुरुवरोक्तं ज्यौतिषसिद्धान्तविदां किमुत न मान्यं वेदाङ्गस्य सूक्ष्मत्वसिद्धेरिति दिक्।
(17) श्लोके यदि यागकालपरं सोमाकरभाष्यवदन्येषां व्याख्यानं गणितयुक्तिरहितं वस्तुत: श्रुतिविरुद्धमपि श्रुतिसम्मतं तत्रालमस्माकमाग्रहेण। यत्किञ्चिन्मात्रादिपरिवर्त्तनेनैव लेखकादिदोषजनिताऽशुद्धिर्गुरुवरमाश्रित्य शोधिता स्फुटार्थप्रदाऽपि चलच्चितं वञ्चयतीव। अत्र द्विवेदिभाष्ये भांशतो नक्षत्रानयनोपपत्ति: प्राचीनकुट्टकरीतित: सर्वमान्यैव। 'नक्षत्रक्रमाणि' अत्र चरणवाचकक्रमलिङ्गभ्रान्तिवारणाय बार्हस्पत्यो वाचस्पत्यकोशं किमु न पश्यति।
(18) श्लोके 'मृ' यदि ह्रस्व एव स्यात् तर्हि छन्दोभङ्गदोषदानेन ज्यौतिषवेदाङ्गकारस्यापकार एव बार्हस्पत्येन विहित:। तथैव वेदाङ्गकारसम्मत-'चित्-स्थाने' 'चि' करणेन तेनैव बार्हस्पत्येन सुधास्थाने हालाहलं न प्रक्षिप्तं किमु येन वेदाङ्गच्छन्दसो वृथैव मृतिरजायत। अथात्र वस्तुत: प्राचीनज्यौतिषशास्त्रापरिचितेन तेनानियतसमीकरणस्य (Indeterminare equation) गौरवक्रियैवालेखि। अत्र गुरुवरलिखिता प्राचीनरीति: 17 श्लोकोपपत्तौ प्रकटितैव। अत्र सोमाकरभाष्यं हि दर्शनार्हम्। (द्र. अस्य पुस्तकस्य पृ. 30-32)
(19) अहो ! येऽष्टकास्वेव विभ्रमन्ति ते कथं पर:शतं वैदिकसिद्धान्तसङ्केतकाठिन्यमवगच्छन्ति। वेदे ऋतु-शब्द: षट्संख्याबोधक: कुत्रचित् पञ्चबोधकोऽस्त्यपि सर्वत्र श्रुतौ चतस्र एवाष्टका:। पञ्चदशश्लोकेऽस्य सम्बन्धाभावेऽपि गणितोपपत्तियुक्तं गुरुवरशोधितं पाठमपहाय यथेच्छकपोलकल्पितो बार्हस्पत्यपाठो दुराग्रहमेव प्रकाशयति। इना: सूर्या इत्यादिभानुवाचिन: सर्वे ज्यौतिषशास्त्रे द्वादशसंख्याबोधका:। अत्र ब्रह्म वा एष इनस्तपतीति सोमाकरभाष्यं विलोक्यम् (अस्य पुस्तकस्य पृ.46, पं.3) इनो राजन्नरति: समिद्धो रौद्रो दक्षाय सुषुमा अदर्शि (ऋ.सं., अष्टक 7, अध्या. 5, वर्ग 31)
(20) श्लोके 25 श्लोकोक्त-'वर्त्तमानार्कभ'मितिवत् 'तिथि नक्षत्रमादिशेत्' इति स्पष्टमवलोक्यापि बार्हस्पत्येन सर्वमन्यथैव व्यधायि। (See his Jyotish-vedanga p.58-59). तदशुद्धिप्रकाशनाय तदनुसारेण तिथिनक्षत्रानयनार्थं कल्प्यते पर्वभंश:=1। अत्र 'जावाद्यंशै: समम्' - इत्यादिना 'जौ द्रा ग' - इत्यादिना चाश्विनी। अथ पर्वानन्तरं द्वितीयायां तिथौ नक्षत्रानयनार्थं तदगणितम् -
11ति=11×2=22। इदं पर्वभांशसमन्वितं जातम्=22+1=23। इदं भसमूहेन सप्तविंशत्या विभज्य लब्धं शून्यमत: पर्वभाद् गणनया द्वितीयायामश्विनी। सा च बार्हस्पत्येन तदनुयायिभिश्चैव मान्या। आश्चर्यं खलु। पर्वभमश्विनी तदग्रे द्वितीयायां चाश्विनी इति क: स्वीकुर्यात्। एवं तद्व्याख्यानरसिका अशुद्धिरसं प्रकामं लिहन्तु। अथात्र गुरुवरसंशोधितपाठव्याख्यानुसारं गणितम्-120ति=120×2=240। इदं पर्वभांशसमन्वितं जातम्=240+1=241। इदं भसमूहेन भांशसमूहेन विभज्य लब्धमेकमत: पर्वभगणनयाऽश्विनी गता द्वितीयायां भरणी समायातासा च युक्तैव। एवमिह सोमाकरव्याख्यानवदबार्ह स्पत्यव्याख्यानकल्पनं बालजल्पनमिव गणितविदां विनोदायैव।
'तिथिमेकादशाभ्यस्ताम्' इत्यशुद्धिविवरणम्। ज्यौतिषवेदाङ्गेकिल शुद्ध: पाठ: 'तिथिमर्कदशाभ्यस्ताम्' इत्येवासीत्। लेखकादिदोषतोऽथान्यबृहज्ज्यौतिष-सिद्धान्तग्रन्थप्रचारात् तदशुद्धिशोधकजनदृष्ट्युपेक्षातोऽपि ककारोर्ध्वगतरेफो विकृत्य मकारमस्पृशत् तेन 'तिथिमेकदशाभ्यस्ताम्' इति। ततस्तमशुद्धपाठं कश्चिद्गणितानभिज्ञ: 'तिथिमेकादशाभ्यस्ताम्'-इति परमामशुद्धिमकरोत्। इयमशुद्धि: सोमाकरभाष्यरचनात: पूर्वमेवासीदिति ज्यौतिषमर्मज्ञा इष्टतिथौ नक्षत्रानयनत: स्पष्टं विलोक्य तमशुद्धिप्रियमवलिप्यन्तु। अथैवं सर्वथा शुद्धस्य तत्पाठस्यायमर्थ:। तिथिं प्रसिद्धाम्। अर्कदशाभ्यस्ताम्। अर्कैर्द्वादशभिर्दशभिश्चाभ्यस्तां गुणिताम्। वाऽर्काणां द्वादशानां दश विंशत्यधिकशतमग्रे पूर्ववत्। इत्याद्यङ्कव्यवहारो गणिते प्राचीनसमयतोऽतिपरिचितोऽस्ति न ह्यत्र गणितविदां केषां चनाङ्कानां वामतो गतिरिति सामान्यरीतिमवलम्ब्यानर्थमर्थकरणं युक्तमित्यलम्।
(21) श्लोके गुरुवरभाष्येणैवोपपत्तिमद्वेदाङ्गकथनं भवतीति पुन: पुन: सज्जना असज्जना अपि गणितविदोऽवलोकयन्तु।
(22-23) श्लोकयोर्यदि गोलगणितयुक्तिरहिते सोमाकरव्याख्याने एव मान्ये तत्र नास्माकमाग्रह:।
(24) श्लोके सर्वाणि प्रमाणानि कालसाधनरूपाणीति सोमाकरभाष्येण सङ्गच्छतेऽपि द्विवेदिभाष्यं ज्यौतिषशास्त्रकलुषितानां धान्यप्रमाणशङ्का युक्तैव।
(25) श्लोके 'इदं शङ्करबालकृष्णदीक्षितव्याख्यानं समीचीनम्' अत्र समीचीनपदेन यथार्थम्। बार्हस्पत्येन तु स्वज्यौतिषवेदाङ्गव्याख्याने दीक्षितव्याख्यानमुत्तमतरं लिखित्वा धूलिप्रक्षेपेण धूसरायिते स्वव्याख्याने मालिन्येऽमालिन्येऽपि विकृतिर्न स्व्यकारि यथा -"I am glad to find that Mr. Dikshit's translation of य (25) is better than mine" (See his Jyotisha-vadÁnga's preface p.ii)
अत्र सर्वजनविशवाकार्थमुदाहरणम् - कल्प्यन्ते युगादितो गतपर्वाणि=9 तत्पर्वतो गतास्तिथयश्च 10। तदा प्रथमं पर्वणि सूर्यनक्षत्रानयनं तद्गणितेन -
11प=11×9=99 इदमेव तन्मते पर्वणि नक्षत्रमसम्भवम्। अत्र नक्षत्रस्याशा एव 99 तदा तदंशमानप्रयोजनं किम्। भांशज्ञानतश्चन्द्रनक्षत्रानयनवत् (17-18 श्लो.) सूर्यनक्षत्रानयनं कुत्रापि ज्यौतिषवेदाङ्गे नास्तेयेवातस्तदनुवादः सर्वथा हेयः। (See his Jyotisha-vadÁnga's preface p.44) एवं दशमीतिथावपि तदसङ्गतानुवादतो नक्षत्रम् =90 महाऽसम्भवम्। अत्र गुरुवरभकष्यानुसारतः (द्रष्टव्यमस्यैव ग्रन्थस्य पृ. 41) रविन.= =9+
नक्षत्राणि गतानि 11 नक्षत्रस्य 65 अंशा गताः। श्रविष्ठादिगणनया दशमीतिथौ सूर्यनक्षत्रमार्द्रा यदंशाः 65 गता इति। अत्र यूरोपीयगणितज्ञसुखावगमायास्यनुवादः 'Multiply the number of Parvans by eleven and the number of Tithi by nine. Divide (the sum of two products) by Yuga (124) and add the number of Parvans to the quotient, the result is Sun's Nakahatra on the tithi counting from Sravistha'.
(26) श्लोके बार्हस्पत्यानुवादे 'शेष'-शब्दो निरर्थक:। अतो ज्यौतिषवेदाङ्गे 'निरेकं द्वादशाभ्यस्तम्'- इत्यादौ सर्वत्राध्याहारवदिहापि गुरुवरैरध्याहारेणैव शेष: सार्थको विहित उपपत्त्या पाठश्चापि शोधित:। तत्र बार्हस्पत्यव्याख्यानं नतकाल (Hour-angle) प्रदर्शकं निष्प्रयोजनमेवात्र नतकालचर्चाभावात्।
(27) श्लोके वास्तवमानमवगम्यापि ज्यौतिषवेदाङ्गकारो भिन्नसंख्यात्यागेन कथं स्वाभिप्रायमसङ्गतं व्यधास्यदिति कतिपयसमयपर्यन्तं मृतमिव ज्यौतिषवेदाङ्ग गुरुवररचितसुधाकरभाष्यं प्राप्य सजीवमिव स्वस्यानुवादतस्तत्पूर्वावस्थामेव लभमानं विलोकयताऽपि बार्हस्पत्येनदुराग्रहाछन्नलोचनेन सुधा मुधा कथं न मन्येत (See his Jyotisha vedanga p.46-47) वस्तुतस्तु गुरुवररक्षितपाठो ग्रन्थकर्त्तु: पाण्डित्यमेवैधपतीति 'बुद्धे: फलमनाग्रह:' इति शिष्टवचनप्रामाण्यात् सर्वथा स्वीकरणीय:। 'ससप्तैकं भयुक्'-इत्यादिना रविनक्षत्रभोगकाल: प्रदर्शित एव। पाण्डित्यप्रकाशनमेव स्वाभिमतं चेत् तर्हि ज्यौतिषवेदाङ्गकर्त्तुस्तत् कथं नेति तूष्णीं स्थातव्यम्।
(28) श्लोके महर्षेर्लगधस्य संस्कृतज्ञातृत्वस्य रक्षणायैव 'सौरा: युगे' इति पाठौ समुचितौ। न हि 'यस्य क्वापि गतिर्नास्ति तस्य वाराणसीगति'रितिवदार्षकल्पनामेव शिथिलां गतिमाश्रित्य ज्ञानलवदुर्विदग्धजनमन: सन्तोषार्थमेव मुखव्यादानमात्रसामर्थ्यप्रकाशनमुचितम्।
(29) श्लोके 'द्विषष्ट्या' गुरुवरशोधितपाठेन च्छन्दोभङ्गस्तर्हि तच्छन्दोभङ्गदोषसङ्गिनो बार्हस्पत्यस्य 'स्वराक्रमेते सोमार्कौ' इति 6श्लोके तथा 'पक्षा यदर्धं पक्षाणाम्'-इति 23 श्लोके च का गतिरिति। सर्वत्र स्फुटार्थप्रतिपादनार्थमेवेति सर्वजनमानये वाग्रयचना मूढतोषप्रदैव।
(30) श्लोके सोमाकरभाष्ये सर्वमुल्लिखितमपि द्विवेदिवर्यै: स्फुटार्थमेव व्याख्यातमुपपादितं च।
(31) श्लोके 'तच्च पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते लिखितसमतिति' पञ्चसिद्धान्तिकाटीकायां श्रीमद्द्विवेदिभि: सर्वे प्रायोजनिका: पदार्था निदर्शिता:। तेभ्योऽन्ये सुखेनैवावगम्यन्ते। यथा योज्ययोजकयोर्बोधाद्योगस्य तथा वियोज्यवियोजकतो वियोगफलस्य ज्ञानं सम्प्रति व्यक्तगणिताध्यायिनामपि सुकरं चेत् किमिह बार्हस्पत्यो व्यर्थं संशयमुत्पाद्य स्वपरिचितिं प्रथयति। आहोस्वित् !। 'भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा' इत्यादिज्यौतिषसिद्धान्तपरिभाषा बालैरप्यवबुद्ध्यते। एवमिह पाठश्चापि सूक्त:। न हि कुत्रापि द्विशब्देन दिनग्रहणम्।
(32-34) श्लोकेषु 'दितिबृहस्पती' इति पाठे नि:सन्दिग्धेऽपि कुत: सन्देहाहिसंशयिता दुर्बोधान्धकारे ज्यौतिषशास्त्रमार्गे विचरितुं साहसं विदधते। 'अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादि तुङ्गा' इत्यादिवराहोक्तपारिभाषिकं सम्प्रति दृष्ट्वाऽपि स्वीयभ्रमस्तैर्दूरयितव्य:। वस्तुत इह परम्परया त्रुटिर्याऽऽसीत् तत्पूरणयैव महतां गुरुवराणां दृष्टिक्षेप:। 'प्रोष्ठपदयोर्विपर्यय: पाठदोषो वा' इति सोमाकरोऽपि स्वभाष्ये व्यलपदिति बार्हस्पत्योऽधुना विलोकयतु। तत्र च गुरुवरभाष्ये 'अत्र पूर्वभद्रपदाया अजो वैकपादादिति देवताद्वयं वा एक देवताया नामद्वयम्' इमं सुलेखमपि तदैव स चान्येऽपि ज्यौतिषशास्त्रज्ञा: पश्यन्तु। आदौ सर्वा ज्यौतिषशास्त्रसम्बन्धिनी गणना धनिष्ठात:। अत्र हि कृत्तिकातोऽतो लगधेन वाऽन्येन केनापि स्वस्वसमयस्थितिवशेन तत्तद्हन्थेषूक्ता: सर्वा गणनास्तत्पूर्वसमयजा: संगृह्य लोकोपकाराय स्वसमये 'ज्यौतिषवेदाङ्ग'-नाम्नाऽयं निबन्धो व्यधायीति स्फुटम्।
(35) श्लोके एकैकस्य नक्षत्रस्य चत्वारश्चत्वार: पादा नरपतिजयचर्यादि-स्वरग्रन्थेषु 'चु, चे, चो, ला' इत्यादिका: शतपदादौ प्रसिद्धा:।
(36) श्लोके ज्यौतिषवेदाङ्गे या स्थितिरासीत् तस्या भिन्ना सम्प्रतीति ज्ञापनायैव गुरुवरै रामदैवज्ञवाक्यानि विलिख्य पश्चात् 'तथैतद्गणे ज्यौतिषवेदाङ्गोक्तेभ्यो बहूनि भिन्नानि पठितानि'-इति व्यलेखि तत्राशङ्का ज्यौतिषशास्त्रानभिज्ञतैव।
(37) श्लोके चान्द्रपर्वगणात् सौरपर्वगणसाधनं 'द्यूनं द्विषष्टिभागेन' स्फुटमत: परम्परातो विकृत: पाठो गुरुवरैर्गणितयुक्त्या शोधित: सन्नेव स्वाकृतिमलभत। एवं शुद्धपाठं 'यत्कृतावुपजायेते' ज्ञात्वाऽपि कोऽन्यथोन्मत्त इव प्रलपति। 'तच्च द्विषष्टिभागेन द्यूनं कार्यम्' इति सर्वं 'षष्ट्या षष्ट्या युतं द्वाभ्याम्' इति 13श्लोकवत् स्पष्टमेव।
(38) श्लोके 'तत्त्रिंशद्द्यु' इति पाठतो गुरुवरैर्वेदाङ्गं सुरक्षित मन्यथा राहुसुधाकलशनीति: स्फुटैव। 'गुणहरयोर्दृढत्वात्'-इत्यादिना वेदाङ्गे कलाऽभिधानकरणं सम्यक्। अत्र परम्परात एव यथार्थाभिप्रायदायके 'सविंशा' इति शुद्धे पाठे शोधनं पिष्टप्रेषणवदलम्।
(39) श्लोके यागकालपरं सोमाकरभाष्यं विलोक्य गुरुवरै: शोधितं सोपपत्तिकपाठमनुसन्दधतु सुजना:।
(40) श्लोके इदं पद्यं 8श्लोके व्याख्यातमेव। तद्वशेनेह 'तदेव षष्ट्या' इत्यत्र 'तदेकषष्ट्या' इति शोधनं समुचितम्। अत्र सोमाकरभाष्यं तत्र गुरुवररक्षिता टिप्पणी च विलोक्या।
(41) श्लोके शोधित: पाठ एव समीचीन:। किन्तु द्विवेदिभाष्ये 'अत्र बार्हस्पत्यव्याख्यानं प्राय: समीचीनमेव' इति यदुल्लेखितमस्ति तत्र प्राय: शब्देनैव त्रुटिमवगच्छन्तु धीरा:। अत्र प्रतिपर्व ऋतुशेषं चान्द्रदिनभागानामर्धमिति गुरुवरभाष्योपपत्त्या स्पष्टम्। वस्तुतो बार्हस्पत्यव्याख्यानुवादौ यथार्थाभिप्रायच्युतावेव। इह ऋतुशेषशब्देनाधिपर्वशेषमिति 'सदा पर्वणि पर्वणि' इत्युल्लेखात् स्फुटम्।
(42) श्लोके सोमाकरभाष्ये न का चन त्रुटि:। गुरुवरभाष्यमिहार्थान्तरज्ञापकमिति। कतिपयेषूपलब्धलिखितपुस्तकेषु 'भूयोऽप्येवं प्रकल्पयेत्' इति पाठो द्विवेदिसम्मत:। 'तदेवाहं चोक्तवान्' इति ज्यौतिषवेदाङ्गरचयितुरुक्ति:। एतेनास्य ज्यौतिषवेदाङ्ग्रन्थस्य रचयिता लगधादन्य: कश्चिदिति स्पष्टम्। शिष्येण पृष्टो गुरु: कथयति -
'इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम्।
दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत्'।।
एतत् पद्यं शिष्यगुरुसंवादरूपं सोमाकरभाष्ये पाठाभावात् क्षेपकमतो ज्यौतिषवेदाङ्गकर्त्ता लगध एवेति बहूनां सम्मतं युक्तमिव।
(43) श्लोके गुरुवरमतेन 'वेद विदश्नुते' इति पदच्छेदेन 'सोमसूर्यस्तृचरितम्' इत्यस्य पुनरुक्तदोषोऽर्थान्तरेण विनश्यतीति स्पष्टी: क्रियते ज्यौतिषवेदाङ्गकारपाण्डित्यं चेति।
आर्चे -
(1) श्लोके कालं कालपुरुषम्। कालस्य समयस्य प्रधानज्ञापकत्वात् सूर्ये कालपदवाच्यत्वेऽदोष:। प्रातर्मध्याह्नसायमिति त्रिधा कालभेदेन सूर्यस्य त्रिमूर्त्तित्वात् कालरूपं सूर्यम्। "सूर्य आत्मा जगतस्तस्थुषश्च" इति श्रुतिप्रामाण्यात् सर्वात्मकत्वात् कालं कालत्मानमिति यावत्। तथा "कालश्चादित्य उच्यते"। इति सोमाकरभाष्ये गर्गोक्तेश्च (द्रष्टव्यमस्य ग्रन्थस्य पृ.6) अत्र 'लगधस्य' इत्युल्लेखात् याजुषं लगधप्रणीतं केनापि संक्षेपत: सर्वं तत् संगृह्य 'आर्चम्' इति नामान्तरं व्यधायीत्यनुमीयते।
(16) श्लोके परम्परात: समायात: 'च विंशा' इति पाठ: साध्वर्थप्रतिपादक: श्रीमद्द्विवेदिभि: परिरक्षित इति स्फुटं वैदिकानाम्।
(17) श्लोके 'घटिका'-इत्यस्य पर्याय: 'कुम्भिका' इति गुरुवरै: सम्यग्रक्षित:।
(19) श्लोके लग्नशब्दार्थानवबोधाज्ज्यौतिषशास्त्रपरिभाषाविधुरेण बार्हस्पत्येन 'गुण'-शब्देन अष्टसंख्या, अभ्यस्तशब्देन योगं मत्वा कृत्तिका गृहीता: पुनरग्रे 'षडभ्यस्तान्' इत्यत्र 'अभ्यस्तपदेन' गुणनमेव गृहीतमित्यादि वैचित्र्यं सुजनैर्विभाव्यम्। सर्वत्रेह वास्तवार्थो गुरुवरैर्भाष्ये प्रदर्शित:। अथ गणितयुक्त्या 'गुण'-स्थाने 'गण' इति पाठश्चातीव युक्त:। उत्तरार्धे च 'सूर्यात्' इत्यत्र 'आर्क्षान्' इत्येव साधुपाठ: 'चान्द्रमसान् ऋतून्' इति वशेन गणितयुक्त्या च सङ्गच्छते।
(33) श्लोके परम्परातो लेखकाध्यापकादिदोषत: 'च समम'-इत्यनर्थ: श्रीमद्द्विवेदिभि: 'दशमम्' इति यथार्थ: पाठो बालैरपि बुध्यते। अथात्र वास्तवार्थबोधनायैव 'तृतीयाम्' इत्यादौ सप्तम्यन्तपाठो निवेशितस्तत्र चेत् केषां तत्पाठस्यैवाग्रहश्चेत् ते तथैव पठन्तु न हीदृशामाग्रहिणां प्रयोजनाय गुरुवराणां यत्न इति।
(34) श्लोके पूर्वोत्तरार्धयोश्छन्दोविभेदाच्छन्दोलक्षणानभिज्ञानां गुरुवरोदितविचारे शङ्का केन निवार्येत। अथापि बुद्धिमतां सन्देह: समयान्तरे विवरणदीपिकयाऽपसरिष्यत इति।
इति श्रीमत् सुधाकरभाष्ये झोपाख्यश्रीमुरलीधरविरचितं
लघुविवरणं पूर्त्तिमगात्।